Enter your Email Address to subscribe to our newsletters

कोलकाता, 06 नवंबरमासः (हि.स.)।
अण्डमाननिकोबारद्वीपसमूहस्य कारनिकोबारद्वीपस्य षोडशवर्षीया आई.एस. ब्रिडनी सीमितसंसाधनान् भौगोलिकप्रतिकूलताश्च अतिक्रम्य साइकिलचालने राष्ट्रियस्तरे स्वकीयां परिचितिं स्थापितवती अस्ति। भारतीयक्रीडाप्राधिकरणस्य (साई) संस्थागतसहयोगेन, प्रशिक्षकस्य मार्गदर्शनेन तथा परिवारस्य त्यागेन च ब्रिडनी अद्यतनकाले राञ्चीनगरे आयोजितायां राष्ट्रियपथसाइकिलचालनप्रतियोगितायां स्वर्णपदकं विजित्य राष्ट्रियकीर्तिमानमपि स्थापितवती।
झारखण्डस्य राञ्चीनगरस्थिते खेलग्रामे नवम्बरमासस्य तृतीयदिनाङ्के आयोजितायां अष्टसप्ततितमायां वरिष्ठवर्गीयायां, पञ्चपञ्चाशत्तमायां कनिष्ठवर्गीयायां तथा एकचत्वारिंशत्तमायां उपकनिष्ठवर्गीयायां राष्ट्रियपथसाइकिलचालनप्रतियोगितायां ब्रिडनी उपकनिष्ठबालिकानां ५०० मीटरमितायां व्यक्तिगतकालपरीक्षणस्पर्धायां ३७.४७९ सेकेण्डमितं समयं प्राप्तवती। अनेन सा त्रिशा पॉल इत्यस्याः ३८.७०० सेकेण्डमितं पूर्वराष्ट्रियकीर्तिमानं भङ्क्त्वा नवीनं कीर्तिमानं स्थापितवती। त्रिशा एशियाकपप्रतियोगितायां तथा एशियापथसाइकिलचालनप्रतियोगितायां पदकानि विजितवती अस्ति।
या क्रीडिका साइकिलचालनवेलोड्रोमस्य तथा प्रतियोगितास्तरीयसुविधानां विना स्वक्रीडाजीवनस्य प्रारम्भम् अकरोत्, तस्याः कृते स्वर्णपदकेन सह राष्ट्रियकीर्तिमानस्य स्थापना महती उपलब्धिः अस्ति। एषा सफलता वर्षाणां परिश्रमस्य, अनुशासनस्य तथा निरन्तरप्रयत्नानां परिणामः अस्ति।
ब्रिडनी साई-माध्यमेन सह वार्तालापे उक्तवती, ‘‘कारनिकोबारे स्थिते साई-प्रशिक्षणकेन्द्रे प्रशिक्षकस्य विश्वजीतबालकृष्णसुतारस्य मार्गदर्शने प्रशिक्षणं कुर्वती अहं उत्तमस्वास्थ्यसम्पन्ना आसम्। उत्तमप्रदर्शनस्य अपेक्षा तु आसीत्, किन्तु राष्ट्रियकीर्तिमानं स्थापयिष्यामि इति कदापि न चिन्तितवती। अहं केवलं स्वकीयस्य सर्वोत्तमप्रदर्शनस्य प्रयासम् अकरवम्।’’
कृषकपरिवारस्य पुत्र्याः महत्स्वप्नम्
ब्रिडनी कारनिकोबारस्य किन्युका ग्रामस्य निवासिनी अस्ति। तस्याः परिवारः साधारणां आर्थिकस्थितिं धारयति। तस्याः माता जुनिया गृहिणी अस्ति, पिता रुथरः नारिकेलकृषिं कृत्वा शुष्कनारिकेलस्य फलमज्जं विक्रीय परिवारस्य भरणपोषणं करोति। पारम्परिककृषौ सीमितायाम् आयायां च आश्रितस्य परिवारस्य कृते पुत्र्याः क्रीडाजीवनं अग्रे नेतुं सरलम् न आसीत्। तथापि मातापितरौ तस्याः स्वप्नपूर्तये पूर्णं सहकारं दत्तवन्तौ।
