नरेन्द्रसिंहनेगिमहोदयाय तथा हेमन्तपाण्डेमहोदयाय च जीवनपर्यन्तसाधनापुरस्कारः।
नरेन्द्रसिंहनेगिमहोदयाय हेमन्तपाण्डेमहोदयाय च जीवनपर्यन्तसाधनापुरस्कारः। देहरादूनम्, ०६ नवम्बरमासः (हि.स.)। उत्तराखण्डस्य प्रसिद्धलोकगायकः नरेन्द्रसिंहनेगी तथा अभिनेता हेमन्तपाण्डे राज्योत्सवसमारोहे जीवनपर्यन्तसाधनापुरस्कारेण सम्मानितौ। शुक्रवासरे
देहरादून में शुक्रवार को राज्योत्सव समारोह के दौरान लोकगायक नरेंद्र सिंह नेगी और अभिनेता हेमंत पांडे को लाइफ टाइम अचीवमेंट पुरस्कार प्रदान करते केंद्रीय गृह एवं सहकारिता मंत्री अमित शाह और मुख्यमंत्री पुष्कर सिंह धामी।            Convert to PDF


देहरादून में शुक्रवार को राज्योत्सव समारोह के दौरान लोकगायक नरेंद्र सिंह नेगी और अभिनेता हेमंत पांडे को लाइफ टाइम अचीवमेंट पुरस्कार प्रदान करते केंद्रीय गृह एवं सहकारिता मंत्री अमित शाह और मुख्यमंत्री पुष्कर सिंह धामी।            Convert to PDF


नरेन्द्रसिंहनेगिमहोदयाय हेमन्तपाण्डेमहोदयाय च जीवनपर्यन्तसाधनापुरस्कारः।

देहरादूनम्, ०६ नवम्बरमासः (हि.स.)। उत्तराखण्डस्य प्रसिद्धलोकगायकः नरेन्द्रसिंहनेगी तथा अभिनेता हेमन्तपाण्डे राज्योत्सवसमारोहे जीवनपर्यन्तसाधनापुरस्कारेण सम्मानितौ। शुक्रवासरे परेडमैदाने आयोजिते समारोहे केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः मुख्यमन्त्री पुष्करसिंहधामी च उभाभ्यां कलाकाराभ्यां पुरस्कारं प्रदत्तवन्तौ।

उत्तराखण्डचलच्चित्रनीतिः-२०२४ इत्यस्य अन्तर्गतं वर्ष २०२४ कृते नरेन्द्रसिंहनेगिमहोदयस्य तथा वर्ष २०२५ कृते हेमन्तपाण्डेमहोदयस्य चयनं कृतम् आसीत्। उभाभ्यां कलाकाराभ्यां द्विलक्षरूप्यकाणां पुरस्कारराशिः प्रशस्तिपत्रं च प्रदत्तम्।

नरेन्द्रसिंहनेगी स्वकीयैः लोकगीतैः उत्तराखण्डस्य लोकसंस्कृतिं, परम्पराः, सामाजिकसरोकारान् जनभावनाश्च स्वरं प्रदत्तवान्। तस्य योगदानं प्रदेशस्य सांस्कृतिकपरिचयस्य राष्ट्रियस्तरे स्थापनायां महत्त्वपूर्णां भूमिकां निर्वहति। अपरतः अभिनेता हेमन्तपाण्डे स्वकीयेन अभिनयेन भारतीयचलच्चित्रमनोरञ्जनक्षेत्रे विशिष्टां परिचितिम् अर्जितवान्। तेन विभिन्नानां चलचित्राणां धारावाहिकाणां च माध्यमेन उत्तराखण्डस्य नाम राष्ट्रियस्तरे गौरवान्वितम्।

उत्तराखण्डस्य लोकसंस्कृतेः, क्षेत्रीयचलच्चित्रस्य कलाजगतः च उल्लेखनीयम् अवदानं प्रदातॄणां प्रतिभानां प्रोत्साहनम् उद्दिश्य राज्यसर्वकारस्य पक्षतः चलच्चित्रपुरस्काराः प्रदीयन्ते।

Hindusthan Samachar / Dheeraj Maithani