मुख्यमन्त्रिणा मशोब्रायां बालकैः सह दीपावलीपर्व आचरितम्, मिष्टान्नानि च वितीर्णानि।
शिमला, 08 नवंबरमासः (हि.स.)। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः दीपावलीपर्वणः अवसरे रविवासरे मशोब्रास्थिते बालिकाश्रमे ‘राज्यस्य बालकाः’ इति नाम्ना परिचितैः बालकैः सह पर्व आचरितवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा बालकैः सह स्फोटकानि प्रज्वालितानि त
मुख्यमंत्री बच्चो संग दिवाली मनाते हुए


शिमला, 08 नवंबरमासः (हि.स.)।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः दीपावलीपर्वणः अवसरे रविवासरे मशोब्रास्थिते बालिकाश्रमे ‘राज्यस्य बालकाः’ इति नाम्ना परिचितैः बालकैः सह पर्व आचरितवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा बालकैः सह स्फोटकानि प्रज्वालितानि तथा तेभ्यः फलानि, मिष्टान्नानि, स्फोटकानि च वितरितानि। सः बालकैः सह दीपावल्याः आनन्दं विभजन् उक्तवान् यत् ‘राज्यस्य बालकाः’ तस्य स्वकीयपरिवारस्य एव अङ्गानि सन्ति। एतस्यामेव भावनायां सः समये समये प्रदेशस्य विभिन्नेषु बालसंरक्षणसंस्थानेषु गत्वा बालकैः सह मिलति तथा तेषाम् आवश्यकतानां समस्याणां च विषये सूचनाः प्राप्नोति।

मुख्यमन्त्री उक्तवान् यत् प्रदेशस्य सर्वकारः एतेषां बालकानां शिक्षायै, पालनपोषणाय तथा उज्ज्वलभविष्याय सर्वसम्भवं साहाय्यं प्रददाति। सर्वकारः तेषां शिक्षायाः सम्पूर्णं व्ययं वहति। एतदतिरिक्तम्, तान् आत्मनिर्भरान् कर्तुं आर्थिकसहायतामपि प्रददाति। बालकेभ्यः गृह-निर्माणाय विवाहसम्बद्धव्ययानां च कृते अपि सहायता उपलभ्यते। सः उक्तवान् यत् सर्वकारस्य समीपे बालकल्याणाय पर्याप्ताः वित्तीयसंसाधनानि सन्ति तथा तेषाम् आवश्यकतानां पूर्तौ किमपि न्यूनता न भविष्यति।

सुक्खुः उक्तवान् यत् प्रदेशस्य सर्वकारः बालसंरक्षणसंस्थानेषु निवसतां बालकानां कृते उत्तमावासीयसुविधाः प्रदातुम् अपि प्रयत्नशीलः अस्ति। अस्याः योजनायाः अन्तर्गतं एतेषु संस्थानेषु छात्रावासानां निर्माणाय २० कोटिरूप्यकाणि विमोचितानि सन्ति। सः उक्तवान् यत् ‘राज्यस्य बालकाः’ इति दर्जा प्रदत्तस्य अनन्तरं सर्वकारेण एतेषां बालकानां मातापित्रोः उभयोः दायित्वं निर्वोढुं सङ्कल्पः कृतः अस्ति। तेषां सुरक्षितभविष्याय, शिक्षायै सर्वाङ्गीणविकासाय च अनेकाः कल्याणकारीयोजनाः सञ्चालिताः सन्ति।

मुख्यमन्त्री बालकान् एकाग्रतया अध्ययनं कर्तुम्, उत्तमान् संस्कारान् स्वीकर्तुम्, उत्तरदायिनः नागरिकाः भवितुं च प्रेरितवान्। सः उक्तवान् यत् बालकाः परिश्रमेण जीवने प्रगतिं कुर्वन्तु तथा हिमाचलप्रदेशस्य गौरवं वर्धयेयुः। सः आश्वासनं दत्तवान् यत् सर्वकारः भविष्येऽपि तेषाम् आवश्यकतानां ध्यानं करिष्यति। सः स्वयमपि बालकल्याणस्य तेभ्यः प्रदीयमानानां सुविधानां च नियमितरूपेण निरीक्षणं करोति। अस्मिन्नवसरे मशोबरा-बालिकाश्रमस्य छात्राभिः मुख्यमन्त्रिणः सम्मानार्थं विविधवर्णात्मकः सांस्कृतिककार्यक्रमः प्रस्तुतः।

---------------

Hindusthan Samachar / Dheeraj Maithani