प्रधानमन्त्रीसूर्यगृहम् इत्यस्यां निःशुल्कविद्युत्योजनायाम् उत्तरप्रदेशेन देशे प्रथमं स्थानं प्राप्तम्।
प्रधानमन्त्रिसूर्यगृहनिःशुल्कविद्युत्योजनायां उत्तरप्रदेशस्य देशे प्रथमं स्थानम् - उत्तरप्रदेशे अधुना यावत् ९.५३ लक्षाधिकानि छदिस्थसौरविद्युत्संयन्त्राणि संस्थापितानि लखनऊ, ०७ नवम्बरमासः (हि.स.)। प्रधानमन्त्रीसूर्यगृहनिःशुल्कविद्युत्योजनायाम् उत्
सांकेतिक फोटो


प्रधानमन्त्रिसूर्यगृहनिःशुल्कविद्युत्योजनायां उत्तरप्रदेशस्य देशे प्रथमं स्थानम्

- उत्तरप्रदेशे अधुना यावत् ९.५३ लक्षाधिकानि छदिस्थसौरविद्युत्संयन्त्राणि संस्थापितानि

लखनऊ, ०७ नवम्बरमासः (हि.स.)। प्रधानमन्त्रीसूर्यगृहनिःशुल्कविद्युत्योजनायाम् उत्तरप्रदेशेन ऐतिहासिकोपलब्धिः अर्जिता अस्ति। देशे प्रथमं स्थानं प्राप्य उत्तरप्रदेशेन सञ्चितच्छदिस्थसौरविद्युत्संयन्त्रसंस्थापने गुजरातं महाराष्ट्रं च अतिक्रम्य स्वस्थानं सुदृढीकृतम् अस्ति।

उत्तरप्रदेशनेडा-संस्थायाः निदेशकः रविन्द्रकुमारः अवदत् यत् २०२६ तमस्य वर्षस्य नवम्बरमासस्य पञ्चमदिनाङ्कपर्यन्तं उत्तरप्रदेशे कुलम् ९,५३,२०१ छदिस्थसौरविद्युत्संयन्त्राणि संस्थापितानि सन्ति। २०२६ तमस्य वर्षस्य अक्टूबरमासे प्रदेशेन ७५,०३१ तः अधिकानि सौरविद्युत्संयन्त्राणि संस्थाप्य देशे प्रथमं स्थानं प्राप्तम्। एषा उपलब्धिः प्रदेशे सौरशक्तेः प्रति वर्धमानजनविश्वासस्य, सर्वकारस्य प्रभाविणां नीतिनां तथा उत्तरप्रदेशनेडा-संस्थायाः, उत्तरप्रदेशविद्युत्निगमस्य, सर्वेषां विद्युत्वितरणनिगमानां, वित्तीयसंस्थानां तथा सौरविद्युत्विक्रेतॄणां समन्वितप्रयत्नानां परिणामः अस्ति।

केन्द्रराज्यसर्वकारयोः ८,४५० कोटिरूप्यकाधिकानां अनुदानैः गृहे गृहे सौरशक्तेः प्रसारः

अस्याः योजनायाः सफलतायाः प्रमुखं आधारं केन्द्रस्य उत्तरप्रदेशसर्वकारस्य च व्यापकं वित्तीयसहकारित्वम् अस्ति। केन्द्रराज्यसर्वकाराभ्यां संयुक्तरूपेण ८,४५४.५ कोटिरूप्यकाधिकं अनुदानं प्रदत्तम् अस्ति। अस्मिन् केन्द्रसर्वकारस्य पक्षतः ६,२५४.५ कोटिरूप्यकाणि तथा उत्तरप्रदेशसर्वकारस्य पक्षतः २,२०० कोटिरूप्यकाधिकम् अतिरिक्तमनुदानं प्रदत्तम् अस्ति। केन्द्रसर्वकारस्य वित्तीयसहायतया उत्तरप्रदेशसर्वकारस्य अतिरिक्तानुदानेन च सामान्यपरिवाराणां कृते छदिस्थसौरविद्युत्संयन्त्राणि अधिकानि किफायतीनि अभवन्। अनेन विद्युत्व्यये बचतायाः, ऊर्जाक्षेत्रे स्वावलम्बनस्य तथा स्वच्छशक्तेः विस्तारस्य च नूतना गतिः प्राप्ता।

