Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ नवम्बरमासः (हि.स.)।भारतीयदूरसञ्चारविनियामकप्राधिकरणेन दूरसञ्चारसेवाप्रदातॄणां मध्ये अन्त-स्सम्पर्कसन्धिनां पञ्जीकरणेन अनुरक्षणेन च सम्बद्धेषु नियमेषु संशोधनं कृतम्। अस्य अन्तर्गतं सर्वैः सेवाप्रदातृभिः स्वसन्धिनां तेषु कृतानां परिवर्तनानां च पञ्जीकरणं ट्राई-संस्थायाः पोर्टल्-माध्यमेन अन्तर्जालद्वारा अनिवार्यतया करणीयम्। संशोधिताः विनियमाः जनवरीमासस्य १ दिनाङ्कात् प्रवर्तिष्यन्ते।
ट्राई-संस्थया शुक्रवासरे ‘अन्तस्सम्पर्क-सन्धिनां पञ्जिका (चतुर्थसंशोधनम्) विनियमाः, २०२६’ इति विनियमाः प्रकाशिताः। एतेषाम् अनुसारं २०२७ तमवर्षस्य जनवरीमासस्य १ दिनाङ्के प्रवर्तमाना: सर्वा: विद्यमाना: सन्धय: अस्मात् दिनाङ्कात् १५ दिनाभ्यन्तरे पटल-माध्यमेन समर्पणीया: भविष्यन्ति। नवीनसन्धिनां तेषु कृतानां संशोधनानां च पञ्जीकरणम् अपि तेषां निष्पादनात् अथवा संशोधनात् १५ दिनाभ्यन्तरे अनिवार्यं भविष्यति। पूर्वं मुद्रितप्रतिभिः सह फ्लॉपी अथवा डिस्केट्-माध्यमेन सङ्गणकीयप्रतिलिपिः समर्पयितुं व्यवस्था आसीत्, या अधुना समाप्ता कृता।
संशोधितनियमानुसारं सन्धिनाम् विद्युतीयप्रतिलिपयः पाठशोधनीय-पीडीएफ-स्वरूपेण समर्पणीयाः भविष्यन्ति। अपि च, पञ्जिकायाः निरीक्षणाय, तस्याः निर्दिष्टभागस्य अवलोकनाय, प्रतिलिपीनां वा अंशानां प्राप्तये च आवेदनम् अपि ट्राई-संस्थायाः पोर्टल्-माध्यमेन कर्तुं शक्यते। अनेन जनाः विद्यमानया भौतिकव्यवस्थया सह अन्तर्जालमाध्यमेन अपि पञ्जिकां प्राप्तुं शक्नुवन्ति।
ट्राई-संस्था सेवाप्रदातृभ्यः अन्तरसम्पर्क-सन्धिभ्यः सम्बद्धानां विभिन्नश्रेणीनां विस्तृतविवरणं निर्धारितस्वरूपेण निश्चित-समयसीमायां याचितुं शक्नोति। अनेन सम्झौतासम्बद्धानां मानकीकृतविवरणानां उपलब्धतायां तथा विनियामकीय-निरीक्षणस्य सुदृढीकरणे सहायता भविष्यति।
संशोधनानुसारं पञ्जिकायाः निरीक्षणार्थं शुल्कं प्रतिघण्टां तस्याः कस्यापि भागस्य कृते वा १,५०० रूप्यकाणि निर्धारितम् अस्ति। प्रतिलिपीनां वा अंशानां प्राप्तये तु प्रतिपृष्ठं ५०० रूप्यकाणि शुल्कं दातव्यं भविष्यति। एषः शुल्कनिर्धारणः भारतीय-दूरसञ्चारविनियामकप्राधिकरणस्य विनियमाः, २००५ इत्येतेषाम् अनुरूपः अस्ति। नियमानाम् उल्लङ्घने उल्लङ्घनस्य स्वरूपस्य गम्भीरतायाश्च आधारेण विभिन्नस्तरीयदण्डात्मक-धनराशेः प्रावधानम् अपि कृतम् अस्ति।
ट्राई-संस्थायाः अनुसारं दूरसञ्चारक्षेत्रे अन्तरसम्पर्कव्यवस्थायाः अन्तर्गतं द्वयोः अथवा अधिकानां सञ्जालानां तकनीकी-व्यावसायिकदृष्ट्या संयोजनं क्रियते, येन विभिन्नसेवाप्रदातॄणां उपभोक्तारः परस्परं संवादं कर्तुं शक्नुयुः। भारतीयदूरसञ्चार-विनियामकप्राधिकरण-अधिनियमस्य, १९९७ इत्यस्य ११(१)(बी) धारायाः सप्तमस्य अष्टमस्य च उपखण्डयोः अन्तर्गतं प्राधिकरणाय अन्तरसम्पर्क-सन्धिनां पञ्जिकायाः अनुरक्षणस्य तथा निर्धारितशुल्कस्य शर्तानां च आधारेण तस्याः सार्वजनिकनिरीक्षणार्थम् उपल-ब्धतायाः अधिकारः प्रदत्तः अस्ति।
ट्राई-संस्थया अस्याः व्यवस्थायाः समीक्षार्थं २०२५ तमवर्षस्य एप्रिलमासस्य ३ दिनाङ्के पूर्वपरामर्शपत्रं प्रकाशितम् आसीत्। ततः २०२५ तमवर्षस्य नवम्बरमासस्य १० दिनाङ्के परामर्शपत्रं प्रकाशित्य हितधारकेभ्यः विचारा: आमन्त्रिताः। अस्यां प्रक्रियायां १७ हितधारिभिः टिप्पण्यः तथा ९ हितधारिभिः प्रत्युत्तरटिप्पण्यः प्रस्तुताः। अस्मिन् विषये २०२६ तमवर्षस्य जनवरीमासस्य २८ दिनाङ्के मुक्तचर्चा अपि आयोजिता। प्राप्तानां विचाराणां तेषां विश्लेषणस्य च आधारेण संशोधितविनियमाः अन्तिमरूपेण निर्धारिता:।
Hindusthan Samachar / Divya Ranjan