दिव्याङ्गजनैः निर्मितानां वस्तूनां प्रदर्शिनी जनानाम् आकर्षणस्य केन्द्रम् अभवत्
मीरजापुरम्, ०६ नवम्बरमासः (हि.स.)। विकासभवने शुक्रवासरे दिव्याङ्गजनानां दीपावलीमेलापकस्य शुभारम्भः मुख्य-विकासाधिकारिणा विजयकुमार-सिंहेन कृतः। माँ बलिराजी सेवा संस्थया आयोजिते द्विदिवसीये मण्डलस्तरीये मेलापके दिव्याङ्ग-बालकानां सृजनात्म-कता कौशलं च
दिव्यांगों के बनाए उत्पादों की प्रदर्शनी को देखते सीडीओ विजय कुमार सिंह व अन्य।


मीरजापुरम्, ०६ नवम्बरमासः (हि.स.)। विकासभवने शुक्रवासरे दिव्याङ्गजनानां दीपावलीमेलापकस्य शुभारम्भः मुख्य-विकासाधिकारिणा विजयकुमार-सिंहेन कृतः। माँ बलिराजी सेवा संस्थया आयोजिते द्विदिवसीये मण्डलस्तरीये मेलापके दिव्याङ्ग-बालकानां सृजनात्म-कता कौशलं च द्रष्टुं प्राप्तम्।

मुख्यविकासाधिकारी दीपप्रज्वालनं कृत्वा मेलापकस्य उद्घाटनम् अकरोत्। ततः सः विभिन्नानां विक्रयस्थानानां निरीक्षणं कृत्वा बालकैः स्वहस्तेन निर्मितानां वस्तूनां क्रयणम् अकरोत्। सः बालकानाम् उत्साहवर्धनं कुर्वन् तेषां प्रयासानां प्रशंसाम् अकरोत्। अस्मिन्नवसरे कृत्रिमाङ्ग-सहायकसाधनयोजनायाः अन्तर्गतं चयनितेभ्यः दिव्याङ्गजनेभ्यः मोटर-चालितत्रिचक्रिकाः सामान्यत्रिचक्रिकाः च वितरिताः।

प्रदर्शिन्यां मृत्तिकया निर्मिताः दीपाः, गुल्लकाः, मूर्तयः, कलात्मकदीपाः, अलङ्कारिकवस्तूनि च प्रदर्शितानि। कछवांनिवासिनः दिव्याङ्गस्य राजकुमार-प्रजापतेः मृत्तिकया निर्मिताः दीपाः, चषकाः, अन्यानि च वस्तूनि विशेषाकर्षणस्य केन्द्राणि अभवन्।

कार्यक्रमे मुख्यचिकित्साधिकारी डॉ. कीर्तिकुमारमिश्रः, परियोजनानिदेशकः धर्मजीतसिंहः इत्येतै: सह अन्ये अधिकारिणः उपस्थिताः आसन्। आयोजनस्य संयोजनं पवनकुमारसिंहेन अरुणकुमारसिंहेन च कृतम्।

Hindusthan Samachar / Divya Ranjan