Enter your Email Address to subscribe to our newsletters

-क्रीडा, चिकित्साशास्त्र, शिक्षा, कला, संस्कृतिः पर्यावरणं च इत्येतेषु क्षेत्रेषु योगदानाय प्राप्ता मान्यता
देहरादूनम्, ०६ नवम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः मुख्यमन्त्री पुष्करसिंहधामी च शुक्रवासरे उत्तराखण्डराज्योत्सवसमारोहे विभिन्नक्षेत्रेषु उल्लेखनीयम् अवदानं प्रदत्तवतीः १५ विभूतीः उत्तराखण्डगौरवसम्मानपुरस्कार-२०२६ इत्यनेन सम्मानितवन्तौ। राजनीतिके प्रशासनिके च क्षेत्रे योगदानार्थं पूर्वमुख्यमन्त्री स्वर्गीयः मेजरजनरलः भुवनचन्द्रखण्डूरी मरणोपरान्तम् अनेन सम्मानेन सम्मानितः।
परेडमैदाने आयोजिते समारोहे चिकित्साक्षेत्रे डॉ. जीवनसिंहतितियालः, उद्यमिताक्षेत्रे मनमोहनभारद्वाजः, चलचित्रक्षेत्रे योगदानार्थं अभिनेत्री हिमानीशिवपुरी च सम्मानिताः।
लोकजागरगायनाय हेमा नेगी करासी तथा शिक्षापत्रकारिताक्षेत्रयोः योगदानार्थं डॉ. गिरीशरंजनतिवारी पुरस्कारं प्राप्तवन्तः। सामाजिकक्षेत्रे अनीता थपलियालशर्मा तथा कश्मीरसिंहः, पर्यावरणसंरक्षणक्षेत्रे च पर्यावरणविद् सुरेशभाई सम्मानिताः। लोकगायनक्षेत्रे रेशमाशाह अपि उत्तराखण्डगौरवसम्मानेन सम्मानिता।
क्रीडाक्षेत्रे प्रदेशस्य नाम राष्ट्रियस्तरे अन्तरराष्ट्रीयस्तरे च गौरवान्वितवतीः पञ्च विभूतीः अपि सम्मानिताः। तासु क्रिकेटक्रीडिका एकताबिष्टः, हॉकीक्रीडिका वन्दनाकटारिया, धाविका अंकिताध्यानी, मुष्टियुद्धक्रीडिका निकिताचन्दः तथा कपिलपोखरिया च समाविष्टाः सन्ति।
राज्यसर्वकारस्य पक्षतः एषः सम्मानः प्रदेशस्य विकासे, सामाजिकसेवायाम्, शिक्षायाम्, चिकित्सायाम्, कलायाम्, संस्कृतौ, पर्यावरणसंरक्षणे, क्रीडाक्षेत्रे च विविधेषु क्षेत्रेषु विशिष्टम् अवदानं प्रदत्तवद्भ्यः विभूतिभ्यः प्रदीयते।
Hindusthan Samachar / Dheeraj Maithani