Enter your Email Address to subscribe to our newsletters

कोलकाता, ०७ नवम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी शनिवासरे प्रख्याताय स्वा-तन्त्र्यसेनानिने, लेखकाय, समाज-सुधारकाय तथा ओजस्विने वक्त्रे विपिनचन्द्रपालाय जयन्त्यवसरे श्रद्धा-ञ्जलिम् अर्पितवान्। मुख्यमन्त्री प्रातः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र सन्देशं प्रकाश्य तस्य योगदानं स्मृतवान्।
मुख्यमन्त्री शुभेन्दु-अधिकारी स्वसन्देशे लिखितवान् यत् प्रख्याताय बङ्गालीवक्त्रे, लेखकाय, समाजसुधारकाय तथा स्वातन्त्र्यसेनानिने विपिनचन्द्रपालाय जन्मजयन्त्यवसरे विनम्रा श्रद्धाञ्जलिः।
विपिनचन्द्रपालस्य जन्म १८५८ तमस्य वर्षस्य नवम्बरमासस्य सप्तमे दिनाङ्के तत्कालीनस्य ब्रिटिशभारतस्य सिलहट-जनपदे अभवत्। एतत् स्थानम् अधुना बाङ्गलादेशस्य भागः अस्ति। भारतीय-स्वातन्त्र्यसङ्ग्रामे तस्य महत्त्वपूर्णं योगदानम् आसीत्। सः लालालाज-पतरायेन बालगङ्गाधरतिलकेन च सह प्रसिद्धायाः ‘लाल-बाल-पाल’ इति त्रिमूर्तेः प्रमुखः सदस्यः आसीत्। एतया त्रिमूर्त्या ब्रिटिशशासनस्य विरुद्धं राष्ट्रियान्दोलनाय नूतना दिशा प्रदातुं महत्त्वपूर्णा भूमिका निर्व्यूढा।
विपिनचन्द्रपालः स्वराज्यस्य पूर्ण-राजनैतिकस्वतन्त्रतायाश्च प्रबलः समर्थकः आसीत्। तेन विदेशीयवस्तूनां बहिष्काराय, स्वदेशीवस्तूनाम् अङ्गीकाराय तथा राष्ट्रियशिक्षायाः प्रोत्साहनाय जनाः प्रेरिताः। १९०५ तमे वर्षे बङ्गालविभाजनस्य विरोधे सञ्चालिते आन्दोलने अपि तस्य महत्त्वपूर्णा भूमिका आसीत्।
सः केवलं स्वातन्त्र्यसेनानी एव न, अपितु कुशलः पत्रकारः, लेखकः प्रभावशाली वक्ता च आसीत्। स्वलेखनैः भाषणैश्च तेन राष्ट्रियचेतनायाः जागरणाय प्रयासः कृतः। सामाजिककुरीतीनां जातिगतभेदभावस्य च विरोधे अपि तेन स्वरः उत्थापितः।
१९३२ तमस्य वर्षस्य मईमासस्य २० तमे दिनाङ्के तस्य निधनम् अभवत्। भारतीयस्वातन्त्र्यसङ्ग्रामे समाज-सुधारक्षेत्रे च तस्य योगदानम् अद्यापि स्मर्यते।
Hindusthan Samachar / Divya Ranjan