इन्दौरनगरे धन्वन्तरिजयन्त्यवसरे चिकित्साजगतः अष्ट विभूतयः सम्मानिताः
मन्त्रिणः कैलाशविजयवर्गीयस्य अध्य-क्षतायां एमजीएम् चिकित्सामहा-विद्यालये समारोहः आयोजितः। इन्दौरम्, ०६ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे धन्वन्तरि-जयन्त्यवसरे आयुर्वेदसम्मेलनम्, आरोग्यभारती इन्दौरमहानगरम्, नेशनल इण्टिग्रेटेड मेडिकल एसोस
मजीएम मेडिकल कॉलेज में आयोजित समारोह


मन्त्रिणः कैलाशविजयवर्गीयस्य अध्य-क्षतायां एमजीएम् चिकित्सामहा-विद्यालये समारोहः आयोजितः।

इन्दौरम्, ०६ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे धन्वन्तरि-जयन्त्यवसरे आयुर्वेदसम्मेलनम्, आरोग्यभारती इन्दौरमहानगरम्, नेशनल इण्टिग्रेटेड मेडिकल एसोसिएशन (नीमा), एमजीएम् स्मृति चिकित्सामहाविद्यालयः इत्यादिनां विभिन्नानां स्वास्थ्यसेवायै समर्पितानां संस्थानां संयुक्ततत्त्वावधाने शुक्रवासरे धन्वन्तरिजयन्तीमहोत्सवः आयोजितः। अस्मिन् समारोहे चिकित्सा-जगति उल्लेखनीययोगदानाय सेवायै च अष्ट प्रतिष्ठिताः विभूतयः सम्मानिताः।

एमजीएम् चिकित्सामहाविद्यालयस्य सभागारे आयोजितस्य समारोहस्य मुख्यातिथिः आरोग्यभारत्याः राष्ट्रिय-सङ्गठनमन्त्री डॉ. अशोककुमारवार्ष्णेयः आसीत्। मध्यप्रदेशशासनस्य मन्त्री-मण्डलीयमन्त्री कैलाशविजयवर्गीयः कार्यक्रमस्य अध्यक्षताम् अकरोत्। समा-रोहस्य शुभारम्भः भगवान् धन्वन्तरिणः पूजनेन अतिथीनां स्वागतविधिना च अभवत्।

अस्मिन् अवसरे वरिष्ठः आयुर्वेद-चिकित्सकः आयुषविभागस्य च निवृत्तः संयुक्तसञ्चालकः वैद्यः सोमेन्द्रमिश्रः, वरिष्ठः सामान्यचिकित्सकः नीमासङ्घस्य प्रान्तीयाध्यक्षः च डॉ. महेशगुप्तः, वरिष्ठा स्त्रीरोगविशेषज्ञा डॉ. वैजयन्तीभौरास्करः, वरिष्ठा योगाचार्या आयुर्वेदचिकित्सिका च डॉ. रीताशर्मा, वरिष्ठा होम्योपैथि-चिकित्सिका शासकीय-चिकित्सा-धिकारिणी च डॉ. तृप्तिकाटदरे, वरिष्ठः औषधनिर्माता पण्डितः गौतम-मारवालः, वरिष्ठः औषधविक्रेता पण्डितः अर्पितसिद्धः तथा वरिष्ठः चिकित्सा-प्रतिनिधिः श्रीरत्नदीप-कानूनगो च सम्मानिताः।

समारोहे उपस्थितैः वक्तृभिः भगवान् धन्वन्तरिः आयुर्वेदस्य चिकित्सा-परम्परायाश्च आराध्यदेवः इति वर्णितः। तैः उक्तं यत् धन्वन्तरिजयन्तीमहोत्सवः चिकित्साजगतः विभिन्नचिकित्सा-पद्धतिनां मध्ये समन्वयस्थापनायै, स्वास्थ्यसेवानां विस्ताराय समाजे च स्वास्थ्यविषयकजागरूकतायाः वर्धनाय महत्त्वपूर्णः अवसरः अस्ति। वर्तमानकाले गम्भीररोगाणां चुनौतीः सम्मुखीकर्तुं श्रेष्ठाः स्वास्थ्यसेवाः च प्रदातुं सर्वासां चिकित्सापद्धतिनां चिकित्सकानां मध्ये सहयोगः सामूहिकप्रयासश्च आवश्यकः अस्ति। आरोग्यभारती एतमेव उद्देश्यम् अवलम्ब्य विभिन्नचिकित्सापद्धतिनां चिकित्सकान् एकस्मिन् मञ्चे संयोज्य स्वास्थ्यक्षेत्रे समन्वितां प्रभावपूर्णां च भूमिकां निर्वहति।

समारोहे भोलानाथः, एमजीएम् चिकित्सा-महाविद्यालयस्य अधिष्ठाता डॉ. अरविन्दघनघोरिया, वरिष्ठचिकित्सकः डॉ. आर.के. बाजपेयी, विष्णुव्यासः इत्यादयः चिकित्साजगता सम्बद्धाः अनेके गणमान्यजनाः, चिकित्सकाः स्वास्थ्य-कर्मिणश्च उपस्थिताः आसन्।

वरिष्ठचिकित्सकः आरोग्यभारतीमालव-प्रान्तस्य कार्याध्यक्षः वैद्यः लोकेशजोशी आयोजनस्य विषये सूचनां दत्त्वा अवदत् यत् धन्वन्तरिजयन्तीमहोत्सवस्य प्रमुखम् उद्देश्यं चिकित्साक्षेत्रे उत्कृष्टसेवां प्रददतां विभूतिनां सम्माननम्, भारतीयचिकित्सा-पद्धतिनां विषये जनजागरूकतायाः वर्धनम् तथा सर्वासां चिकित्सापद्धतीनां मध्ये परस्परसहयोगस्य प्रोत्साहनं च अस्ति।

Hindusthan Samachar / Divya Ranjan