Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 06 नवंबरमासः (हि.स.)।
राज्यस्थापनदिवसस्य अवसरे शुक्रवासरे हरिद्वारे मुक्तवर्गीयबालकबालिकानां साइकिलयानरैल्याः आयोजनम् अभवत्। रोशनाबादस्थितात् योगस्थलीक्रीडापरिसरात् प्रारब्धायां रैल्यां ९७ क्रीडकाः उत्साहपूर्वकं भागं गृहीत्वा क्रीडासु स्वकीयां रुचिम् उत्साहं च प्रदर्शितवन्तः।
उत्तराखण्डक्रीडानिदेशालयस्य देहरादूनस्य तथा हरिद्वारजनपदप्रशासनस्य मार्गदर्शनेन जनपदक्रीडाकार्यालयस्य पक्षतः आयोजितायाः रैल्याः शुभारम्भं मुख्यातिथिना जनपदस्य युवकल्याणस्य प्रान्तीयरक्षकदलस्य च अधिकारी प्रमोदचन्द्रपाण्डेयेन कृतम्। रैली योगस्थलीक्रीडापरिसरात् प्रारभ्य नवोदयचौकं हीरोचौकं च अतिक्रम्य पुनः क्रीडापरिसरं प्राप्य सम्पन्ना अभवत्।
रैल्याः समापनानन्तरं पुरस्कारवितरणकार्यक्रमः आयोजितः। अस्मिन् लॉटरीपद्धत्या पञ्च बालकाः पञ्च बालिकाः च क्रीडकाः चयनिताः। क्रीडाविभागस्य पक्षतः तेभ्यः पुरस्काराः प्रदत्ताः।
आयोजकैः उक्तं यत् अस्य कार्यक्रमस्य उद्देश्यम् राज्यस्थापनदिवसस्य आचरणं क्रीडागतिविधीनां माध्यमेन करणम्, युवसु बालकेषु च क्रीडानां प्रति रुचेः वर्धनं तथा स्वस्थजीवनशैल्याः कृते प्रेरणाप्रदानम् अस्ति।
अस्मिन् अवसरे जनपदक्रीडाधिकारी रविन्द्रभण्डारी, सहायकप्रशिक्षकः अनुरागराठी, मुख्यप्रशासनिकाधिकारी प्रजापतिकुकरेती, वरिष्ठसहायकः शिवमरावतः, कनिष्ठसहायकः विक्रमसिंहः, राजनराणा, मंगलसिंहः, अक्षयराठी, अनुरागसिंहधमांदा, गौरवकुमारः, आदित्यगुप्तः तथा संविदाप्रशिक्षिका शिवानीनैथानी इत्यादयः अनेके क्रीडाप्रेमिणः उपस्थिताः
आसन्।
Hindusthan Samachar / Dheeraj Maithani