आडम्बरात् दूरे स्थित्वा पङ्कजत्रिपाठी स्वपरिवारेण सह दीपावलीपर्व आचरति।
मुंबई, 06 नवंबरमासः (हि.स.)। चलच्चित्रजगतः अभिनेता पङ्कजत्रिपाठिनः कृते दीपावलीपर्व आडम्बरस्य अथवा भव्यायोजनस्य न, अपितु परिवारेण सह सुखदक्षणान् व्यतीतुं अवसरः अस्ति। सः प्रतिवर्षमिव अस्मिन्नपि वर्षे पत्न्या सन्ततिभिश्च सह अत्यन्तं सरलतया दीपावली
पंकज त्रिपाठी - फोटो सोर्स एक्स


मुंबई, 06 नवंबरमासः (हि.स.)।

चलच्चित्रजगतः अभिनेता पङ्कजत्रिपाठिनः कृते दीपावलीपर्व आडम्बरस्य अथवा भव्यायोजनस्य न, अपितु परिवारेण सह सुखदक्षणान् व्यतीतुं अवसरः अस्ति। सः प्रतिवर्षमिव अस्मिन्नपि वर्षे पत्न्या सन्ततिभिश्च सह अत्यन्तं सरलतया दीपावलीपर्व आचरितुं सज्जतां कुर्वन् अस्ति।

अभिनेता त्रिपाठी उक्तवान् यत् तस्य गृहे अस्मिन् दिने मृत्तिकाप्रदीपाः प्रज्वाल्यन्ते, गृहभोजनं निर्मीयते तथा च पूर्णविधिविधानेन महालक्ष्म्याः पूजनं क्रियते। तस्य मतानुसारं गृहे प्रायः दश प्रदीपान् प्रज्वाल्य परिवारेण सह उत्सवम् आचरितुं परम्परा अस्ति। सः कामनां कृतवान् यत् महालक्ष्म्याः कृपा सर्वेषु भवतु तथा च प्रत्येकं परिवारः सुखी समृद्धश्च भवतु।

तत्रैव अभिनेत्री अदितिराव हैदरी अपि अस्मिन् वर्षे दीपावलीपर्वणः विषये उत्साहिता अस्ति। सा पत्या अभिनेत्रा सिद्धार्थेन सह उत्सवम् आचरिष्यति। अदितिः उक्तवती यत् गतवर्षे सिद्धार्थः चलचित्रस्य छायाङ्कनसम्बन्धेन अमेरिकादेशे आसीत्, येन कारणेन तौ मिलित्वा दीपावलीपर्व आचरितुं न अशक्नुताम्। अस्मिन् वर्षे तस्य सान्निध्येन सा अत्यन्तं प्रसन्ना अस्ति। अदितिः आशां प्रकटितवती यत् चलचित्रस्य प्रचारकार्येभ्यः समयं प्राप्य सा गृहं प्राप्स्यति तथा च पत्या सह उत्सवस्य आनन्दम् अनुभविष्यति।

उल्लेखनीयं यत् पङ्कजत्रिपाठी तथा अदितिराव हैदरी प्रथमवारं ‘पारिवारिकमनोरञ्जनम्’ इति चलचित्रे एकत्र दृश्येते। वरुण वी. शर्मणा निर्देशिते अस्मिन् चलचित्रे प्रेम, हास्यं तथा नाटकीयतायाः समावेशः भविष्यति। चलचित्रस्य कथा लखनऊ-नगरस्य रञ्जनदुबे इत्यस्य जीवनस्य परितः परिभ्रमति। यस्य जीवने एका महिला गृहसहायिका आगत्य अनेकाः रोचकाः परिवर्तनाः जायन्ते। चलचित्रम् नवम्बरमासस्य त्रयोदशे दिनाङ्के सोनी लिव इत्यस्मिन् ओटीटी-मञ्चे प्रदर्शितं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani