सहरसा-सिलिगुडी इत्यनयोः: मध्ये प्रत्यक्षरेलयानसेवा नास्ति, व्यापारः पर्यटनं च प्रभावितम्
सहरसा, ०७ नवम्बरमासः (हि.स.)। सहरसानगरात् सिलिगुडीनगरं प्रति पूर्वं रेलयानसेवा उपलब्धा आसीत्, किन्तु बृहद्रेलमार्गस्य निर्माणानन्तरम् एषा सेवा स्थगिता अभवत्। सम्प्रति उभयोः नगरयोः मध्ये प्रत्यक्षरेलयानस्य अभावात् व्यापारिभ्यः, पर्यटकेभ्यः सामान्य-
सहरसा रेलवे जंक्शन की तस्वीर


सहरसा, ०७ नवम्बरमासः (हि.स.)।

सहरसानगरात् सिलिगुडीनगरं प्रति पूर्वं रेलयानसेवा उपलब्धा आसीत्, किन्तु बृहद्रेलमार्गस्य निर्माणानन्तरम् एषा सेवा स्थगिता अभवत्। सम्प्रति उभयोः नगरयोः मध्ये प्रत्यक्षरेलयानस्य अभावात् व्यापारिभ्यः, पर्यटकेभ्यः सामान्य-यात्रिभ्यश्च महती समस्या जायते। अनेन उभयोः क्षेत्रयोः व्यापारिकसम्बन्धाः पर्यटनसम्बन्धाश्च अपि प्रभाविताः भवन्ति।

एतावदेव न, कोसी-सीमाञ्चलक्षेत्रस्य विकासाय, व्यापाराय (विशेषतः चायपत्रादीनां व्यापाराय) छात्राणां सुविधायै च एतद् रेलयानम् अत्यन्तं महत्त्वपूर्णं मन्यते।

सहरसातः सिलिगुडीं प्रति प्रत्यक्षरेल-यानस्य प्रतीक्षा

मीटरगेज्-मार्गस्य समये सहरसातः सिलिगुडीं प्रति जीएल् एक्स्प्रेस् (५५१५/५५१६) रेलयानस्य सञ्चालनम् अभवत्। एतद् रेलयानं सहरसा, बनमनखी, पूर्णिया, कटिहार, किशनगञ्ज इत्येतेषु रेलमार्गेषु प्रचलति स्म। एतत् रेलयानं कोसी-सीमाञ्चलक्षेत्रस्य यात्रिणां कृते जीवनरेखावत् मन्यते स्म। किन्तु रेलमार्गस्य आमानपरिवर्तनस्य समये अस्य सञ्चालनं स्थगितम्। बृहद्रेलमार्गस्य निर्माणानन्तरमपि सहरसातः सिलिगुडीं वा न्यू जलपाईगुडीं प्रति प्रत्यक्षरेलयानसेवा प्रारब्धा नास्ति।

यात्रिभिः कटिहारात्, पूर्णियातः वा अन्येभ्यः रेलस्थानकेभ्यः रेलयानं परिवर्त्य यात्रा कर्तव्या भवति। अनेन व्यापारिणः, छात्राः, सेवायोजिताः जनाः पर्यटकाः च समस्याम् अनुभवन्ति। अररिया-गल्गलिया रेल-खण्डस्य विकासे सत्यपि अस्मिन् दिशि प्रत्यक्षरेलसेवायाः अभावः निरन्तरं वर्तते।

राज्यसभासदस्यस्य प्रयासः

राज्यसभायाः सदस्यः मनोजझा मार्चमासे २०२१ तमे वर्षे सहरसा-मार्गेण गुवाहाटी-दिल्ली राजधानी एक्स्प्रेस् रेलयानस्य सञ्चालनाय तथा सहरसा-सिलिगुडी इत्यनयोः मध्ये जीएल एक्स्प्रेस रेलयानस्य पुनः सञ्चालनाय रेल-मन्त्रालयं प्रति आग्रहं कृतवान् आसीत्। क्षेत्रवासिभिः सहरसातः सिलिगुडीं प्रति पुनः प्रत्यक्षरेलयानस्य सञ्चालनस्य याचना कृता अस्ति।

Hindusthan Samachar / Divya Ranjan