Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 06 नवंबरू (हि.स.)।कश्मीरीसङ्गीतस्य आत्मा इति प्रसिद्धं ‘रबाब’वाद्यं स्वकीयविशिष्टनिर्माणशैल्या सौन्दर्येण च प्रसिद्धम् अस्ति। एतत् तूतवृक्षस्य काष्ठेन निर्मीयते तथा अस्मिन् षोडशतः सप्तदशपर्यन्तं ताराः भवन्ति। एतत् तारयुक्तं प्राचीनं वाद्ययन्त्रम् मूलतः अफगानिस्तानदेशस्य इति मन्यते। शतशः वर्षेभ्यः पूर्वं सम्भवतः पञ्चदशशताब्द्यां सुल्तान् जैन-उल-आबिदीनस्य शासनकाले एतत् कश्मीरप्रदेशम् आगतम् आसीत्। शनैः शनैः एतत् उपत्यकायाः लोकसङ्गीतस्य महत्त्वपूर्णम् अङ्गम् अभवत्।
कश्मीरीसूफीसङ्गीतस्य पारम्परिकलोकसङ्गीतस्य च केन्द्ररूपेण प्रसिद्धस्य रबाबवाद्यस्य सांस्कृतिकमहत्त्वम् अद्यापि अक्षुण्णम् अस्ति। कश्मीरे निर्मितस्य रबाबवाद्यस्य उपयोगः सङ्गीतकार्यक्रमेषु भवति, अपि च अनेकाः जनाः अस्य सौन्दर्येण आकर्षिताः भूत्वा स्वगृहेषु अलङ्काररूपेण स्थापयितुं अथवा कस्मैचित् उपहाररूपेण दातुमपि क्रीणन्ति।
मध्यकश्मीरस्य बडगामजनपदस्य नरबलनिवासी शिल्पी मुश्ताक अहमद डारः कथयति यत् तस्मै रबाबनिर्माणस्य निरन्तरम् आदेशाः प्राप्यन्ते। एते आदेशाः न केवलं कश्मीरतः, अपितु देशस्य विभिन्नभागेभ्यः विदेशेभ्यश्च आगच्छन्ति। सः ‘हिन्दुस्थान समाचार’ इत्यनेन सह उक्तवान्, ‘‘अहं पूर्णमनसा रबाबनिर्माणस्य कार्यं करोमि। कश्मीरतः एव न, अपितु देशस्य विभिन्नभागेभ्यः विदेशेभ्यश्च मह्यं आदेशाः प्राप्यन्ते।’’ तस्य कथनम् अस्ति यत् कश्मीरीरबाबवाद्यं विदेशेष्वपि स्वकीयां विशिष्टां परिचितिं प्राप्नोति।
एकं घटनां स्मरन् सः अवदत् यत् एकः स्थानीयः अधिवक्ता तस्मै एकस्य रबाबवाद्यस्य निर्माणाय आदेशं दत्तवान् तथा च उक्तवान् यत् सः एतत् अमेरिकादेशे निवसते कस्मैचित् निकटसम्बन्धिने उपहाररूपेण प्रेषयितुम् इच्छति। अस्य मूल्यं पञ्चत्रिंशत्सहस्ररूप्यकाणि आसीत्। यदा सः तत् ग्रहीतुं तस्य कार्यशालाम् आगतवान्, तदा तस्य सौन्दर्यं दृष्ट्वा स्वनिर्णयं परिवर्तितवान्।
सः अवदत् यत् सः तत् स्वयमेव क्रेतुम् इच्छति तथा च स्वगृहे अलङ्कारवस्तुरूपेण स्थापयिष्यति। अनन्तरं तेन अन्येषां रबाबवाद्यानामपि आदेशाः दत्ताः तथा च तस्मात् उचितमूल्येन त्रीणि रबाबवाद्यानि एकं सारङ्गीवाद्यं च क्रीतम्। डारः स्वगृहे द्वयोः कक्षयोः कार्यशालां निर्मितवान् अस्ति, यत्र सः प्रातःकालात् सायङ्कालपर्यन्तं कार्यं करोति। अत्र सः केवलं रबाबवाद्यमेव न, अपितु अन्यानि त्रीणि चत्वारि वाद्यानि अपि निर्माति।
सः अवदत्, ‘‘मम कार्यशाला गृहे एव अस्ति तथा च कदाचित् अहं चतुर्दशघण्टापर्यन्तं कार्यं करोमि। अहं प्रातः नववादनात् रात्रौ दशवादनपर्यन्तं निरन्तरं कार्यं करोमि। अहं सन्तूरं सारङ्गीं च अपि निर्मामि, किन्तु रबाबवाद्यस्य आदेशाः अधिकाः प्राप्यन्ते, यतः एतत् कश्मीरीवाद्यानां राजा इति मन्यते।’’
तस्य कथनम् अस्ति यत् रबाबवाद्यस्य अत्यधिकः आग्रहः अस्ति तथा च अस्य मूल्यं अन्यवाद्येभ्यः अधिकं भवति। सः अवदत् यत् ग्राहकाः स्वेच्छानुसारं रबाबवाद्यस्य निर्माणं कारयन्ति। केचन जनाः विशिष्टप्रकारस्य रबाबवाद्यस्य आग्रहं कुर्वन्ति, येषां मूल्यं अत्यधिकं भवति।
