केन्द्रीयमन्त्रिणा सेमीकॉन इण्डिया २.० वेब-अनुप्रयोग-पटलस्य शुभारम्भः कृतः
नवदिल्ली, ०६ नवम्बरमासः (हि.स.)। सेमीकॉन इण्डिया २.० वेब-अनुप्रयोग-पटलस्य शुभारम्भः शुक्रवासरे कृतः तथा इलेक्ट्रॉनिकी-घटकनिर्माणयोजनायाः अन्तर्गतं स्वीकृतानां १२ आवेदकानां सूची अपि प्रकाशिता। अस्मिन् अवसरे केन्द्रीयमन्त्री अश्विनीवैष्णवः इलेक्ट्रॉ-
दिल्ली में आयोजित कार्यक्रम का दृष्य


नवदिल्ली, ०६ नवम्बरमासः (हि.स.)। सेमीकॉन इण्डिया २.० वेब-अनुप्रयोग-पटलस्य शुभारम्भः शुक्रवासरे कृतः तथा इलेक्ट्रॉनिकी-घटकनिर्माणयोजनायाः अन्तर्गतं स्वीकृतानां १२ आवेदकानां सूची अपि प्रकाशिता। अस्मिन् अवसरे केन्द्रीयमन्त्री अश्विनीवैष्णवः इलेक्ट्रॉ-निकी-उद्योगस्य विस्तारं आत्मनिर्भर-भारतस्य दिशि महत्त्वपूर्णं सोपानम् इति उक्तवान्। सः अवदत् यत् देशः निर्मितवस्तुभ्यः मॉड्यूल्-घटक-निर्माणं प्रति, ततः कच्चामालस्य निर्माणं प्रति च क्रमशः अग्रे सरति।

सेमीकॉन इण्डिया २.० वेब-अनुप्रयोग-पटलस्य विषये वैष्णवः अवदत् यत् सर्वकारः अर्धचालककार्यक्रमस्य द्वितीय-स्य, तृतीयस्य तथा चतुर्थस्य स्तम्भस्य अन्तर्गतं आवेदनानि स्वीकर्तुम् आरभते। भारतस्य इलेक्ट्रॉनिकी-अर्धचालक-निर्माणपारिस्थितिकीतन्त्रं सुदृढं कर्तुम् एतत् अन्यत् महत्त्वपूर्णं सोपानम् अस्ति। सः अवदत् यत् अद्य स्वीकृति-प्रदानानन्तरं देशे सर्वत्र इलेक्ट्रॉनिकी-घटकनिर्माणेन सम्बद्धाः ११८ उद्योगाः स्थाप्यन्ते। एतेषु बहवः उद्योगाः आन्तरिकयाचनां पूरणेन सह निर्यातवर्धने अपि समर्थाः भविष्यन्ति।

सः अवदत् यत् भारते चलदूरभाष-यन्त्रनिर्माणस्य आरम्भः कदाचित् विपक्षेण ‘पेञ्च-ड्राइवर-प्रौद्योगिकी’ इति उक्त्वा निराकृतः आसीत्। किन्तु अधुना देशे इलेक्ट्रॉनिकी-उपकरणानाम् आवश्यक-घटकैः सह तेषां निर्माणे प्रयुक्तानां सामग्रीणां यन्त्राणां च उत्पादनम् अपि भवति।

वैष्णवः अवदत् यत् इलेक्ट्रॉनिकी-उद्योगः सम्प्रति प्रायः २५ लक्षं जनान् रोजगारं प्रददाति। बैटरी-कोशाः, एनोड्-कैथोड्-सामग्री इत्यादीनां महत्त्वपूर्णघटकानां कृते पूर्वं भारतं बहुधा विदेशस्थस्मिन् एकस्मिन् देशे निर्भरम् आसीत्। अधुना एतेषां स्वदेशीयोत्पादनेन आयातनिर्भरता न्यूनीभवति। एनोड्-कैथोड्-सामग्री, ताम्रपत्रम्, शिथिलानि तथा विंशति-स्तरीयाणि पीसीबी-पट्टानि, प्रकाशीय-ट्रान्ससीवर्, रिले तथा कैपेसीटर इत्यादीनां वस्तूनाम् उत्पादनम् अपि भारते भवति।

अस्मिन् अवसरे इलेक्ट्रॉनिकी-सूचना-प्रौद्योगिकी-मन्त्रालयस्य सचिवः एस. कृष्णन् अवदत् यत् सेमीकॉन इण्डिया २.० योजनायाः अन्तर्गतं अर्धचालक-निर्माणयन्त्राणि सामग्रीश्च सहितेषु त्रिषु प्रमुखक्षेत्रेषु आवेदनानि आमन्त्रयितुं वेब-पटलस्य शुभारम्भः कृतः। एषा योजना १.२७ लक्षकोटिरूप्यकाणां व्ययेन प्रारब्धा अस्ति। अस्याः योजनायाः अन्तर्गतं षट् स्तम्भाः निर्धारिताः सन्ति।

सः अवदत् यत् अद्य इलेक्ट्रॉनिकी-घटकनिर्माणयोजनायाः अन्तर्गतं १२ नवीनाः परियोजनाः प्रारभ्यन्ते। एतेषु ७,५०३ कोटिरूप्यकाणां निवेशः भविष्यति। एतेषां परियोजनानां उद्देश्यं इलेक्ट्रॉनिकी-अर्धचालकनिर्माणस्य प्रारम्भिकचरणेषु स्वदेशीयक्षमतायाः विकासः अस्ति।

सः अवदत् यत् अद्यावधि ७७,०५१ कोटिरूप्यकाणां निवेशाय स्वीकृतिः प्रदत्ता अस्ति। उत्पादनस्य लक्ष्यम् ४.५६ लक्षकोटिरूप्यकेभ्यः वर्धयित्वा ५.७३ लक्षकोटिरूप्यकाणि कृतम् अस्ति। रोजगारस्य लक्ष्यं ९१,६०० निर्धारितम् अस्ति, यस्य तुलनायाम् अद्यावधि ८१,७५५ जनानां कृते रोजगारस्य अवसराः सृजिताः सन्ति। ईसीएमएस-योजनायाः अन्तर्गतं १६ राज्येषु ३४ उत्पादैः सम्बद्धानां ११८ आवेदनानाम् अपि अनुमोदनं कृतम् अस्ति।

Hindusthan Samachar / Divya Ranjan