दीपावलीमहोत्सवे निमग्नं मध्यप्रदेशम्, महाकालेश्वरस्य दिव्यधाम्नि भस्मारत्या अभवत् पर्वणः शुभारम्भः।
उज्जैनम्/भोपालम्, 08 नवंबरमासः (हि.स.)। मध्यप्रदेशे दीपावल्याः पावनं पर्व महता हर्षोल्लासेन श्रद्धया च आचर्यते। गृहात् आरभ्य देवालयपर्यन्तं सर्वत्र दीपोत्सवस्य मनोहारिणी शोभा दृश्यते। रविवासरे प्रातःकालात् पूर्वम् उज्जयिन्यां स्थिते विश्वप्रसिद्धे
महाकाल मंदिर में दीपावली पर भगवान को लगा अन्नकूट का भोग


दीपावली पर बाबा महाकाल को पुजारी परिवार की महिलाएं अभ्यंग स्नान कराते हुए


उज्जैनम्/भोपालम्, 08 नवंबरमासः (हि.स.)।

मध्यप्रदेशे दीपावल्याः पावनं पर्व महता हर्षोल्लासेन श्रद्धया च आचर्यते। गृहात् आरभ्य देवालयपर्यन्तं सर्वत्र दीपोत्सवस्य मनोहारिणी शोभा दृश्यते। रविवासरे प्रातःकालात् पूर्वम् उज्जयिन्यां स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे श्रीमहाकालेश्वरमन्दिरे अस्य पर्वणः शुभारम्भः अभवत्। प्रदेशस्य जनाः प्रातःकालादेव परस्परं सुखसमृद्ध्योः कल्याणस्य च कामनया प्रकाशपर्वणः शुभकामनाः प्रेषयन्ति स्म।

धर्मनगरी उज्जयिन्यां दीपावल्याः उत्साहः विशेषरूपेण दृश्यते स्म। अद्य प्रातःकाले भस्मारत्याः समये भगवान् महाकालः अभ्यङ्गस्नानं कारितः। पुजारीपरिवारस्य महिलाभिः बालकैश्च भगवते उबटनं लेपितम्, ततः पुजारिभिः उष्णजलेन स्नानं कारितम्। अनन्तरं भगवते अन्नकूटस्य नैवेद्यं समर्पितम्।

दीपावल्याः अवसरे मन्दिरस्य परम्परानुसारम् आरत्याः समये फुलझडीं प्रज्वाल्य उत्सवस्य शुभारम्भः कृतः। मन्दिरे दीपावल्यां सम्पाद्यमानासु चतसृषु आरतीषु फुलझडीप्रज्वालनस्य परम्परा अस्ति। तासु प्रातःकालिकी भस्मारतिः, अभ्यङ्गस्नानानन्तरम् आरतिः, सायङ्कालिकी आरतिः तथा शयनारतिः अन्तर्भवन्ति। प्रत्येकस्याम् आरत्याम् एका एका फुलझडी प्रज्वाल्यते।

महाकालेश्वरमन्दिरे सर्वप्रथमं पर्वोत्सवम् आचरितुं प्राचीनकालात् परम्परा प्रचलति। दीपावल्यामपि धार्मिकविधिविधानेन भगवतः महाकालस्य पूजनाभ्यङ्गस्नानाभ्यां पर्वणः शुभारम्भः अभवत्। भस्मारत्याः समये श्रद्धालवः भगवतः दर्शनं कृत्वा आशीर्वादं प्राप्तवन्तः। पारम्परिकपूजनार्चनयोः मध्ये सम्पूर्णं मन्दिरपरिसरं शिवमयं दृश्यते स्म। देशस्य विभिन्नेभ्यः प्रदेशेभ्यः उज्जयिनीम् आगतवतः श्रद्धालूनां कृते दीपावल्यां बाबा महाकालस्य दर्शनं विशेषश्रद्धायाः केन्द्रम् आसीत्।

राजधान्यां भोपालनगरे पर्वणः कृते गृहेभ्यः आरभ्य विपणिपर्यन्तं सर्वत्र उत्सवमयं वातावरणम् अस्ति। प्रातःकालादेव जनाः पूजायाः सज्जतायां, गृहसज्जायां दीपप्रज्वालनस्य च व्यवस्थायां संलग्नाः सन्ति। सायंकाले नगरे गृहाणि, प्रतिष्ठानानि, विपणयश्च दीपैः विविधवर्णीयप्रकाशैः च देदीप्यमानानि भविष्यन्ति। गृहेषु शुभमुहूर्ते भगवान् गणेशः माता लक्ष्मी च विधिवत् पूजितौ भविष्यतः। तदनन्तरम् आतिशबाजीभिः सह दीपावलीमहोत्सवः आचरिष्यते।

दीपावल्याः अवसरे प्रदेशस्य अन्येषु प्रमुखेषु धार्मिकस्थलेषु अपि विशेषः उत्साहः दृश्यते। देवालयेषु पूजार्चनाभिः सह गृहेषु प्रतिष्ठानेषु च लक्ष्मीगणेशयोः पूजनस्य सज्जताः कृताः। विपणिषु क्रयविक्रयैः गृहसज्जया च सर्वत्र उत्सवी शोभा वर्तते।

दीपावली केवलं दीपप्रज्वालनस्य पर्व नास्ति, अपितु श्रद्धायाः, परम्परायाः, आनन्दस्य च परस्परं वितरणस्य विशेषः अवसरः अपि अस्ति। मध्यप्रदेशे अस्मिन् पर्वणि धार्मिकश्रद्धा उत्सवीच उल्लासः च एकत्रैव दृश्येते।

---------------

Hindusthan Samachar / Dheeraj Maithani