राहुलगान्धिनः ‘मतदानं रक्ष’ यात्रा अवैधप्रवेशकिन् रक्ष यात्रा - अमितशाहः
उत्तराखण्डे तृतीयवारं भाजपासर्वकारस्य निर्माणं लक्ष्यं, शाहः अवदत्—२०२७ तमे वर्षे ६५ स्थानाधिकानि देहरादूनम्, ०६ नवम्बरमासः (हि.स.)। उत्तराखण्डराज्यस्य स्थापनायाः २६ तम्याः वर्षग्रन्थे: अवसरे शुक्रवासरे देहरादूनस्य परेडमैदाने आयोजिते राज्योत्सवसमा
देहरादून में शुक्रवार को राज्य स्थापना दिवस समारोह के दौरान मंच से लोगों का अभिवादन करते केंद्रीय गृह एवं सहकारिता मंत्री अमित शाह। साथ में मुख्यमंत्री पुष्कर सिंह धामी।


देहरादून में शुक्रवार को राज्य स्थापना दिवस समारोह के दौरान मंच पर केंद्रीय गृह एवं सहकारिता मंत्री अमित शाह का पटका ओढ़ाकर स्वागत करते मुख्यमंत्री पुष्कर सिंह धामी।


उत्तराखण्डे तृतीयवारं भाजपासर्वकारस्य निर्माणं लक्ष्यं, शाहः अवदत्—२०२७ तमे वर्षे ६५ स्थानाधिकानि

देहरादूनम्, ०६ नवम्बरमासः (हि.स.)। उत्तराखण्डराज्यस्य स्थापनायाः २६ तम्याः वर्षग्रन्थे: अवसरे शुक्रवासरे देहरादूनस्य परेडमैदाने आयोजिते राज्योत्सवसमारोहे केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः कांग्रेसनेतुः राहुलगान्धिनः ‘मतदानं रक्ष यात्रा’ इत्यस्याः ‘अवैधप्रवेशकान् रक्ष यात्रा’ इति संज्ञां दत्तवान्। सः अवदत् यत् विशेषगहन-पुनरीक्षणस्य माध्यमेन अवैधप्रवेशकान् निष्कासयितुं कार्यं क्रियते, किन्तु राहुलगान्धी यात्रां निष्कास्य अस्य विरोधं कुर्वन् अस्ति। देशे अवैधप्रवेश: केनापि मूल्येन न सहिष्यते।

शाहः कांग्रेसदलं तुष्टीकरणस्य राजनीतिं कर्तुम्, शुक्रवासरे नमाजार्थं अवकाशस्य प्रस्तावम् आनेतुम्, राममन्दिरस्य निर्माणस्य च विरोधं कर्तुम् आरोपितवान्। सः २०२७ तमे वर्षे आयोज्यमाने विधानसभानिर्वाचने भाजपादलस्य कृते ६५ तः अधिकानि आसनानि प्राप्तुं लक्ष्यं निर्धारितवान्। सः अवदत् यत् भाजपादलं उत्तराखण्डे निरन्तरं तृतीयवारं सर्वकारं निर्मास्यति।

शाहः कांग्रेसदलस्य उपरि तीव्रं प्रहारं कुर्वन् अवदत् यत् कांग्रेसदलेन उत्तराखण्ड-राज्यस्य निर्माणं निरोद्धुं प्रयासः कृतः आसीत्, परन्तु पूर्वप्रधानमन्त्री अटलबिहारीवाजपेयी २००० तमस्य वर्षस्य नवम्बरमासस्य नवमदिनाङ्के पृथक् राज्यस्य निर्माणं कृत्वा बहुवर्षपुरातनं स्वप्नं साकारं कृतवान्। सः अवदत् यत् अटलजी उत्तराखण्डस्य निर्माणम् अकरोत् तथा प्रधानमन्त्री नरेन्द्रमोदी, मुख्यमन्त्री पुष्करसिंहधामी च अस्य राज्यस्य विकासं कृतवन्तौ। उत्तराखण्डं केवलं राज्यमेव न, अपितु देशस्य आध्यात्मिकचेतनायाः सांस्कृतिकचेतनायाश्च प्रमुखं केन्द्रम् अस्ति।

बाबा केदारनाथः, बदरीविशालः, मातृ-गङ्गायमुनयोः उद्गमस्थले, हेमकुण्ड-साहिबः, हरिद्वारम् इत्यादयः पवित्रतीर्थ-स्थलानि अस्य देवभूमेः विशिष्टं परिचयं निर्मान्ति। सः अवदत् यत् सम्पूर्णः देशः मोक्षप्राप्त्याशया देवभूमिम् आगच्छति तथा सः अस्याः पवित्रभूमेः पुनः पुनः प्रणामं करोति। गृहमन्त्रिणा राज्यनिर्माणान्दो-लनकाले रामपुरतिराहे सहितेषु विभिन्नस्थानेषु सङ्घर्षं कृतवद्भ्यः आन्दोलनकारिभ्यः सह माधोसिंहभण्डारी, तीलूरौतेली, गबरसिंहनेगी, दरबानसिंह-नेगी तथा जनरल् बिपिनरावत इत्यादीनां अनेकेषां महानुभावानां स्मरणं कृत्वा श्रद्धाञ्जलिः समर्पिता।