प्रारम्भे ब्रिडन्याः रुचिः पादकन्दुकक्रीडायां तथा शतमीटरधावनस्पर्धायाम् आसीत्। नवम्बरमासे २०२२ तमे वर्षे चयनपरीक्षणकाले तया साइकिलचालने स्वकीयक्षमता प्रदर्शिता। प्रशिक्षकः सुतारः तस्याः प्रतिभाम् अभिज्ञाय तां अस्यां क्रीडायां सम्मिलितुं प्रेरितवान्। ततः २०२३ तमे वर्षे सा कारनिकोबारे स्थिते साई-प्रशिक्षणकेन्द्रे प्रवेशं प्राप्तवती, यत्र प्रारम्भिकं प्रशिक्षणं प्राप्य साइकिलचालनकौशलं परिष्कृतवती।
प्रशिक्षकेण संसाधनानाम् अभावः बाधा न भवितुं कृतः
ब्रिडन्याः यात्रा सरलम् न आसीत्। कारनिकोबारे स्थिते साई-प्रशिक्षणकेन्द्रे साइकिलचालनवेलोड्रोमस्य तथा राष्ट्रियस्तरीयप्रतियोगितायाः सज्जतायै आवश्यकानि सर्वाणि उपकरणानि उपलब्धानि न आसन्। ब्रिडन्याः प्रतिभां दृष्ट्वा प्रशिक्षकेण सुतारेण एतासां न्यूनतानां निवारणाय व्यक्तिगतः प्रयासः कृतः।
तेन स्वपूर्वप्रशिक्षितानां साहाय्येन तिरुवनन्तपुरात् महाराष्ट्रस्य कोल्हापुरात् च प्रतियोगितास्तरीयाणि उपकरणानि व्यवस्थापितानि। अनेन स्थानीयस्तरे सुविधानाम् अभावः ब्रिडन्याः प्रगतौ बाधकः न अभवत्।
ब्रिडनी २०२४-२५ तमे सत्रे चेन्नैनगरे आयोजितायां राष्ट्रियपथसाइकिलचालनप्रतियोगितायां स्वर्णपदकं विजितवती आसीत्। तदतिरिक्तं राञ्चीनगरे आयोजितायां विद्यालयीय राष्ट्रियप्रतियोगितायाः सामूहिकवेगस्पर्धायामपि सा स्वर्णपदकं प्राप्तवती। एताभिः सफलताभिः तस्याः क्षमतायां विश्वासः अधिकं दृढः अभवत्।
प्रशिक्षकस्य सुतारस्य योगदानं केवलं प्रशिक्षणपर्यन्तं सीमितं नासीत्। प्रतिभायाः अभिज्ञानं, आवश्यकोपकरणानां व्यवस्था तथा आधारभूतसुविधानाम् अभावे समाधानस्य अन्वेषणम् इत्यादिषु कार्येषु तस्य महत्त्वपूर्णा भूमिका आसीत्। तस्य प्रयासैः सुदूरद्वीपे प्रशिक्षणं प्राप्यमाणायै ब्रिडन्यै राष्ट्रियस्तरे प्रतिभाप्रदर्शनस्य अवसरः प्राप्तः।
साई-संस्थायाः कोलकाताकेन्द्रेण प्रशिक्षणव्यवस्था सुदृढा कृता
कारनिकोबारस्थितस्य प्रशिक्षणकेन्द्रस्य आव्हानानि दृष्ट्वा साई-संस्थायाः राष्ट्रियउत्कृष्टताकेन्द्रेण (एनसीओई), कोलकातया ब्रिडन्याः प्रशिक्षणं सुदृढं कर्तुं महत्त्वपूर्णा भूमिका निर्वाहिता। वित्तीयप्रशासनिकतान्त्रिकसहयोगस्य माध्यमेन आवश्यकोपकरणानां तथा आधारभूतसुविधानाम् अभावं दूरीकर्तुं साहाय्यं कृतम्।
