प्रधानमन्त्री उपराष्ट्रपतिना सह मिलित्वा दीपावल्याः शुभकामनाः प्रदत्तवान्।
नव दिल्ली, 07 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे उपराष्ट्रपतिभवनं गत्वा उपराष्ट्रपतिना सी.पी. राधाकृष्णनेन सह मिलित्वा तस्मै दीपावल्याः शुभकामनाः प्रदत्तवान्। अस्मिन् अवसरे उभौ नेतारौ परस्परं दीपावल्याः शुभकामनाः आदानप्रदानं कृतव
प्रधानमंत्री नरेन्द्र मोदी शनिवार को उपराष्ट्रपति सीपी राधाकृष्णन से मुलाकात के दौरान


नव दिल्ली, 07 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे उपराष्ट्रपतिभवनं गत्वा उपराष्ट्रपतिना सी.पी. राधाकृष्णनेन सह मिलित्वा तस्मै दीपावल्याः शुभकामनाः प्रदत्तवान्। अस्मिन् अवसरे उभौ नेतारौ परस्परं दीपावल्याः शुभकामनाः आदानप्रदानं कृतवन्तौ।

प्रधानमन्त्री सामाजिकमाध्यममञ्चे एक्स इत्यत्र अस्याः भेटस्य छायाचित्राणि प्रकाशित्य लिखितवान्, “उपराष्ट्रपतिना सी.पी. राधाकृष्णनेन सह मेलनं जातम् तथा दीपावल्याः शुभकामनानां आदानप्रदानं कृतम्।”

उपराष्ट्रपतिसचिवालयेन अपि एक्स इत्यत्र छायाचित्राणि प्रकाशित्य सूचितं यत् शनिवासरे उपराष्ट्रपतिः राधाकृष्णन् उपराष्ट्रपतिभवने प्रधानमन्त्रिणः हार्दिकं स्वागतं कृतवान्। अस्मिन् अवसरे उभौ नेतारौ दीपावल्याः शुभकामनाः परस्परम् आदानप्रदानं कृतवन्तौ।

------------

Hindusthan Samachar / Dheeraj Maithani