गुरुग्रामम् : केन्द्रीयमन्त्रिणा एनएसजी कमाण्डो-सैनिकानाम् अदम्यं साहसं युद्धकौशलं च दृष्टम्।
आतङ्कवादविरोधिकार्याणि कर्तुं प्रशिक्ष्यन्ते महिला कमाण्डो-सैनिकाः गुरुग्रामम्, ०८ नवम्बरमासः (हि.स.)। मानेसरस्थायां राष्ट्रियसुरक्षारक्षकदलस्य (एनएसजी) प्रशिक्षण-अकादम्यां प्रतिरोधक-आईईडी-अभ्यासस्य द्वादशतमः ‘अग्निपरीक्षा’ इति अभ्यासः आयोज्यते। अ
मानेसर स्थित नेशनल सिक्योरिटी गार्ड (एनएसजी) ट्रेनिंग एकेडमी में युुधाभ्यास करते एनएसजी कमांडाे।


आतङ्कवादविरोधिकार्याणि कर्तुं प्रशिक्ष्यन्ते महिला कमाण्डो-सैनिकाः

गुरुग्रामम्, ०८ नवम्बरमासः (हि.स.)। मानेसरस्थायां राष्ट्रियसुरक्षारक्षकदलस्य (एनएसजी) प्रशिक्षण-अकादम्यां प्रतिरोधक-आईईडी-अभ्यासस्य द्वादशतमः ‘अग्निपरीक्षा’ इति अभ्यासः आयोज्यते। अस्मिन् अवसरे केन्द्रीयविदेशराज्यमन्त्री तथा पर्यावरण-वन-जलवायुपरिवर्तनराज्यमन्त्री कीर्तिवर्धनसिंहः मुख्यातिथिरूपेण उपस्थितः अभवत्। तेन राष्ट्रस्य सुरक्षायां नियोजितानां कमाण्डो-सैनिकानाम् अदम्यं साहसं, युद्धकौशलम्, अत्याधुनिकाः परिचालनक्षमताश्च परीक्षिताः।

अस्य वर्षस्य अग्निपरीक्षा-अभ्यासः सुरक्षाबलानां इतिहासे महत्त्वपूर्णं सोपानं सिद्धम् अभवत्। अस्य युद्धाभ्यासस्य समये सम्पूर्णदेशात् राज्यपुलिसबलानां केन्द्रीयसशस्त्रपुलिसबलानां च आतङ्कवादविरोधिदलानां बृहत्तमः समागमः अभवत्। आतङ्कवादस्य बमविस्फोटानां च सदृशीषु आपत्कालीनपरिस्थितिषु सर्वप्रथमं मोर्चां सम्भालयन्तः प्रथमप्रतिक्रियादातारः (फर्स्ट रिस्पॉन्डर्स) अस्मिन् अभ्यासे भागं गृहीतवन्तः। सर्वाभिः सुरक्षासंस्थाभिः परस्परं समन्वयं सुदृढं कर्तुं तथा आधुनिकानां आतङ्कवादीविपत्तीनां, विशेषतः आईईडी-आक्रमणानां प्रतिकाराय संयुक्तरणनीतीनां कठोरः अभ्यासः कृतः।

केन्द्रीयमन्त्री कीर्तिवर्धनसिंहः स्वकीयस्य भ्रमणस्य समये ‘प्रथममहिलाकमाण्डो-परिवर्तनप्रशिक्षणपाठ्यक्रमस्य’ प्रशिक्षणसत्रस्य विशेषरूपेण निरीक्षणं कृतवान्। तेन देशस्य साहसिकाभिः महिला-प्रशिक्षार्थिनीभिः सह प्रत्यक्षं संवादः कृतः तथा आतङ्कवादविरोधिनि विशिष्टेषु संवेदनशीलेषु च अभियानकार्येषु भागं ग्रहीतुं तासां उत्साहस्य प्रशंसा कृता।

तेन महिला-कर्मचारिणः अस्मिन् चुनौतीपूर्णे क्षेत्रे श्रेष्ठं प्रदर्शनं कर्तुं प्रेरिताः। सः उक्तवान् यत् अग्रिममोर्चेषु महिलानां सक्रियभागीदारी भारतस्य रक्षाव्यवस्थां अधिकं सुदृढां करोति। केन्द्रीयमन्त्रिणे अस्याः अत्याधुनिकायाः अङ्कीयप्रणाल्याः विषये विस्तरेण सूचना प्रदत्ता। एषा प्रणाली सम्पूर्णदेशे प्रचलितानां आईईडी-सम्बद्धानां गतिविधीनां सूक्ष्मविश्लेषणं करोति तथा दत्तांशस्य व्यवस्थापनं च करोति।

एनएसजी-अधिकारिभिः विदेशीयसुरक्षाबलैः सह सञ्चालितानां संयुक्तप्रशिक्षणकार्यक्रमाणां आदानप्रदानकार्यक्रमाणां च विषये अपि सूचना प्रदत्ता। एते कार्यक्रमाः अन्तरराष्ट्रीयस्तरे भारतस्य आतङ्कवादविरोधिसहकारितां सुदृढां कुर्वन्ति।

मानेसरस्थायाम् एनएसजी-प्रशिक्षण-अकादम्यां सुरक्षाबलानां मध्ये परस्परसमन्वयं रणनीतिककौशलं च सुदृढं कर्तुं आयोजिते द्वादशे राष्ट्रियसंयुक्तातङ्कवादविरोध्यभ्यासे ‘अग्निपरीक्षा-१२’ इत्यस्मिन् सम्पूर्णदेशात् प्रायः ५०० सैन्यकर्मचारिणः पुलिसकर्मचारिणश्च भागं गृह्णन्ति।

अस्य वर्षस्य युद्धाभ्यासस्य प्रमुखमाकर्षणम् अस्य व्यापकं राष्ट्रियस्वरूपम् अस्ति। अस्मिन् भारतस्य १५ राज्यानां पुलिसदलानि, नव केन्द्रशासितप्रदेशाः तथा षट् केन्द्रीयसशस्त्रपुलिसबलानि एकत्र मिलित्वा प्रारूपाभ्यासं (मॉकड्रिल) कुर्वन्ति।

‘अग्निपरीक्षा’ सम्पूर्णभारतस्य विशिष्टसुरक्षाकर्मचारिणां कृते परिचालनानुभवानां आदानप्रदानाय तथा आतङ्कवादीविपत्तीनां प्रतिकाराय उत्तरदायिनीनां सुरक्षासंस्थानां मध्ये समन्वयं सुदृढं कर्तुं प्रतिवर्षम् आयोज्यमानम् एकं मञ्चम् अस्ति। अस्मिन् वर्षे विशेषप्रशिक्षणमपि प्रदीयते।

Hindusthan Samachar / Dheeraj Maithani