नोबेलपुरस्कारविज्ञस्य वैज्ञानिकस्य सी. वी. रमन इत्यस्य जयन्त्यां मुख्यमन्त्रिणा अर्पितः श्रद्धाञ्जलिः
कोलकाता, ०७ नवम्बरमासः (हि.स.)। नोबेलपुरस्कारेण सम्मानिताय प्रख्याताय भारतीयभौतिकविज्ञानिने तथा भारत-रत्नसम्मानेन विभूषिताय सर् चन्द्रशेखरवेङ्कटरमनाय (सी. वी. रमनाय) जयन्त्यवसरे पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी श्रद्धा-ञ्जलिम् अर्पितवान्
मुख्यमंत्री सुवेंदु अधिकारी ने दी वैज्ञानिक सीवी रमन को श्रद्धांजलि


कोलकाता, ०७ नवम्बरमासः (हि.स.)। नोबेलपुरस्कारेण सम्मानिताय प्रख्याताय भारतीयभौतिकविज्ञानिने तथा भारत-रत्नसम्मानेन विभूषिताय सर् चन्द्रशेखरवेङ्कटरमनाय (सी. वी. रमनाय) जयन्त्यवसरे पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी श्रद्धा-ञ्जलिम् अर्पितवान्।

मुख्यमन्त्री शुभेन्दु-अधिकारी शनिवासरे प्रातः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र सन्देशं प्रकाशित्य महान् वैज्ञानिकं नतवान्। स्वसन्देशे सः लिखितवान्, ‘‘नोबेलपुरस्कारेण सम्मानिताय प्रख्याताय भौतिकविज्ञानिने भारतरत्नसम्मानिताय सर सी. वी. रमन इत्यस्मै जयन्त्यवसरे विनम्रा श्रद्धाञ्जलिः।’’

उल्लेखनीयम् अस्ति यत् सर सी. वी. रमन इत्यस्य जन्म १८८८ तमस्य वर्षस्य नवम्बरमासस्य सप्तमे दिनाङ्के तमिलनाडुराज्यस्य तिरुचिरापल्लीनगरे अभवत्। तेन प्रकाशस्य प्रकीर्णनक्षेत्रे महत्त्वपूर्णम् अनुसन्धानं कृतम्। तस्य एषा खोजः ‘रमनप्रभावः’ इति नाम्ना प्रसिद्धा अस्ति। अस्याः महत्त्वपूर्णायाः वैज्ञानिका-न्वेषणस्य कृते तस्मै १९३० तमे वर्षे भौतिकशास्त्रस्य नोबेलपुरस्कारः प्रदत्तः। सः विज्ञानक्षेत्रे नोबेलपुरस्कारं प्राप्तवान् प्रथमः भारतीयवैज्ञानिकः आसीत्।

भारतसर्वकारेण १९५४ तमे वर्षे तस्मै देशस्य सर्वोच्चः नागरिकसम्मानः भारतरत्नम् प्रदत्तम्। अपि च १९५७ तमे वर्षे तस्मै लेनिनशान्तिपुरस्कारः अपि प्रदत्तः।

रमनप्रभावस्य आविष्कारस्य स्मृतौ प्रतिवर्षं फेब्रुवरीमासस्य २८ तमे दिनाङ्के भारते राष्ट्रियविज्ञानदिवसः आचर्यते। सर् सी. वी. रमनस्य निधनं १९७० तमस्य वर्षस्य नवम्बरमासस्य २१ तमे दिनाङ्के बेङ्गलूरुनगरे अभवत्। विज्ञानक्षेत्रे तस्य योगदानम् अद्यापि देशस्य विदेशस्य च वैज्ञानिकानां कृते प्रेरणास्रोतः वर्तते।

Hindusthan Samachar / Divya Ranjan