Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 08 नवंबरमासः (हि.स.)।
रविवासरे कश्मीर-उपत्यकायां प्रकाशपर्व दीपावली अत्यन्तम् उल्लासेन धूमधामेन च आचरिता। कश्मीरीपण्डितसमुदायस्य जनाः, कार्यार्थं शिक्षार्थं च उपत्यकायां निवसन्तः अन्यराज्येभ्यः आगताः जनाः तथा बहुसङ्ख्याकाः पर्यटकाः स्वगृहेषु निवासस्थानेषु च विशेषपूजनम् अर्चनं च कृतवन्तः। ततः ते विपणिषु पर्यटनस्थलेषु च भ्रमणार्थं निर्गतवन्तः। उत्सवस्य आरम्भः एकरात्रिं पूर्वमेव अभवत्। गतायां रात्रौ ऐतिहासिके लालचौके स्थानीयजनानां पर्यटकानां च विशालः जनसमूहः दृष्टः, यत्र जनाः परस्परं दीपावल्याः शुभकामनाः ददति स्म। उत्सवस्य कृते क्षेत्रस्य अनेकानि भवनानि विद्युत्प्रदीपैः सुसज्जितानि आसन्।
जम्मू-कश्मीर-बैङ्कस्य मुख्यालयसहितानि अनेकानि सर्वकारीयभवनानि अपि प्रकाशैः अलङ्कृतानि आसन्। दीपावल्याः अवसरे श्रीनगरे विशेषतः लालचौके सुरक्षायाः कठोरव्यवस्था कृता आसीत्। रात्रौ अतिरिक्तसुरक्षाबलानि नियोजितानि आसन्, येन उत्सवकाले किमपि अप्रियं न घटेत्।
रविवासरे पर्यटकाः डलसरोवरस्य, तस्य तटे स्थितानां मुगलोद्यानानां तथा श्रीनगरे नव्यतया उद्घाटितस्य गुलदाउदीपुष्पोद्यानस्य (क्रिसेन्थेमम उद्यानस्य) च भ्रमणं कृतवन्तः। प्रतिरविवासरं आयोज्यमाने प्रसिद्धे ‘सण्डे मार्केट्’ इत्याख्ये रविवासरीये विपण्याम् अपि सामान्यदिनानाम् अपेक्षया अत्यधिकः जनसमागमः दृष्टः। पर्यटनस्थलेषु स्थानीयजनाः बहिरागतान् पर्यटकान् दीपावल्याः शुभकामनाः यच्छन्तः दृष्टाः। सुखदेन मौसमेन सूर्यप्रकाशेन च पर्यटकानाम् आनन्दः अधिकः अभवत् तथा अनेकाः जनाः छायाचित्राणि गृह्णन्तः दृष्टाः। अनेकासु देवालयेषु अपि भक्तानां विशालः समागमः अभवत्।
अमीरा कदलस्य समीपे स्थितः हनुमानमन्दिरः सहिताः अनेकाः देवालयाः विद्युत्प्रदीपैः सुसज्जिताः आसन्। पूर्ववर्षाणाम् इव अस्मिन् वर्षेऽपि नगरस्य केषुचित् स्थलेषु, यथा रीगलचौके, दीपावलीसम्बद्धवस्तूनां विक्रयार्थं विक्रयकेन्द्राणि स्थापितानि आसन्। उपत्यकायां नियोजिताः सेनासैनिकाः अपि स्वकीयेषु शिविरेषु दीपावलीपर्व आचरितवन्तः। ते परस्परं शुभकामनाः दत्तवन्तः तथा सहसैनिकेभ्यः मिष्टान्नानि वितरितवन्तः।
पर्यटकानां एकेन समूहेन उक्तं यत् अयं महदानन्दस्य अवसरः अस्ति। अयं दिवसः कश्मीराय अस्मभ्यं सर्वेभ्यश्च सुखम् आनयतु, अस्मान् परस्परं समीपम् आनयतु तथा मिलित्वा निवसितुं प्रेरयतु। सर्वेषां स्वास्थ्यं उत्तमं भवतु तथा आर्थिकस्थितिः अपि सुदृढा भवतु।
एका महिला पर्यटिका उक्तवती, “काश्मीरे दीपावलीम् आचरितुं महदानन्दस्य विषयः अस्ति, यतः वयं पर्वतमालानां मध्ये दीपावलीम् आचरामः। वयं प्रार्थयामहे यत् सर्वेषां मुखेषु हास्यं निरन्तरं तिष्ठेत् तथा प्रत्येकस्मिन् गृहे दीपावल्याः दीपः प्रज्वलितः भवेत्।”
सा उक्तवती यत् एतत् पर्व परिवाराणां कृते एकत्र समयं यापयितुं अवसरं प्रददाति। सा जनान् स्थानीयशिल्पिनां प्रोत्साहनाय आग्रहं कृतवती। तया उक्तं यत् अन्यदेशेषु निर्मितानां दीपानां स्थाने स्थानीयशिल्पिभिः निर्मितान् दीपान् एव उपयुञ्जीरन्।
---------------
Hindusthan Samachar / Dheeraj Maithani