अमिताभबच्चनस्य अस्वास्थ्यम् अभवत्, सप्ताहात् केबीसी-कार्यक्रमस्य चित्राङ्कनं स्थगितम्, स्वस्य ब्लॉगमध्ये स्वास्थ्यसुधारस्य सङ्केतं दत्तवान्
– ''कौन बनेगा करोडपति’ इति दूरदर्शनकार्यक्रमस्य चित्राङ्कने विरामः मुम्बई, ०७ नवम्बरमासः (हि.स.)। चलचित्रजगतः महानायकस्य अमिताभ-बच्चनस्य स्वास्थ्यं दृष्ट्वा तस्य प्रशंसकानां चिन्ता वर्धिता अस्ति। तस्य स्वास्थ्य-सम्बद्धायाः समस्यायाः कारणात् लोकप्र
अमिताभ बच्चन, (फाईल फोटो)


– 'कौन बनेगा करोडपति’ इति दूरदर्शनकार्यक्रमस्य चित्राङ्कने विरामः

मुम्बई, ०७ नवम्बरमासः (हि.स.)। चलचित्रजगतः महानायकस्य अमिताभ-बच्चनस्य स्वास्थ्यं दृष्ट्वा तस्य प्रशंसकानां चिन्ता वर्धिता अस्ति। तस्य स्वास्थ्य-सम्बद्धायाः समस्यायाः कारणात् लोकप्रियस्य दूरदर्शनप्रश्नोत्तरकार्यक्रमस्य 'कौन बनेगा करोडपति’ इत्यस्य चित्राङ्कनं विगतसप्ताहात् स्थगितम् अस्ति। कथ्यते यत् अमिताभबच्चनस्य स्वास्थ्यं सम्यक् नास्ति इति कारणेन कार्यक्रमस्य निर्मातृभिः नूतनानां भागानां चित्राङ्कनं सम्प्रति स्थगयितुं निर्णयः कृतः।

सूत्राणाम् अनुसारं अमिताभबच्चनस्य स्वास्थ्यं ध्यायित्वा चित्राङ्कने अस्थायीविरामः दत्तः अस्ति। अपरतः दूरदर्शनवाहिन्या दीपावलीविशेष-कार्यक्रमस्य अन्तर्गतं पूर्वमेव चित्रितानां विशिष्टकलाकाराणां विशेषभागानां प्रसारणम् आरब्धम् अस्ति। सम्प्रति कार्यक्रमस्य एकस्मिन् विशेषभागे रणबीरकपूरः, साईपल्लवी तथा रविदुबे च दृष्टाः। एते त्रयः कलाकाराः स्वस्य अग्रिमचलचित्रस्य ‘रामायणम्’ इत्यस्य प्रचारार्थं केबीसी-मञ्चम् आगतवन्तः आसन्। अस्य भागस्य प्रसारणं चलचित्रस्य प्रदर्शनस्य समीपे कर्तुं योजना आसीत्।

किन्तु अमिताभबच्चनस्य स्वास्थ्य-सम्बद्धायाः परिस्थितेः कारणात् प्रसारणकार्यक्रमे परिवर्तनं कर्तव्यम् अभवत्। ततः दीपावलीविशेषसप्ताहस्य आरम्भः ‘रामायणम्’ इति चलचित्रस्य दलस्य सहभागितायुक्तस्य भागस्य प्रसारणेन कृतः। कथ्यते यत् अमिताभ-बच्चनस्य स्वास्थ्ये सुधारः भवति चेत् अग्रिमसप्ताहात् कार्यक्रमस्य चित्राङ्कनं पुनः आरभ्येत। तथापि चित्राङ्कनस्य आरम्भः सम्पूर्णतया तस्य स्वास्थ्यस्थितिम् एव अवलम्बते।

ब्लॉगमाध्यमेन अमिताभः स्वास्थ्य-सुधारस्य सङ्केतं दत्तवान्

एतस्मिन्नेव मध्ये अमिताभबच्चनेन शनिवासरे स्वस्य ब्लॉगमध्ये कार्यस्य नियमितदिनचर्यायाश्च प्रति शनैः शनैः प्रत्यागमनस्य विषये लिखितम्। सः अवदत् यत् सः पुनः नियमितदिनचर्यायाः नियन्त्रितकार्यशैल्याश्च अनुसरणस्य प्रक्रियायाम् अस्ति। तस्य मतानुसारं दैनिकजीवने मनुष्यः दिनचर्यायाः अभ्यस्तः भवति, किन्तु किञ्चित्कालं तस्याः दूरं स्थित्वा पुनः तामेव दिनचर्यां प्रारभ्यते चेत् सः भिन्नः अनुभवः भवति।

तेन एतदपि सूचितं यत् कदाचित् चश्मा कुत्र स्थापितः, चलदूरभाषः कुत्र अस्ति अथवा अग्रे किं कार्यं करणीयम् आसीत् इत्यादीनि लघुविषयाणि अपि विस्मर्यन्ते। अमिताभबच्चनस्य अस्मात् ब्लॉगलेखात् तस्य शनैः शनैः कार्यक्षेत्रे प्रत्यागमनस्य सङ्केताः प्राप्ताः सन्ति। तथापि तस्य स्वास्थ्यविषये आधिकारिकतया विस्तृता सूचना सम्प्रति न प्राप्ता। अतः तस्य प्रशंसकाः सः शीघ्रं स्वस्थः भूत्वा पुनः ‘कः भविष्यति कोटिपतिः’ इति कार्यक्रमस्य मञ्चे दृश्येत इति प्रतीक्षन्ते।

Hindusthan Samachar / Divya Ranjan