धनत्रयोदश्याः अवसरे आरक्षिभिः ८२ जनानां मुखेषु पुनः प्रसन्नता प्रत्यानीता।
हरिद्वारम्, 06 नवंबरमासः (हि.स.)। धनत्रयोदश्याः दीपावल्याश्च पर्वणोः मध्ये हरिद्वारस्य आरक्षिणः ८२ जनानां मुखेषु प्रसन्नतां प्रत्यानीतवन्तः। कनखलकोतवाल्याः आरक्षिभिः सीईआईआर पोर्टलस्य निरीक्षणव्यवस्थायाश्च साहाय्येन लुप्तानि ८२ चलदूरभाषयन्त्राणि
खोए मोबाइल लौटाते हुए


हरिद्वारम्, 06 नवंबरमासः (हि.स.)।

धनत्रयोदश्याः दीपावल्याश्च पर्वणोः मध्ये हरिद्वारस्य आरक्षिणः ८२ जनानां मुखेषु प्रसन्नतां प्रत्यानीतवन्तः। कनखलकोतवाल्याः आरक्षिभिः सीईआईआर पोर्टलस्य निरीक्षणव्यवस्थायाश्च साहाय्येन लुप्तानि ८२ चलदूरभाषयन्त्राणि प्राप्तानि तथा च तेषां वास्तविकस्वामिभ्यः समर्पितानि। प्राप्तानां चलदूरभाषयन्त्राणां अनुमानितं मूल्यं द्वादशलक्षत्रिंशत्सहस्ररूप्यकाणि (१२,३०,०००) इति कथितम्।

शुक्रवासरे कनखलकोतवाल्यां नगरारक्षी अधीक्षकस्य उपस्थितौ चलदूरभाषयन्त्राणि तेषां स्वामिभ्यः प्रत्यर्पितानि। दीर्घकालात् स्वकीयानां लुप्तचलदूरभाषयन्त्राणां अन्वेषणं कुर्वतां जनानां कृते एषः दीपावल्याः उपहारात् न्यूनः नासीत्। चलदूरभाषयन्त्राणि पुनः प्राप्य जनानां मुखेषु प्रसन्नता स्पष्टतया दृश्यते स्म। अनेकेषां जनानां कथनम् आसीत् यत् ते स्वकीयचलदूरभाषयन्त्राणां पुनः प्राप्तेः आशाम् अपि त्यक्तवन्तः आसन्, किन्तु आरक्षिणां प्रयासैः तेषां दूरभाषयन्त्राणि पुनः प्राप्तानि।

अस्मिन् वर्षे २६८ चलदूरभाषयन्त्राणि प्राप्तानि

कनखलारक्षिभिः लुप्तानां चलदूरभाषयन्त्राणां प्राप्तये निरन्तरम् अभियानं सञ्चाल्यते। अस्यैव परिणामस्वरूपं २०२६ तमे वर्षे अद्यावधि आहत्य २६८ लुप्तानि चलदूरभाषयन्त्राणि प्राप्तानि सन्ति। एतेषां सर्वेषां चलदूरभाषयन्त्राणां अनुमानितं मूल्यं प्रायः चत्वारिंशत् लक्षाणि विंशतिसहस्ररूप्यकाणि (४०,२०,०००) अस्ति। चलदूरभाषयन्त्राणि पुनः प्राप्य तेषां स्वामिनः कनखलारक्षिणां कार्यशैल्याः प्रयासानां च प्रशंसां कृत्वा कृतज्ञतां प्रकटितवन्तः। आरक्षिणाम् अनेन कार्येण पर्वणः अवसरे तेषां जनानां कृते महती राहतिः प्राप्ता, ये स्वकीयमूल्यवानां चलदूरभाषयन्त्राणां पुनः प्राप्तेः आशां त्यक्तवन्तः आसन्।

Hindusthan Samachar / Dheeraj Maithani