अग्निवीरयोजना निरस्य नियमितसैनिकनियुक्तिं पुनः प्रारभेत केन्द्रसर्वकारः - यशपाल-आर्यः
हल्द्वानी, ०६ नवम्बरमासः (हि.स.)। प्रतिपक्षनेता यशपालआर्यः केन्द्रसर्वकारात् अग्निपथयोजनां तत्कालेन निरस्य सेनायां नियमितसैनिकनियुक्तिव्यवस्थां पुनः प्रारब्धुम् आग्रहं कृतवान्। सः अवदत् यत् अग्निवीराणां सेवाकालं द्वाभ्यां वर्षाभ्यां वर्धयितुं प्रस्
नेता प्रतिपक्ष यशपाल आर्य


हल्द्वानी, ०६ नवम्बरमासः (हि.स.)। प्रतिपक्षनेता यशपालआर्यः केन्द्रसर्वकारात् अग्निपथयोजनां तत्कालेन निरस्य सेनायां नियमितसैनिकनियुक्तिव्यवस्थां पुनः प्रारब्धुम् आग्रहं कृतवान्। सः अवदत् यत् अग्निवीराणां सेवाकालं द्वाभ्यां वर्षाभ्यां वर्धयितुं प्रस्तावः यूनां भविष्य-सम्बद्धायाः अनिश्चिततायाः समाधानं नास्ति।

शुक्रवासरे प्रकाशिते वक्तव्ये प्रतिपक्षनेता यशपाल-आर्यः अवदत् यत् अग्निपथ-योजनायाः कार्यान्वयनस्य चतुर्षु वर्षेषु प्रथमसमूहस्य सैनिकानां सेवाकालः समाप्तिं प्रति गच्छति। एतादृशे सति ७५ प्रतिशतं अग्निवीराणां सेवातः बहिर्गमनस्य प्रश्नः उत्पद्यते। तेन नवम्बरमासस्य चतुर्थे दिनाङ्के प्रमुखरक्षाध्यक्षस्य पत्रकार-सम्मेलने द्विवर्षात्मकस्य अतिरिक्तसेवा-विस्तारस्य विषये प्राप्तायाः सूचनायाः उल्लेखं कुर्वता अवदत् यत् सर्वकारेण स्पष्टं कर्तव्यं यत् सैनिकेभ्यः स्थायिनियुक्तिः किमर्थं न प्रदीयते।

यशपालआर्यः आरोपितवान् यत् एतया योजनया सेनायां नियुक्त्यर्थं सज्जतां कुर्वतां यूनां भविष्यं अनिश्चिततायां स्थापितम् अस्ति। सः अवदत् यत् युवानः वर्षाणि यावत् शारीरिकपरीक्षाणां लिखित-परीक्षाणां च सज्जतां कृतवन्तः तथा देशसेवायाः स्वप्नं दृष्टवन्तः, किन्तु नियुक्तिव्यवस्थायां परिवर्तनेन तेषां सम्मुखे कठिनताः उत्पन्नाः।

प्रतिपक्षनेता अग्निवीराणां आत्महत्यायाः चत्वारिंशदधिकेषु कथितप्रकरणेषु चिन्तां प्रकटयन् एतेषां निष्पक्षान्वेषणस्य आग्रहं कृतवान्। तेन सेनायां प्रायः सार्धद्विलक्ष-सैनिकानाम् अभावस्य तथा नियुक्ति-प्रक्रियायाः समाप्त्यनन्तरम् अपि नियुक्तिप्रतीक्षां कुर्वतां यूनां विषयः अपि उत्थापितः।

आर्यः अवदत् यत् कांग्रेसदलं प्रारम्भादेव अग्निपथयोजनायाः विरोधं कुर्वत् नियमितनियुक्तिव्यवस्थायाः पुनः स्थाप-नायाः आग्रहं कुर्वत् अस्ति। तेन केन्द्रसर्वकारात् योजनायाः निरसनस्य, नियमितनियुक्तेः प्रारम्भस्य, अग्निवीराणां कृते स्थायिसेवायाः सामाजिकसुरक्षायाश्च व्यवस्थायाः तथा सेनायाः रिक्तपदानां पूर्तेः च आग्रहः कृतः।

सः अवदत् यत् देशस्य सुरक्षायै सैनिकानां मनोबलम्, अनुभवः, सेनायां विश्वासश्च महत्त्वपूर्णाः सन्ति। सीम्नां रक्षां कुर्वतां सैनिकानां भविष्यस्य सुरक्षायाः दायित्वम् अपि सर्वकारेण निर्वोढव्यम्।

Hindusthan Samachar / Divya Ranjan