Enter your Email Address to subscribe to our newsletters

वाराणसी, ०६ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणस्यां धनत्रयोदश्याः पावनपर्वणि शुक्रवासरे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य स्वास्थ्यकेन्द्रे आयुर्वेदस्य आराध्यदेवस्य भगवत: धन्वन्तरिणः विधिविधानपूर्वकं पूजनार्चनं कृतम्। अस्मिन् अवसरे विश्वविद्यालयपरिवारस्य सुखसमृद्ध्यै, उत्तमस्वास्थ्याय, निरामयजीवनाय तथा समस्तविश्वस्य कल्याणाय मङ्गलकामना कृता।
पूजनकार्यक्रमे छात्रकल्याणसङ्काय-प्रमुखः प्रो. शैलेशकुमारमिश्रः वैदिक-पारम्परिकविधिना भगवत: धन्वन्तरिणः आराधनां कृतवान्। सः अवदत् यत् भगवान् धन्वन्तरिः भारतीयायुर्वेद-परम्परायाः प्रवर्तकः आराध्यदेवश्च अस्ति। धनत्रयोदश्याः पर्व अस्मान् स्वास्थ्यं जीवनस्य सर्वश्रेष्ठसम्पत्तिं मत्वा निरामयजीवनं प्रति सजगं भवितुं सन्देशं ददाति।
प्रो. मिश्रः अवदत् यत् आयुर्वेदः योगश्च भारतीयज्ञानपरम्परायाः अमूल्ये धरोहरे स्तः। स्वस्थस्य सन्तुलितस्य च जीवनस्य कृते दैनिकचर्यायां योगस्य, आयुर्वेदस्य, संयमिताहारस्य तथा प्राकृतिकजीवन-शैल्याः अनुसरणम् आवश्यकम् अस्ति। भारतीयसंस्कृतौ ‘स्वस्थस्य स्वास्थ्य-रक्षणम्, आतुरस्य विकारप्रशमनम्’ इति सिद्धान्तस्य विशेषमहत्त्वं प्रदत्तम् अस्ति। अस्य मूलोद्देश्यं स्वस्थव्यक्तेः स्वास्थ्यस्य रक्षणं रोगिणः च रोगाणां शमनम् अस्ति।
सः अवदत् यत् स्वास्थ्यं केवलं व्यक्तिविशेषेण सम्बद्धः विषयः नास्ति, अपितु तत् परिवारस्य, समाजस्य, राष्ट्रस्य च समृद्धेः आधारः अस्ति। भगवान् धन्वन्तरिणः आराधना अस्मान् आरोग्यस्य, सेवायाः, करुणायाः तथा ‘सर्वजनहिताय’ इति भावनया जीवनं यापयितुं प्रेरयति।
कार्यक्रमे विश्वविद्यालयपरिवारस्य सदस्यैः श्रद्धापूर्वकं सहभागिता कृता तथा सर्वेषां स्वस्थस्य, सुखिनः, निरामयस्य च जीवनाय विश्वकल्याणाय च प्रार्थना कृता। भगवत: धन्वन्तरिणः विधिवत् पूजनार्चनं पुरोहितेन डॉ. राजकुमारमिश्रेण सम्पन्नं कारितम्।
Hindusthan Samachar / Divya Ranjan