प्रतिदिनं नवकोटिरूप्यकाधिकमूल्यायाः स्वच्छविद्युत्याः उत्पादनम्

प्रदेशे संस्थापितायाः ३,१६७.५७ मेगावाटमितायाः छदिस्थसौरविद्युत्क्षमतायाः आधारेण प्रतिदिनं प्रायः १.४२ कोटियूनिटमिता स्वच्छविद्युत् उत्पाद्यते इति अनुमानम् अस्ति। यदि प्रतियूनिट् विद्युतः मूल्यं ६.५० रूप्यकाणि स्वीक्रियते तर्हि अस्याः विद्युत्याः आर्थिकमूल्यं प्रतिदिनं प्रायः ९.२६ कोटिरूप्यकाणि तथा वार्षिकं प्रायः ३,३८० कोटिरूप्यकाणि भवति। अनेन पारम्परिकविद्युत्याः आश्रयः न्यूनः भवति, उपभोक्तृभ्यः आर्थिकलाभः पर्यावरणाय च स्वच्छशक्तेः लाभः प्राप्यते।

भूमिसंरक्षणे पर्यावरणसुरक्षायां च उत्तरप्रदेशस्य महती उपलब्धिः

छदिस्थसौरविद्युत्संयन्त्राणां प्रमुखः लाभः अस्ति यत् विद्युत् उत्पादनं गृहाणां छदिषु एव भवति। अतः विशालभूमिक्षेत्रेषु सौरविद्युत्पार्कानां निर्माणस्य आवश्यकता न्यूनीभवति। उत्तरप्रदेशे संस्थापितायाः ३,१६७.५७ मेगावाटमितायाः सौरविद्युत्क्षमतायाः आधारेण यदि समक्षमतायुक्तः भूमिस्थसौरविद्युत्संयन्त्रः संस्थाप्येत तर्हि प्रायः १२,६७० एकडमिता भूमिः अपेक्षिता स्यात्। एवं छदिस्थसौरविद्युत्संयन्त्राणां माध्यमेन एतावत्याः भूमेः उपयोगस्य आवश्यकता परिहर्तुं शक्यते। अनेन कृषिभूमेः प्राकृतिकसंसाधनानां च संरक्षणे सहायता भवति।

एतदतिरिक्तं छदिस्थसौरविद्युत्संयन्त्रैः उत्पादिता स्वच्छविद्युत् पारम्परिकविद्युत्जालसम्बद्धस्य कार्बन-उत्सर्जनस्य न्यूनीकरणे महत्त्वपूर्णं योगदानं ददाति। वर्तमानस्थापितक्षमतया प्रतिवर्षं प्रायः ३५ लक्षमितटनपरिमितस्य कार्बनडाइऑक्साइड्-उत्सर्जनस्य न्यूनीकरणं भवति इति अनुमानम् अस्ति।

८,७०० अधिकाः विक्रेतारः, एकलक्षाधिकाः रोजगारावसराः

प्रधानमन्त्रिसूर्यगृहनिःशुल्कविद्युत्योजनया प्रदेशे रोजगारस्य उद्यमशीलतायाश्च नवीनाः अवसराः अपि सृजिताः सन्ति। उत्तरप्रदेशे ८,७०० अधिकाः राज्यसूचीकृताः सौरविद्युत्विक्रेतारः कार्यरताः सन्ति तथा अस्मिन् क्षेत्रे एकलक्षाधिकाः प्रत्यक्षाप्रत्यक्षरोजगारावसराः विकसिताः सन्ति। सौरविद्युत्पटलानां, इन्वर्टरयन्त्राणां, विद्युत्सञ्चायकानां, आधारसंरचनानां, विद्युत्सम्बद्धोपकरणानां, संस्थापनस्य, परिवहनस्य, भाण्डागारणस्य, वितरणस्य तथा अनुरक्षणस्य क्षेत्रेषु व्यावसायिकगतिविधयः तीव्रतया वर्धन्ते। प्रदेशे अस्याः सम्पूर्णमूल्यशृङ्खलायाः माध्यमेन प्रतिदिनं प्रायः ४५ तः ५० कोटिरूप्यकाणां व्यावसायिकावसराः सृज्यन्ते इति अनुमानम् अस्ति।

प्रधानमन्त्रिसूर्यगृहनिःशुल्कविद्युत्योजनायाः सफलता स्पष्टं करोति यत् छदिस्थसौरविद्युत्संयन्त्राणि केवलं विद्युत्बिलस्य बचतायाः माध्यमं न सन्ति, अपितु औद्योगिकविकासस्य, रोजगारसृजनस्य, स्थानीयोद्यमशीलतायाः, निवेशाकर्षणस्य तथा ऊर्जाक्षेत्रे स्वावलम्बनस्य च महत्त्वपूर्णम् आधारं भवितुम् अर्हन्ति।

Hindusthan Samachar / Dheeraj Maithani