शाहः राज्योत्सवं गौरवस्य, उपलब्धेः, सङ्कल्पस्य च अवसरः इति वर्णयन् अवदत् यत् उत्तराखण्डस्य देवभूमित्वस्य तथा राज्यनिर्माणस्य गौरवं सर्वैः अनुभाव्यम्। प्रधानमन्त्री मोदी-मुख्यमन्त्री धामी इत्यनयोः नेतृत्वे विकासक्षेत्रे प्राप्ताः उपलब्धयः सिद्धयः सन्ति। अधुना सङ्कल्पः अस्ति यत् २०४५ तमवर्षपर्यन्तं विकसितभारतस्य निर्माणयात्रायां उत्तराखण्डं देशस्य सर्वप्रथमं विकसितं राज्यं भवेत्।

गृहमन्त्री अवदत् यत् २०२२ तमवर्षात् आरभ्य अद्यावधि उत्तराखण्डस्य सकल-राज्यगृहोत्पादे ५० प्रतिशतं वृद्धिः अभवत् तथा प्रतिव्यक्त्यायामे ४० प्रतिशतस्य वृद्धिः अभिलिखिता। सः अवदत् यत् राज्यस्य आर्थिकविकासेन सह सामान्य-नागरिकाणां समृद्धिः अपि सर्वकारस्य लक्ष्यम् अस्ति।

केन्द्रीयगृहमन्त्री अवदत् यत् उत्तराखण्डं देशस्य प्रथमं राज्यम् अस्ति, यत्र समाननागरिकसंहिता प्रवर्तिता। राज्ये प्रवर्तितया अस्याः संहितया विवाहविच्छेद-सम्बद्धेषु विषयेषु समानः विधिव्यवहारः सुनिश्चितः कृतः। सः उक्तवान् यत् उत्तराखण्डस्य उदाहरणानन्तरं देशस्य १५ राज्यानि यूसीसी-प्रवर्तनस्य दिशि अग्रे सरन्ति तथा भाजपादलं सर्वेषु राज्येषु तस्याः प्रवर्तनाय प्रतिबद्धम् अस्ति। सः अवदत् यत् राज्ये विना अनुशंसां विना व्ययं च ३५ सहस्राणि युवभ्यः सर्वकारीयाः नियुक्तयः प्रदत्ताः। धर्मान्तरणनिरोधक-विधिम् अपि सः राज्यसर्वकारस्य प्रमुखासु उपलब्धिषु अन्तर्भावितवान्।

गृहमन्त्री महिलानां कृते सर्वकारीय-नियुक्तिषु ३० प्रतिशतं आरक्षणस्य, सहकारीसमितिषु ३३ प्रतिशतं आरक्षणस्य, त्रिलक्षं लक्षपतिदिदीनां निर्माणस्य, गृहवासयोजनायाः तथा महिला-स्व-सहायतासमूहानां प्रयासानां च उल्लेखं कृतवान्। सः अवदत् यत् राज्यनिर्माणा-न्दोलनकारिभ्यः १० प्रतिशतं आरक्षणं तथा बलिदानिनां परिवाराणां कृते प्रदीयमाना अनुग्रहधनराशिः १० लक्षरूप्यकात् वर्धयित्वा ५० लक्ष-रूप्यकाणि कृता। किच्छायाम् एम्स्-संस्थायाः उपकेन्द्रम् औद्योगिकी स्मार्टसिटीनिर्माणं च अपि सः महत्त्वपूर्णाः परियोजनाः इति वर्णितवान्।

केन्द्रीयगृहमन्त्री कांग्रेसदलं पर्वतीय-क्षेत्रस्य जलं युवशक्तिं च पर्वतस्य हिताय उपयोक्तुं न दत्तवद् इति नीतिम् अनुसृतम् इति आरोपितवान्। सः अवदत् यत् कांग्रेसदलेन उत्तराखण्डं दीर्घकालं यावत् धनप्रेषणाधारितायाः अर्थव्यवस्थायाः पलायनस्य च आश्रितं कृत्वा त्यक्तम् आसीत्, परन्तु भाजपासर्वकारेण उद्योगाधारिताम् अर्थव्यवस्थां विकसितुं प्रयासः कृतः।