तिरुवनन्तपुरे राञ्चीनगरे च आयोजितानि प्रशिक्षणशिबिराणि, पोषणसम्बन्धिनः जागरूकतासत्राणि तथा प्रशिक्षकाणां तान्त्रिकपरामर्शाः तस्याः प्रशिक्षणं अधिकं सुव्यवस्थितम् अकुर्वन्। अनेन सहयोगेन दूरस्थक्षेत्रेषु विद्यमानानां प्रतिभानां कृते उत्तमसंसाधनैः अवसरैश्च सह संयोजनस्य मार्गः प्रशस्तः अभवत्। आधारस्तरे कार्यं कुर्वतां प्रशिक्षकाणां प्रयासेभ्यः संस्थागतसहयोगः प्राप्तः, येन ब्रिडन्याः स्वक्षमतायाः परिष्कारस्य अवसरः प्राप्तः।
निरन्तरश्रेष्ठप्रदर्शनस्य परिणामः
ब्रिडन्याः एषा उपलब्धिः आकस्मिकसफलता नास्ति। २०२५-२६ तमे सत्रे रुद्रपुरनगरे आयोजितायां राष्ट्रियपथसाइकिलचालनप्रतियोगितायाः अण्डर-१६ तथा उपकनिष्ठबालिकावर्गीयस्पर्धायां सा रजतपदकं विजितवती आसीत्। अस्यां प्रतियोगितायां महाराष्ट्रस्य आभा सोमण इत्यादयः देशस्य अनेकाः समर्थाः क्रीडिकाः भागं गृहीतवत्यः। विद्यालयीय राष्ट्रियप्रतियोगितासु अपि तया रजतपदानि प्राप्तानि आसन्।
राञ्चीनगरे ब्रिडनी स्वप्रदर्शनं पुनरेकं सोपानम् अग्रे नीतवती। सा मणिपुरस्य फ्लोरेन्सदेवीम्, महाराष्ट्रस्य गायत्रीताम्बवेकरम् तथा राजस्थानस्य दीक्षाम् इत्यादीन् प्रमुखप्रतिस्पर्धिनः पराजित्य नवीनं राष्ट्रियकीर्तिमानं स्थापितवती।
प्रायः त्रिभ्यः मासेभ्यः पूर्वं साई-संस्थायाः राष्ट्रियउत्कृष्टताकेन्द्रयोजनायाः अन्तर्गतं नवदेहल्याः इन्दिरागान्धीक्रीडाङ्गणे प्रशिक्षणार्थं ब्रिडन्याः चयनम् अभवत्। सम्प्रति सा तत्र विदेशीयप्रशिक्षकस्य मार्कपैकरस्य मार्गदर्शने प्रशिक्षणं प्राप्नोति। अत्र तस्यै विशिष्टप्रशिक्षणस्य उच्चस्तरीयप्रतियोगितानां सज्जतायाः च अवसरः प्राप्यते। अन्तरराष्ट्रीयस्तरे भारतस्य प्रतिनिधित्वं कृत्वा एशियाक्रीडासु पदकविजयः तस्याः लक्ष्यम् अस्ति।
प्रशिक्षकस्य विश्वासः, एकदा विश्वचैम्पियनशिपे पदकं विजेष्यति
ब्रिडनी स्वसफलतायाः श्रेयः प्रशिक्षकाय सुताराय ददाति, येन तस्याः साइकिलचालने परिचयः कारितः तथा प्रारम्भिककाले निरन्तरं सहयोगः प्रदत्तः। सा उक्तवती, ‘‘यदि मम प्रशिक्षकः सुतारः मां साइकिलचालनेन सह न अयोजयिष्यत्, तर्हि अहम् अस्यां स्थितिं प्राप्तुं न अशक्ष्यम्। तेन मह्यं प्रथमः अवसरः प्रदत्तः, तं विना मम एषा यात्रा सम्भवा न अभविष्यत्। अद्यावधि मया यत्किमपि प्राप्तं तस्मिन् तस्य योगदानम् अत्यन्तं महत्त्वपूर्णम् अस्ति।’’
---------------
Hindusthan Samachar / Dheeraj Maithani