Enter your Email Address to subscribe to our newsletters

देहरादूनम्, ०६ नवम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः शुक्रवासरे उत्तराखण्ड-आरक्षक-दलं राष्ट्रपतिचिह्नेन सम्मा-नितवान्। अस्मिन् अवसरे उत्तराखण्ड-आरक्षकदलाय शुभकामनाः प्रदाय सः अवदत् यत् २०२७ तमवर्षात् परं पञ्जीकृतानां प्रथमसूचनाप्रतिवेदनानां प्रकरणेषु अभियुक्तेभ्यः त्रिभिः वर्षैः अन्तः दण्डप्रदानं तथा २०२९ तमवर्षपर्यन्तं देशं नशामुक्तं कर्तुं च सर्वकारस्य सङ्कल्पः अस्ति। राज्यस्य गठनानन्तरम् अद्यावधि बलिदानं कृतवद्भ्यः २०६ आरक्षक-कर्मिभ्यः श्रद्धाञ्जलिम् अपि अर्पितवान्। कार्यक्रमे आरक्षकदलस्य सञ्चलन-प्रदर्शनम् आयोजितम्, उत्तराखण्ड-आरक्षक-पत्रिकायाः विमोचनम् अपि कृतम्।
परेडप्रांगणे आयोजितस्य राज्योत्सव-समारोहस्य अनन्तरं आरक्षकलाइन-परिसरे आयोजिते कार्यक्रमे अमितशाहः उत्तराखण्ड-आरक्षकदलाय राष्ट्रपतिचिह्नं समर्पितवान्। सः अवदत् यत् राज्यस्य गठनस्य २५ वर्षेषु एव एतत् सम्मानं प्राप्तुं प्रदेश-आरक्षक-दलस्य गौरवस्य विषयः अस्ति। उत्तराखण्ड-आरक्षकदलं देशस्य षोडशतमम् आरक्षकदलं वर्तते, येन एतत् सम्मानं प्राप्तम्।
शाहः अवदत् यत् उत्तराखण्ड-आरक्षक-दलेन स्वस्य आदर्शवाक्यं ‘कर्मण्यता, सत्यनिष्ठा च शौर्यम्’ इति जीवनस्य आधारं कृत्वा सेवायाः, अनुशासनस्य समर्पणस्य च आदर्शः प्रस्तुतः। राज्य-गठनानन्तरं उत्तराखण्ड-आरक्षकदलस्य यात्रा त्रयोदशसहस्र-सैनिकेभ्यः आरभ्य षड्विंशतिसहस्र-सैनिकान् यावत् अभवत्।
सः अवदत् यत् प्राकृतिकविपत्तिषु, भू-स्खलनेषु, वनाग्निषु तथा दुर्गमप्रदेशेषु साहाय्योद्धारकार्येषु आरक्षकदलेन उल्ले-खनीया भूमिका निर्व्यूढा। केदारनाथ-विपत्तौ, सिलक्यारासुरङ्गे बद्धानां श्रमिकाणाम् उद्धाराभियाने तथा धराली, स्यानाचट्टी, मालदेवता इत्यादिषु विपत्तिषु आरक्षककर्मिभिः साहसस्य समर्पणस्य च परिचयः प्रदत्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना सीमावर्ति-ग्रामेभ्यः जनानां पलायनं निवारयितुं प्रारब्धे ‘वाइब्रेन्ट विलेज’ कार्यक्रमे उत्तराखण्ड-आरक्षक-दलम् अपि सक्रियां भूमिकां निर्वहति इति सः अवदत्। प्रदेशस्य न्यूनातिन्यूनं पञ्चाशत् ग्रामेषु पलायनस्य स्थाने पुनः जनाः निवसितुम् आरब्धवन्तः इति तेन दावितम्।
केन्द्रीयगृहमन्त्री अवदत् यत् नवीनानां आपराधिकविधानानां कार्यान्वयने उत्तरा-खण्ड-आरक्षकदलेन व्यापकाः प्रयासाः कृताः। न्यायवैज्ञानिकविज्ञानस्य, सङ्ग-णकीकरणस्य, सीसीटीएनएस तथा आईसीजेएस इत्यनयोः माध्यमेन पुलिसदलम्, कारागाराः, न्यायालयाः, अभियोजनविभागः, न्यायवैज्ञानिक-प्रयोगशालाः चिकित्सालयाश्च विद्युतीय-व्यवस्थया परस्परं सम्बद्धाः कर्तुं कार्यं कृतम्। सीसीटीएनएस-अन्तर्गतं विद्युतीय-अभिलेखानां निर्माणे उत्तराखण्डेन उत्तमं प्रदर्शनं कृतम् इति सः अवदत्।
अमितशाहः अवदत् यत् देशः नक्सल-वादस्य समस्यायाः मुक्तः अभवत्। २०२६ तमवर्षस्य मार्चमासस्य ३१ दिनाङ्के संसदः देशं नक्सलवादमुक्तं घोषितवती इति उल्लेखयन् सः अवदत् यत् अधुना सुरक्षाबलानां पुरतः मादकद्रव्याणां विरुद्धं सङ्घर्षः महती चुनौती अस्ति। सर्वकारेण २०२९ तमवर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं देशं पूर्णतया नशामुक्तं कर्तुं लक्ष्यं निर्धारितम्। मादकद्रव्यव्यापारे संलग्नानां विरुद्धं कठोरकार्यवाही करिष्यते इति अपि सः अवदत्।
सः अवदत् यत् माउण्ट् एवरेस्ट्-शिखरस्य सफलतया आरोहणं कृतवद्भिः देशस्य प्रथम-आरक्षक-दलं भवितुम् अपि उत्तराखण्ड-आरक्षक-दलेन गौरवं प्राप्तम्। विश्व-आरक्षक-अग्निशमनक्रीडास्पर्धासु ३७ पदकानि प्राप्य आरक्षककर्मिभिः प्रदेशस्य गौरवं वर्धितम्। गुजरातस्य गान्धीनगरे आयोज्यमानासु अग्रिमासु विश्व-आरक्षक-अग्निशमनक्रीडास्पर्धासु उत्तराखण्ड-आरक्षक-दलं श्रेष्ठं प्रदर्शनं करिष्यति इति सः अपेक्षां प्रकटितवान्।
मुख्यमन्त्री पुष्करसिंहधामिनः नेतृत्वे प्रदेशे विकासस्य निवेशस्य च गतिविधयः अग्रे वर्धन्ते इति सः अवदत्। पर्यटनस्य औद्योगिकनिवेशस्य च प्रोत्साहनेन सह युवभ्यः रोजगारावसराणां निर्माणे सुरक्षा-व्यवस्थायाः महत्त्वपूर्णा भूमिका अस्ति। अतः उत्तराखण्ड-आरक्षक-दलस्य दायि-त्वम् अधिकं वर्धते। राष्ट्रपतिचिह्नस्य प्राप्त्या आरक्षकदलस्य मनोबलं वर्धिष्यते तथा तत् नवीनोत्साहेन जनानां सुरक्षायाः, विधिव्यवस्थायाः, न्यायस्य च सुनिश्चिती-करणस्य सङ्कल्पं अग्रे नेष्यति इति शाहः अवदत्। अस्य सम्मानस्य कृते राष्ट्रपतये कृतज्ञतां प्रकटयन् सः उत्तराखण्डवासिभ्यः सुखस्य, शान्तेः, समृद्धेश्च शुभकामनाः अयच्छत्।
/ अंशु गुप्ता