उपराष्ट्रपतिः प्रधानमन्त्री च लालकृष्ण-आडवाणिमहोदयाय प्रदत्तवन्तौ जन्मदिवसस्य शुभकामनाः
नवदिल्ली, ०८ नवम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः इत्येतै: च सह अनेके नेतारः रविवासरे देशस्य पूर्वोपप्रधानमन्त्रिणे भाजपादलस्य वरिष्ठनेतारं लालकृष्ण-आडवाणिमहोदयाय जन्मदिवसस्य अव
भाजपा के वरिष्ठ नेता लालकृष्ण आडवाणी (फाइल फोटो)


नवदिल्ली, ०८ नवम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः इत्येतै: च सह अनेके नेतारः रविवासरे देशस्य पूर्वोपप्रधानमन्त्रिणे भाजपादलस्य वरिष्ठनेतारं लालकृष्ण-आडवाणिमहोदयाय जन्मदिवसस्य अवसरे शुभकामनाः प्रदत्तवन्तः।

उपराष्ट्रपतिः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र लिखितवान्, एल. के. आडवाणि-महोदयाय जन्मदिवसस्य हार्दिक्यः शुभकामनाः। अनेकदशकेभ्यः तस्य जनसेवा राष्ट्रं प्रति समर्पणं च भारतस्य लोकतान्त्रिकयात्रायाः महत्त्वपूर्णः भागः अस्ति। अहं तस्य उत्तमस्वास्थ्यस्य, सुखस्य, कल्याणस्य च कामनां करोमि।

प्रधानमन्त्री नरेन्द्रमोदी आडवाणी-महोदयस्य भारतं प्रति अमूल्ययोगदानं प्रतिपादयन्तम् एकं लेखं विलिख्य अवदत् यत् परिस्थितयः कियत्यः अपि कठिनाः भवन्तु, पुनः नूतनरूपेण किमपि निर्मातुं तस्य सङ्कल्पः आजीवनं तेन सह आसीत्। भारतीयजनसङ्घस्य सुदृढीकरणे तथा पश्चात् भारतीयजनता-दलस्य निर्माणे अपि तस्य एषः गुणः परिलक्षितः अभवत्। भाजपादलस्य राष्ट्रियाध्यक्षरूपेण तस्य कार्यकाले देशस्य राजनीतौ महत्त्वपूर्णानि परिवर्तनानि अभवन्। वयं परमेश्वरात् तस्य उत्तमस्वास्थ्याय प्रार्थयामः। सः एवमेव सर्वान् प्रेरयतु तथा मार्गदर्शनं करोतु।

लोकसभाध्यक्षः ओमबिरला अवदत् यत् राष्ट्रस्य प्रति लालकृष्णआडवाणि-महोदयस्य समर्पणम्, सार्वजनिकजीवने तस्य दीर्घकालीनः अनुभवः तथा लोकतान्त्रिकमूल्यानि प्रति तस्य प्रतिबद्धता सर्वेषां कृते प्रेरणादायिनी अस्ति। परमेश्वरं प्रार्थये यत् सः तस्मै उत्तमस्वास्थ्यं, दीर्घायुः सुखमयं जीवनं च प्रददातु। सर्वेभ्यः निरन्तरं तस्य सान्निध्यं प्राप्यताम्।

रक्षामन्त्री राजनाथसिंहः अवदत् यत् आडवाणीमहोदयेन स्वस्य दीर्घे सार्वजनिकजीवने शुचितायाः, समर्पणस्य, नेतृत्वस्य च नवीनाः आदर्शाः स्थापिताः। तेन राष्ट्रनिर्माणे अमूल्यं योगदानं प्रदत्तम्। भारतीयजनतापार्टीदलस्य स्थापनातः आरभ्य देशस्य सर्वेषु भागेषु तस्य विस्तारपर्यन्तं आडवाणीमहोदयस्य भूमिका अत्यन्तं महत्त्वपूर्णा आसीत्। स्वकीयैः कार्यैः व्यक्तित्वेन च तेन भारतीयराजनीतिः समृद्धा कृता। जनसेवायै समर्पितं तस्य जीवनम् आदर्शाश्च अग्रिमवंशानां कृते सदैव प्रेरणास्रोतांसि भविष्यन्ति।

केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः अवदत् यत् साधारणपरिवारात् आगत्य भाजपादलस्य संस्थापकसदस्यः, राष्ट्रियाध्यक्षः, देशस्य उपप्रधानमन्त्री च इत्यादिषु सर्वासु भूमिकासु आडवाणी-महोदयस्य जीवनं जनसेवायाः तथा राष्ट्रस्य प्रथमस्थानप्रदानस्य सजीवम् उदाहरणम् अस्ति। सङ्घर्षेण, त्यागेन, तपस्यया च परिपूर्णेन स्वजीवनेन तेन प्रदर्शितं यत् मातृभूमेः विचारधारायाश्च प्रति समर्पणमेव भाजपाकार्यकर्तॄणां परिचायकम् अस्ति।

केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी अवदत् यत् परमेश्वरात् आडवाणीमहोदयस्य उत्तमस्वास्थ्याय, दीर्घायुषे, मङ्गलमयजीवनाय च प्रार्थयामः। तस्य मार्गदर्शनं सर्वेभ्यः एवमेव निरन्तरं प्राप्येत, इति अस्माकं कामना अस्ति।

केन्द्रीयस्वास्थ्यमन्त्री जे. पी. नड्डा अवदत् यत् राष्ट्रं प्रति भवत: समर्पणम्, विचाराणां दृढता, सिद्धान्तान् प्रति अटूटनिष्ठा तथा सङ्घटनं प्रति भवतः साधना भारतीय-राजनीतेः इतिहासे सदैव स्वर्णाक्षरैः अङ्किता भविष्यति। भाजपादलस्य सुदृढसङ्घटनरूपेण स्थापनात् आरभ्य राष्ट्रनिर्माणे भवतः अतुलनीयम् योगदानं सर्वेषां कृते प्रेरणास्रोतः अस्ति।

केन्द्रीयकृषिमन्त्री तथा कृषककल्याण-मन्त्री शिवराजसिंहचौहानः अवदत् यत् प्रभुश्रीरामस्य कृपा भवत: उपरि निरन्तरं वर्तताम्। भवान् सदैव स्वस्थः भवतु, दीर्घायुः भवतु, सर्वेभ्यः च भवतः स्नेहपूर्णम् आशीर्वादं मार्गदर्शनं च सर्वदा प्राप्यताम्, इति वयं प्रार्थयामः।

भारतीयजनतापार्टीदलस्य राष्ट्रियाध्यक्षः नितिननवीनः अवदत् यत् भारतीयजन-सङ्घात् आरभ्य भारतीयजनतापार्टीपर्यन्तं सङ्घटनस्य विस्ताराय, राष्ट्रवादीविचार-धारायाः जनसामान्यं प्रति प्रसाराय तथा श्रीरामजन्मभूमि-आन्दोलनस्य जना-न्दोलनरूपेण परिवर्तनाय भवतः अविस्मरणीयं योगदानम् अस्ति। सार्वजनिकजीवने भवतः शुचिता तथा सङ्घटनं प्रति अटूटनिष्ठा भाजपादलस्य सर्वेषां कार्यकर्तॄणां कृते सदैव प्रेरणास्रोतः भविष्यति।

Hindusthan Samachar / Divya Ranjan