Enter your Email Address to subscribe to our newsletters

दीपावल्यवसरे बागडोगरायां सेनायाः वायुसेनायाश्च सैनिकैः सह पर्व आचरितवान्।
नवम्बरमासस्य अष्टमे दिनाङ्के सिक्किमे सैनिकैः सह मिलिष्यति।
बागडोगरा/गंगटोकम्, ०७ नवम्बरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः शनिवासरे अग्निपथयोजनाम् अधिकृत्य अवदत् यत् चतुर्वर्षीयं निर्धारितं सेवाकालं पूर्णं कुर्वतां शेषाणां पञ्चसप्ततिप्रतिशतं अग्निवीराणां कृते तेषाम् इच्छायाः कार्यकुशलतायाश्च आधारेण द्विवर्षीयम् अतिरिक्तं सेवाकालं प्राप्तुं अवसरः प्रदास्यते। निर्धारितानि मानकानि मापदण्डांश्च पूरयन्तः अग्निवीराः नियमित-सैनिकरूपेण सेनायां सम्मिलितुं अवसरम् अपि प्राप्स्यन्ति। अनेन उपक्रमेण युवभ्यः मातृभूमेः सेवां कर्तुम् एकः अन्यः अवसरः प्राप्स्यते।
रक्षामन्त्री पूर्वोत्तरभारतस्य सुरक्षायां बागडोगराक्षेत्रस्य सामरिकमहत्त्वं रेखाङ्कयन् अत्र नियुक्तेभ्यः वायुसेनायाः कर्मिभ्यः पूर्णसावधानतां अभियानसम्बद्धां सज्जतां च निर्वाहयितुम् आह्वानं कृतवान्। सिक्किमं प्रति प्रस्थानात् पूर्वं सिलीगुडिस्थिते बागडोगराविमानक्षेत्रे वायुसेनाकर्मिभ्यः सम्बोधयन् सः अवदत् यत् आधुनिकयुद्धस्य स्वरूपं तीव्रगत्या परिवर्तते। अधुना युद्धं केवलं सीमासु जायमानपरम्परागतयुद्धपर्यन्तं सीमितं नास्ति। साइबर्-आक्रमणानि, ड्रोन-आक्रमणानि, छद्मयुद्धानि तथा सामाजिकमाध्यमैः मिथ्यासूचनानां प्रसारणम् अपि राष्ट्रियसुरक्षायाः कृते प्रमुखानि आव्हानानि अभवन्।
राजनाथसिंहः इमां घोषणां दीपावल्याः पूर्वसन्ध्यायां पश्चिमबङ्गप्रदेशस्य बाग-डोगराविमानक्षेत्रे भारतीयवायुसेनायाः पूर्वीवायुकमाण्डद्वारा आयोजितस्य समा-रोहस्य अवसरे कृतवान्। अस्मिन् अवसरे सः भारतीयसेनायाः वायुसेनायाश्च सैनिकैः सह दीपावलीम् आचरितवान् तथा सैनिकेभ्यः तेषां परिवारजनेभ्यश्च पर्वणः शुभकामनाः प्रदत्तवान्। सः सैनिकैः सह संवादं कृत्वा तेषाम् उत्साहवर्धनं कृतवान् तथा च मिष्टान्नानि वितीर्य तैः सह हर्षम् अविभजत्। कार्यक्रमे वायुसेनायाः एकेन सैनिकेन गीतम् अपि प्रस्तुतम्।
रक्षामन्त्री देशस्य सुरक्षायां नियुक्तानां सैनिकानां साहसस्य, समर्पणस्य बलिदानस्य च प्रशंसां कुर्वन् अवदत् यत् पर्वणाम् अवसरे प्रत्येकं जनः स्वपरिवारस्य गृहस्य च स्मरणं करोति, किन्तु सैनिकाः स्वभावनाः हृदये निधाय अहर्निशं देशवासिनां सुरक्षायां तत्पराः तिष्ठन्ति। तेषां त्यागं तपस्यां च शब्दैः व्यक्तुं सरलम् नास्ति। सः सम्पूर्णदेशस्य पक्षतः सैनिकानां निष्ठायाः समर्पणस्य च अभिनन्दनं कृतवान्।
राजनाथसिंहः अवदत् यत् शत्रवः सामाजिकमाध्यमानि साधनीकृत्य मिथ्यासूचनाः प्रसारयितुं जनान् च उत्तेजयितुं प्रयतन्ते। एतादृश्यां स्थितौ सैनिकानां दायित्वम् अधिकं वर्धते। सः सैनिकेभ्यः सर्वासु परिस्थितिषु सतर्काः सजगाः च भवितुं परामर्शं दत्तवान्।
रक्षामन्त्री अवदत् यत् बागडोगरा तदनन्तरं समीपवर्ती च क्षेत्रं देशस्य सुरक्षाव्यवस्थायाः दृष्ट्या अत्यन्तं संवेदनशीलं सामरिक-महत्त्वपूर्णं च अस्ति। पूर्वोत्तरभारतस्य सुरक्षायाः सुनिश्चितीकरणे अपि अस्य क्षेत्रस्य महत्त्वपूर्णा भूमिका अस्ति। अत्र नियुक्ताः वायुसेनायाः सैनिकाः सम्पूर्ण-क्षेत्रस्य सुरक्षायै सुदृढां रक्षाकवचरूपेण कार्यं कुर्वन्ति।
बागडोगराविमानक्षेत्रे आयोजितस्य कार्यक्रमस्य अनन्तरं रक्षामन्त्रिणः सुकनास्थले सेनासैनिकैः सह मेलितुम् अपि कार्यक्रमः अस्ति। अस्मिन् अवसरे सः सैनिकैः सह संवादं कृत्वा तेषां मनोबलं वर्धयिष्यति।
तदन्यत्र, रक्षामन्त्रिणः सिक्किमयात्रायाः कृते अपि सज्जताः कृताः सन्ति। सः नवम्बरमासस्य अष्टमे दिनाङ्के सिक्किमं प्राप्स्यति। अस्मिन् अवसरे पूर्वसिक्किमस्य नाथुलाक्षेत्रे भारत-चीनसीमायां नियुक्तैः भारतीयसेनायाः सैनिकैः सह दीपावलीम् आचरितुं तैः सह संवादं कर्तुं च कार्यक्रमः अस्ति। सूत्राणाम् अनुसारं स्वयात्रायाः समये सः भारत-चीनसीमावर्तिक्षेत्रस्थितं शेरेथाङयुद्ध-स्मारकं प्राप्य राष्ट्रसेवायां प्राणान् समर्पितवद्भ्यः वीरसैनिकेभ्यः श्रद्धा-ञ्जलिम् अर्पयिष्यति।
अपि च, कठिनभौगोलिकपरिस्थितिषु प्रतिकूल-ऋतु-स्थितिषु च देशस्य सीम्नां सुरक्षायां नियुक्तैः सैनिकैः सह मिलित्वा तेषां सेवायाः समर्पणं बलिदानं च प्रति सम्मानं प्रकटयिष्यति।
उल्लेखनीयम् अस्ति यत् राजनाथसिंहः पूर्वम् अपि विभिन्नानि राष्ट्रियाणि सांस्कृतिकपर्वाणि च सीमावर्तिषु उच्चहिमालयीयक्षेत्रेषु नियुक्तैः सैनिकैः सह आचरितवान् अस्ति।
Hindusthan Samachar / Divya Ranjan