भूपेनहजारिका इत्यस्य जन्मशताब्दी-समारोहस्य समापनकार्यक्रमे भागग्रहणार्थं विशेषजालपुटस्य शुभारम्भः
गुवाहाटी, ०७ नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा भारतरत्नसम्मानितस्य डॉ. भूपेनहजारिका इत्यस्य नवदिल्ली-स्थिते आयोज्यमाने जन्मशताब्दी-समारोहस्य भव्यसमापनकार्यक्रमे भागं ग्रहीतुम् इच्छुकानां जनानां पञ्जी-करणार्थम् एकस्य व
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, ०७ नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा भारतरत्नसम्मानितस्य डॉ. भूपेनहजारिका इत्यस्य नवदिल्ली-स्थिते आयोज्यमाने जन्मशताब्दी-समारोहस्य भव्यसमापनकार्यक्रमे भागं ग्रहीतुम् इच्छुकानां जनानां पञ्जी-करणार्थम् एकस्य विशेषस्य अन्तर्जालीय-जालपुटस्य शुभारम्भं कृतवान्।

अयं भव्यः समापनसमारोहः अग्रिमस्य नवम्बरमासस्य २९ दिनाङ्के नव-दिल्लीस्थिते भारतमण्डपम् इत्यत्र आयोजयिष्यते।

मुख्यमन्त्री अवदत् यत् अस्मिन् ऐतिहासिके आयोजने भागं ग्रहीतुम् इच्छुकाः जनाः sudhakantha.assam.-statedatacenter.in इति जालपुटस्य माध्यमेन स्वपञ्जीकरणं कर्तुं शक्नुवन्ति। सफलपञ्जीकरणानन्तरं तेभ्यः ई-निमन्त्रणपत्रं प्रदास्यते।

अस्य प्रयत्नस्य उद्देश्यं महत: गायकस्य, सङ्गीतकारस्य सांस्कृतिकविभूतेः च डॉ. भूपेनहजारिका इत्यस्य जन्मशताब्दी-समारोहस्य समापनकार्यक्रमे अधिका-धिकजनानां सहभागितां सुनिश्चितं कर्तुम् अस्ति।

Hindusthan Samachar / Divya Ranjan