Enter your Email Address to subscribe to our newsletters


राज्यस्थापनादिवसे विकासस्य राजनीतेः च दर्शनम्, मन्त्रिभिः उपलब्धयः गणिता:
देहरादूनम्, ०६ नवम्बरमासः (हि.स.)। उत्तराखण्डराज्यस्य स्थापनायाः २६ तमवर्षपूर्त्यवसरे शुक्रवासरे देहरादूनस्य परेडमैदाने आयोजिते राज्योत्सवसमारोहे केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः सम्मिलितः। प्रदेशस्य विभिन्नभागेभ्यः आगतेषु जनसमूहेषु समारोहं प्रति विशेषोत्साहः दृष्टः। महिलाः गढवाल-कुमाऊँ-जौनसारक्षेत्राणां पारम्परिकवस्त्राणि धृत्वा विभिन्नसमूहेषु कार्यक्रमस्थलम् आगतवत्यः। मुख्यमन्त्री पुष्करसिंहधामी जौलीग्रान्ट् विमानपत्तने अमितशाहस्य स्वागतं कृतवान्।
राज्यस्थापनादिवसस्य अवसरे प्रदेशाय १,४७५.३१ कोटिरूप्यकाणां विकास-परियोजनानां उपहारः प्रदीयते। अमितशाहः विभिन्नपरियोजनानां लोकार्पणं शिला-न्यासं च करिष्यति। एताभिः परियोजनाभिः मार्गाणां, स्वास्थ्यस्य, शिक्षायाः, पर्यटनस्य, आधारभूतसंरचनायाः तथा जनसुविधानां विस्ताराय गतिः प्राप्स्यते इति अपेक्षा अस्ति।
परेडप्रांगणे आयोजिते राज्योत्सवकार्यक्रमे सम्बोधनं कुर्वन् मन्त्रिमण्डलस्य सदस्यः सतपालमहाराजः राज्यस्थापनादिवसं गौरवस्य उत्सवस्य च दिवसः इति वर्णयन् अवदत् यत् मुख्यमन्त्री धामी इत्यस्य नेतृत्वे उत्तराखण्डं निरन्तरं विकासस्य नूतनानि सोपानानि अधिरोहति। चतुर्धामयात्रया सह शीतकालीनयात्रायाः अपि प्रोत्साहनं दीयते। सर्वकारस्य प्रमुखं लक्ष्यं युवभ्यः रोजगारस्य स्वनियोजनस्य च अवसरान् प्रदातुं तथा पर्वतीयक्षेत्रेभ्यः पलायनं निवारयितुम् अस्ति। सः अवदत् यत् उत्तराखण्डं स्वावलम्बिनं कर्तुं सर्वकारस्य प्राथमिकता अस्ति।
महाराजः कांग्रेसनेतॄन् लक्ष्यीकृत्य आरोपितवान् यत् उत्तराखण्डस्य सेनायाः च वीरनायकेषु अभद्रटिप्पणीः करणम् अशोभनम् अस्ति। सः अवदत् यत् उत्तराखण्डस्य जनान् अवैधप्रवेशकान् इति कथनादृशीभ्यः टिप्पण्यः प्रत्युत्तरं दातव्यम्। प्रदेशस्य अस्मितया सम्मानेन च सम्बद्धेषु विषयेषु सर्वैः एकतया स्थातव्यम्।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शने मुख्यमन्त्रिणः पुष्करसिंहधामिनः नेतृत्वे च प्रदेशे आधारभूतसुविधानां विस्ताराय, पर्यटनस्य प्रोत्साहनाय, रोजगारस्य अवसराणां सृजनाय तथा निवेशम् आकर्षयितुं विशेषं बलं दीयते। राज्य-स्थापनादिवसस्य अयं समारोहः प्रदेशस्य अद्यावधि विकासयात्रायाः भविष्यस्य च लक्ष्याणां प्रस्तुत्यर्थम् अवसरः अभवत्।
मन्त्रिमण्डलस्य सदस्यः डॉ. धनसिंहरावतः अवदत् यत् राज्यस्य समग्रविकासाय सर्वकारः किमपि न्यूनतां न करिष्यति। उत्तराखण्डस्य पूर्णसाक्षरराज्यत्वप्राप्तिं महत्त्वपूर्णाम् उपलब्धिं वर्णयन् सः अवदत् यत् एतत् प्रदेशाय गौरवस्य विषयः अस्ति। सर्वकारः साक्षरतया सह शिक्षायाः गुणवत्तायां सुधारं कर्तुम् अपि प्रयासं कुर्वन् अस्ति।
अपरत्र मन्त्रिमण्डलस्य सदस्यः गणेश-जोशी कांग्रेसदलं लक्ष्यीकृत्य आरोपितवान् यत् कांग्रेसदलस्य जनाः देशे अराजकतां प्रसारयितुं कार्यं कुर्वन्ति। सः अवदत् यत् यूनां विषये वक्तुं कांग्रेस: युवान: सहनं कर्तुं न शक्नोति।
मन्त्रिमण्डलस्य सदस्या रेखा-आंर्या अवदत् यत् उत्तराखण्डेन राज्यस्थापनायाः २६ वर्षाणां यात्रा विकासस्य दिशि पूर्णा कृता। प्रदेशः निरन्तरम् अग्रे वर्धते तथा विभिन्नक्षेत्रेषु नूतनानि सोपानानि स्थापयति।
Hindusthan Samachar / Divya Ranjan