सः अवदत् यत् पूर्वं सीमावर्तिग्रामान् देशस्य अन्तिमग्रामान् इव पश्यन्ति स्म, परन्तु प्रधानमन्त्री मोदी तान् देशस्य प्रथमग्रामान् रूपेण विकसितुं दृष्टिकोणं प्रदत्तवान्। ‘वाइब्रेन्ट् विलेज’ कार्यक्रमस्य अन्तर्गतं २७० कोटिरूप्यकाणां व्ययेन ५१ सीमावर्तिग्रामेषु विकासकार्याणां उल्लेखं कुर्वन् सः अवदत् यत् अनेन ग्रामेषु युवानां प्रत्यागमनस्य मार्गः प्रशस्तः भवति। गृहमन्त्री अवदत् यत् पूर्वं सुरक्षाकारणानि दर्शयित्वा सीमावर्तिक्षेत्रेषु मार्गाणां आधारभूतसुविधानां च विकासः अवरुद्धः क्रियते स्म। तस्य विपरीतम् मोदीसर्वकारेण सीमावर्तिक्षेत्रेषु मार्ग-सम्पर्कः सुदृढः कृतः। सः सर्जिकल-स्ट्राइक्, एयर्-स्ट्राइक तथा ऑपरेशन् सिन्दूर इत्येतानाम् उल्लेखं कृत्वा अवदत् यत् भारतेन आतङ्कवादस्य विरुद्धं कठोरकार्यवाही कृता तथा स्वसीमानां सुरक्षा सुदृढीकृता।

सः अवदत् यत् भाजपासर्वकारेण विगतेषु दशवर्षेषु भ्रष्टाचारमुक्तं शासनं प्रदातुं प्रयासः कृतः। अस्मिन् सन्दर्भे सः कांग्रेससर्वकारस्य कार्यकाले हरिद्वारस्य स्टिङ्ग्-प्रकरणस्य, अनुसूचितजाति-अनुसूचितजनजाति-छात्रवृत्त्याः घोटाला इत्यस्य, मद्यनीतेः सम्बन्धितविवादानां तथा कुमाऊँक्षेत्रे खाद्यान्नसम्बद्धानां कथित-घोटाला इत्यादिनां च उल्लेखं कृतवान्। सः उक्तवान् यत् भाजपासर्वकारेण सर्वकारीय-धनस्य लाभः प्रत्यक्षतया जनतां प्रति प्रापितः। हल्द्वानीनगरे २९ एकर् भूमेः अतिक्रमणमुक्तीकरणस्य उल्लेखं कुर्वन् शाहः अवदत् यत् अवैधातिक्रमणस्य विरुद्धं कार्यवाही निरन्तरं भविष्यति। भाजपादलं उत्तराखण्डस्य सांस्कृतिकपरिचयेन सुरक्षया च सम्बद्धेषु विषयेषु किमपि सन्धिं न करिष्यति इति सः स्पष्टं कृतवान्।

सः अवदत् यत् भाजपादलेन असम, गुजरात, हरियाणा, मध्यप्रदेश, गोवा तथा महाराष्ट्रसहितेषु अनेकप्रदेशेषु निरन्तरं तृतीयवारं सर्वकारः निर्मितः तथा अधुना उत्तराखण्डस्य अवसरः अस्ति। सः २०१७ तमवर्षस्य विधानसभानिर्वाचने भाजपा-दलेन प्राप्तानां ४६ प्रतिशतमतानां ५७ आसनानां च तथा २०२२ तमे वर्षे प्राप्तानां ४४ प्रतिशतमतानां ४७ आसनानां च उल्लेखं कृतवान्। शाहः अवदत् यत् अस्मिन् निर्वाचने दलं ६५ तः अधिकानि आसनानि प्राप्तुं लक्ष्यं स्वीकृत्य अग्रे गन्तव्यम्। सः उत्तराखण्डं सुरक्षितं, समृद्धं तथा देशस्य सांस्कृतिकराजधानीं कर्तुं त्रीणि लक्ष्याणि प्रस्तुतवान्।

अस्मिन्नवसरे केन्द्रीयगृहमन्त्रिणा १४७५ कोटिरूप्यकाणाम् अधिकमूल्यानां योज-नानां लोकार्पणं शिलान्यासश्च कृतः। राज्योत्सवसमारोहे १५ जनाः ‘उत्तराखण्ड-गौरवसम्मानेन’, षड् बालकाः ‘बालवीरता-पुरस्कारेण’ तथा द्वौ जनौ ‘आजीवनो-पलब्धिपुरस्कारेण’ सम्मानिताः भवि-ष्यन्ति। एतस्मात् पूर्वं शाहः मुख्यमन्त्रिणा पुष्करसिंहधामीना सह मञ्चे उपस्थितानां केन्द्रीयमन्त्री अजयटम्टा, भाजपायाः प्रदेशाध्यक्षः तथा राज्य-सभासदस्यः महेन्द्रभट्टः, मन्त्रिमण्डलस्य सदस्याः, दलस्य वरिष्ठनेतारः च अभिवादितवान्।

Hindusthan Samachar / Divya Ranjan