डारः स्वकार्येण प्रसन्नः अस्ति तथा च अस्मात् प्राप्तया आयया अपि सन्तुष्टः अस्ति। सः अवदत्, ‘‘प्रारम्भे अहम् एतत् कार्यं शौकरूपेण आरब्धवान्, किन्तु अनन्तरम् एतत् मम पूर्णकालिकं व्यवसायम् अभवत्। अन्यस्मिन् कार्ये संलग्नतायै मम समयः एव नास्ति। एतत् जीविकोपार्जनस्य अतीव उत्तमं साधनम् अस्ति। अत्र एतावन्तः ग्राहकाः आगच्छन्ति यत् अनेके जनाः मम कार्यशालातः रिक्तहस्ताः प्रत्यागच्छन्ति।’’
सः स्वपरिवारे रबाबनिर्माणस्य कार्ये तृतीयपीढ्याः प्रतिनिधिः अस्ति। सः एतत् कौशलं स्वपितुः अधीतवान्, यः सर्वकारीयकर्मचारी आसीत् तथा च शौकरूपेण रबाबवाद्यस्य निर्माणं करोति स्म। सः अवदत् यत् अद्य तस्य पिता भ्राता च तस्य साहाय्यं कुरुतः तथा च तेषां बालकाः अपि एतां परम्परां अग्रे नेतुम् उत्सुकाः सन्ति। तेन एतदपि कथितं यत् उपत्यकायां बहवः जनाः अस्मिन् कार्ये संलग्नाः सन्ति।
किन्तु डारस्य कथनम् अस्ति यत् रबाबनिर्माणस्य मुख्यसामग्रीभूतं तूतवृक्षस्य काष्ठम् अधुना क्रमेण दुर्लभं भवति। सः अवदत्, ‘‘रबाबवाद्यं तूतवृक्षस्य काष्ठेन निर्मीयते, किन्तु अधुना तत् प्राप्तुं कठिनं जातम्। एतेन अस्माकं कार्ये प्रतिकूलः प्रभावः भविष्यति इति चिन्ता उत्पद्यते।’’
सः अवदत् यत् एकस्य रबाबवाद्यस्य निर्माणे न्यूनातिन्यूनम् एकमासाधिकः कालः अपेक्ष्यते। यस्मिन् रबाबवाद्ये सूक्ष्मं कलात्मकं कार्यं क्रियते, तस्य निर्माणे अधिकः समयः अपेक्ष्यते तथा च तस्य मूल्यं अपि अधिकं भवति। सः उक्तवान् यत् सामान्यस्य रबाबवाद्यस्य मूल्यं पञ्चत्रिंशत् सहस्रतः षट्त्रिंशत् सहस्ररूप्यकाणि भवति, किन्तु तेन एकः विशेषप्रकारस्य रबाबवाद्यः एकलक्षविंशतिसहस्ररूप्यकेषु अपि विक्रीतः अस्ति। अहं निरन्तरम् अन्यस्मात् अधिकसुन्दरं रबाबवाद्यं निर्मातुं प्रयत्ने इति सः अवदत्। एतदेव कारणम् अस्ति यत् तस्य कार्यं कदापि न विरमति। जनाः तेन निर्मितानि रबाबवाद्यानि न केवलं वादनाय, अपितु गृहस्य अलङ्कारवस्तुरूपेण स्थापयितुमपि अत्यन्तम् उत्साहेन क्रीणन्ति।
निर्माणशैल्याः दृष्ट्या रबाबवाद्यं काष्ठस्य एकस्मादेव खण्डात् (सामान्यतः तूतवृक्षस्य काष्ठात्) छित्त्वा निर्मीयते। अस्य मुख्यभागः अन्तः खोखलः भवति तथा उपरितः चर्मावरणेन (सामान्यतः अजाचर्मणा) आच्छाद्यते। अस्य ताराः एकस्य सेतोरुपरि गच्छन्ति, यः चर्मावरणस्य उपरि आधारितः भवति। अनेन अस्मिन् वाद्ये मधुरा गम्भीरा च ध्वनिः उत्पद्यते।
एतत् मिजराबस्य साहाय्येन वाद्यते। अस्मिन् केचन ताराः सहकम्पनताराः इति कथ्यन्ते। एते प्रत्यक्षतया न वाद्यन्ते, अपितु मुख्यताराणां स्पर्शेन स्वयमेव कम्पिताः भवन्ति।
विशेषज्ञानां मतम् अस्ति यत् रबाबवाद्यं सरोदवाद्यस्य पूर्वरूपम् अस्ति। शताब्दीनां कालखण्डे ‘रबाब’ इति नाम्ना बहुविधानि वाद्यानि अभिहितानि सन्ति, किन्तु अद्य कश्मीरे अफगानिस्तानदेशे च प्रचलितं रबाबवाद्यं ‘काबुलीरबाब’ इति कथ्यते।
कथ्यते यत् अस्याः पारम्परिककलायाः पुरतः अनेकाः आव्हानाः सन्ति। यथा जनानां परिवर्तमानाः रुचयः तथा औपचारिकप्रशिक्षणस्य अभावः। अपरतः अस्याः कलायाः अन्तरराष्ट्रीयस्तरे परिचितिरपि प्राप्ता अस्ति।
२०२४ तमे वर्षे अफगानिस्तानस्य, ईरानस्य, ताजिकिस्तानस्य तथा उज्बेकिस्तानस्य संयुक्तनामाङ्कनस्य आधारेण यूनेस्को-संस्थया रबाबवाद्यस्य निर्माणस्य वादनस्य च कलां ‘मानवतायाः अमूर्तसांस्कृतिकविरासतां’ प्रतिनिधिसूच्यां समावेशिता।
Hindusthan Samachar / Dheeraj Maithani