रविवासरे अपि श्वः शेयर-विपण्याम् अपराह्णे २:२० वादनात् ३:३० वादनपर्यन्तं भविष्यति मुहूर्त-व्यापारः
नवदिल्ली, ०७ नवम्बरमासः (हि.स.)। दीपावलीपर्वणः अवसरे अस्मिन् वर्षे बॉम्बे स्टॉक एक्सचेंज तथा नेशनल स्टॉक एक्सचेंज इत्यनयोः अपराह्णे २:२० वादनात् ३:३० वादनपर्यन्तं मुहूर्त-व्यापारः भविष्यति। प्रतिवर्षं दीपावलीदिने पारम्परिकरूपेण आयोज्यमानस्य एक-होरा
प्रतीकात्मक


नवदिल्ली, ०७ नवम्बरमासः (हि.स.)। दीपावलीपर्वणः अवसरे अस्मिन् वर्षे बॉम्बे स्टॉक एक्सचेंज तथा नेशनल स्टॉक एक्सचेंज इत्यनयोः अपराह्णे २:२० वादनात् ३:३० वादनपर्यन्तं मुहूर्त-व्यापारः भविष्यति। प्रतिवर्षं दीपावलीदिने पारम्परिकरूपेण आयोज्यमानस्य एक-होरात्मकस्य विशेषव्यापारसत्रस्य समयः कतिपयदिनानि पूर्वमेव एनएसई तथा बीएसई इत्याभ्यां आधिकारिकरूपेण घोषितः आसीत्।

अस्मिन् वर्षे दीपावलीपर्व रविवासरे भविष्यति। रविवासरः साप्ताहिकावकाशः भवति, अतः शेयर-विपण्यां नियमितं कार्यं न भवति। किन्तु दीपावल्याः अवसरे नवीनवित्तीयनिवेशस्य आरम्भार्थं तथा लक्ष्मी-नववर्षस्य स्वागतार्थं प्रतिवर्षमिव अस्मिन् वर्षे अपि मुहूर्त-व्यापाराय विपण्याः विशेषरूपेण उद्घाटिताः भविष्यन्ति। भारतीयसंस्कृतौ व्यापारिक-जगति च मुहूर्त-व्यापारस्य एतत् एकहोरात्मकं सत्रं परमपवित्रं समृद्धिप्रदं च मन्यते। अस्मिन् व्यापारीभिः सामान्यनिवेशकैश्च नवीनव्यवहाराणाम् आरम्भेण सह मातुः लक्ष्म्याः भगवतः गणेशस्य च विशेषपूजनम् अपि क्रियते।

अस्य विशेषव्यापारसत्रस्य समयविषये वक्तव्ये श्वः मुख्यं मुहूर्त-व्यापारसत्रम् अपराह्णे २:२० वादने प्रारभ्य ३:३० वादने समाप्तं भविष्यति। तथापि मुख्यव्यापार-सत्रस्य आरम्भात् पूर्वमेव विपण्यां गतिविधयः प्रारभ्यन्ते। अपराह्णे १:५० वादनात् २:०५ वादनपर्यन्तं समयः ब्लॉक-डील-व्यवहाराय निर्धारितः अस्ति। तदनन्तरं २:०५ वादनात् २:२० वादनपर्यन्तं पूर्वोद्घाटनसत्रम् आयोजयिष्यते।

मुख्यसत्रस्य समाप्त्यनन्तरं विपण्याः कार्यं सुव्यवस्थितरूपेण समापयितुं विभिन्नानि समापनसत्राणि निर्धारितानि सन्ति। तेषु नॉन-सीएएस-समापनसत्रम् अपराह्णे ३:३० वादनात् ३:५० वादनपर्यन्तं तथा सीएएस-समापनसत्रम् ३:३५ वादनात् ३:५० वादनपर्यन्तं भविष्यति। ततः सायं ३:५० वादनात् ४:०० वादनपर्यन्तं पश्चात्-समापनसत्रं प्रचलिष्यति। अस्य सत्रस्य समाप्त्या सह दीपावलीपर्वणः एतस्य विशेषव्यापारसत्रस्य अपि समापनं भविष्यति।

उत्सवकालस्य अस्य सम्पूर्णसप्ताहस्य विपणीनाम् अवकाशसूचीं पश्यामः चेत् रविवासरे केवलं मुहूर्त-व्यापारः भविष्यति। दीपावलीपर्वणः अनन्तरं सोमवासरे अर्थात् नवम्बरमासस्य ९ दिनाङ्कात् शेयर-विपणीषु प्रतिदिनमिव सामान्यं नियमितकार्यं पुनः प्रारभ्यते। तथापि तदनन्तरमेव मङ्गलवासरे अर्थात् नवम्बरमासस्य १० दिनाङ्के दीपावली-बलिप्रतिपदा-पर्वणः अवसरे एनएसई तथा बीएसई उभयत्र अवकाशः भविष्यति। नवम्बरमासस्य अन्यावकाशानां विषये वक्तव्ये अस्य मासस्य २४ दिनाङ्के (मङ्गलवासरे) गुरुनानकजयन्त्या: अवसरे अपि शेयर-विपणीषु कार्यं न भविष्यति।

दीपावल्याः अवसरे आयोज्यमानस्य अस्य विशेषमुहूर्त-व्यापारस्य कृते सर्वाधिकं सुखदं वृत्तम् इदम् अस्ति यत् घरेलुशेयर-विपण्यां दीर्घकालात् प्रचलितः मन्दतायाः कालः समाप्तिम् अभिगच्छन् दृश्यते। वैश्विकस्तरे अमेरिकादेशस्य मध्यावधिक-निर्वाचनस्य परिणामानन्तरं अन्ता-राष्ट्रियविपण्यां कच्चातैलस्य मूल्येषु अभवत् महती न्यूनता। अस्य तत्कालः प्रभावः भारतीयशेयर-विपण्याम् अभवत् तथा विपण्यै संजीवनी प्राप्ता।

अन्तरराष्ट्रीयविपण्यां कच्चातैलस्य मूल्येषु न्यूनतायाः कारणेन घरेलुविपण्यां सर्वतोमुखी क्रयणगतिविधिः पुनरागता। अस्य प्रभावेण दीपावलीपर्वणः पूर्वं विपण्याः निरन्तरं उत्कृष्टवृद्धेः मार्गे अग्रसराः अभवन्। अस्य तीव्रवृद्धेः परिणामस्वरूपं सेन्सेक्सः केवलम् एकसप्ताहे ६,५९८.४९ अङ्कान् अर्थात् ८.८२ प्रतिशतं वृद्धिं प्राप्य ८१,०२८.०२ अङ्कानां स्तरं प्राप्तुं सफलः अभवत्। तथैव निफ्टी अपि साप्ताहिकाधारे १,९७७.२५ अङ्कान् अर्थात् ८.५८ प्रतिशतं वृद्धिं प्राप्य २५,०३०.३५ अङ्कानां स्तरं प्राप्तवान्। विपण्याः एतेन उत्साहपूर्णेन वातावरणेन निवेशकाणां मुखेषु प्रसन्नता आगता। अतः अस्मिन् वर्षे मुहूर्त-व्यापारसत्रे विशालस्य निवेशस्य सम्भावना व्यक्ता क्रियते।

Hindusthan Samachar / Divya Ranjan