Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 07 नवंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् वर्षे अपि देशस्य वीरसैनिकानां मध्ये दीपावलीपर्व आचरिष्यति। शनिवासरे दीपावल्याः पूर्वसन्ध्यायां देशवासिभ्यः शुभकामनाः प्रददन् सः अवदत् यत् प्रतिवर्षं तस्य देशस्य वीरसैनिकानां समीपं गत्वा दीपावलीपर्व आचरितुं प्रयासः भवति तथा अस्मिन् वर्षे अपि एषा परम्परा अनुवर्तिष्यते।
मोदी सामाजिकमाध्यमे प्रसारिते स्वस्य दृश्यसन्देशे अवदत्, “दीपावल्याः पवित्रे पर्वणि सम्पूर्णः देशः प्रकाशेन देदीप्यमानः अस्ति। प्रकाशस्य अयं पर्व अन्धकारस्य विरुद्धं अस्माकं सङ्कल्पस्य परिचायकः अस्ति। भवद्भ्यः सर्वेभ्यः दीपावल्याः हार्दिक्यः शुभकामनाः। एतत् पर्व तथा भवतां आगामी समयः सुखशान्तिसमृद्धिभिः परिपूर्णः भवतु।”
प्रधानमन्त्री अवदत्, “अहमपि भवद्भिः इव महता उत्साहेन दीपावलीपर्व आचरामि। प्रतिवर्षं भवन्तः जानन्ति यत् देशस्य वीरसैनिकानां समीपं गमनम् मम नित्यक्रमः अस्ति। अस्मिन् वर्षे अपि एषः क्रमः अनुवर्तिष्यते।”
---------------
Hindusthan Samachar / Dheeraj Maithani