‘खेलमहासमरः ३.०’ इत्यभियानं प्रति असमराज्ये उत्साहः, षष्टिलक्षाधिकैः क्रीडकैः पञ्जीकरणं कारितम्।
‘क्रीडामहासमरः ३.०’ इत्यभियानं प्रति असमराज्ये महोत्साहः, षष्टिलक्षाधिकैः क्रीडकैः पञ्जीकरणं कारितम् * राज्यस्य सर्वेभ्यः क्षेत्रेभ्यः युवानां व्यापकसहभागितायाः प्रदेशभाजपादलेन स्वागतं कृतम्। * ग्रामीणक्षेत्रेभ्यः नगरीयक्षेत्रेभ्यः च क्रीडास्पर्ध
‘खेलमहासमरः ३.०’ इत्यभियानं प्रति असमराज्ये उत्साहः, षष्टिलक्षाधिकैः क्रीडकैः पञ्जीकरणं कारितम्।


‘क्रीडामहासमरः ३.०’ इत्यभियानं प्रति असमराज्ये महोत्साहः, षष्टिलक्षाधिकैः क्रीडकैः पञ्जीकरणं कारितम्

* राज्यस्य सर्वेभ्यः क्षेत्रेभ्यः युवानां व्यापकसहभागितायाः प्रदेशभाजपादलेन स्वागतं कृतम्।

* ग्रामीणक्षेत्रेभ्यः नगरीयक्षेत्रेभ्यः च क्रीडास्पर्धानाम् आरम्भः।

* उदयमानप्रतिभानां प्रोत्साहनाय मुख्यमन्त्रिणा छात्रवृत्तेः निःशुल्कप्रशिक्षणस्य च व्यवस्था कृता।

गुवाहाटी, ०८ नवम्बरमासः (हि.स.)। असमराज्ये आधारस्तरे विद्यमानानां क्रीडाप्रतिभानाम् अभिज्ञानाय तासां च अग्रे गमनस्य अवसरप्रदानाय आयोजितस्य ‘क्रीडामहासमरस्य ३.०’ इत्यस्य प्रति सम्पूर्णराज्ये महत् उत्साहवर्धनं दृश्यते। नवम्बरमासस्य सप्तमदिनाङ्कात् राज्यस्य विभिन्नेषु भागेषु क्रीडास्पर्धानाम् आरम्भः अभवत्। अस्मिन् आयोजने युवानां व्यापकसहभागितायाः असमप्रदेशभाजपादलेन स्वागतं कृतम्। असमप्रदेशभाजपायाः माध्यमप्रवक्त्री डॉ. कङ्कणा गोस्वामी रविवासरे निर्गते वक्तव्ये एतां सूचनां दत्तवती।

डॉ. कङ्कणा गोस्वामी अवदत् यत् भाजपायाः प्रदेशाध्यक्षः दिलीपसैकिया उक्तवान् यत् क्रीडामहासमरः युवा पीढ्यां क्रीडासु रुचिं वर्धयितुं, तेषाम् अन्तर्निहितप्रतिभायाः परिष्काराय तथा क्रीडाक्षेत्रे उत्कृष्टतां प्राप्तुं प्रोत्साहनाय च महत्त्वपूर्णं मञ्चम् अस्ति।

वक्तव्यस्य अनुसारं राज्यस्य ग्रामीणनगरीयक्षेत्रेभ्यः च बहुसङ्ख्यया उदयमानानां क्रीडकानां सहभागिता असमराज्ये क्रीडानां प्रति वर्धमानम् उत्साहं प्रदर्शयति। मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वशर्मणः नेतृत्वे क्रीडामहासमरः स्थानीयस्तरे निहितानां प्रतिभानाम् अभिज्ञानाय तासां विकासाय च प्रभावी मञ्चरूपेण उद्भूतः अस्ति। अस्य तृतीयसंस्करणाय अधुना यावत् षष्टिलक्षाधिकैः क्रीडकैः पञ्जीकरणं कारितम् अस्ति।

अनेकजनपदेषु मन्त्रिभिः क्रीडास्पर्धानाम् उद्घाटनं कृतम्

राज्यस्य विभिन्नेषु भागेषु आयोजितेषु उद्घाटनकार्यक्रमेषु असमसर्वकारस्य वरिष्ठमन्त्रिणः विधायकाश्च भागं गृहीतवन्तः। मन्त्रिणा जयन्तमल्लबरुवेण नलबारीजनपदस्य धमधमा-उच्चतरमाध्यमिकविद्यालयस्य क्रीडाङ्गणे पञ्चायतस्तरीयस्पर्धानाम् तथा बीटीसी-अन्तर्गते तामुलपुर-उच्चतरमाध्यमिकविद्यालयस्य क्रीडाङ्गणे वीसीडीसी-स्तरीयस्पर्धानाम् उद्घाटनं कृतम्। अस्मिन् अवसरे मन्त्री विश्वजीतदैमारी अपि उपस्थितः आसीत्।

मन्त्री पीयूषहजारिका गोलपाराजनपदस्य दूधनोईस्थे उदयपुरक्रीडाङ्गणे आयोजिते उद्घाटनकार्यक्रमे भागं गृहीतवान्। अपरतः मन्त्रिणी नीलिमादेवी मङ्गलदोई-राजकीय-उच्चतरमाध्यमिकविद्यालयस्य क्रीडाङ्गणे स्पर्धानाम् औपचारिकम् उद्घाटनं कृतवती। मन्त्री बिमलबोराः राजगढ़े ग्रामपञ्चायतस्तरीयस्पर्धासु भागं गृहीत्वा उदयमानानां क्रीडकानाम् उत्साहवर्धनं कृतवान्।

क्रीडकेभ्यः निःशुल्कक्रीडावासगृहस्य छात्रवृत्तेश्च घोषणा

उल्लेखनीयं यत् मुख्यमन्त्री डॉ. हिमन्तबिस्वशर्मणा अक्टोबरमासस्य ३० दिनाङ्के गुवाहाटीस्थे श्रीमन्तशङ्करदेवकलाक्षेत्रस्य श्रीश्रीदामोदरदेव-अन्ताराष्ट्रियप्रेक्षागृहे आयोजिते कार्यक्रमे क्रीडामहासमरस्य ३.० इत्यस्य प्रतीकचिह्नस्य, शुभङ्करस्य, क्रीडावस्त्रस्य तथा विषयगीतम् अनावरणं कृतम् आसीत्। अस्मिन् अवसरे तेन सूचितं यत् गुवाहाटीस्थयोः सरुसजाई तथा नेहरू-क्रीडाङ्गणयोः पुनर्निर्माणानन्तरं विभिन्नक्रीडास्पर्धाभ्यः प्रतिभाधारितचयनप्रक्रियया चयनितानां १५०० क्रीडकानां कृते क्रीडावासगृहस्य निर्माणं करिष्यते। अत्र क्रीडकानां निवासभोजनयोः सम्पूर्णा व्यवस्था निःशुल्का भविष्यति।

एतदतिरिक्तं राज्यस्य पञ्चसहस्राणाम् उदयमानक्रीडकानां कृते चरणबद्धरूपेण प्रतिवर्षं पञ्चसहस्ररूप्यकाणां छात्रवृत्तिप्रदानस्य निर्णयः अपि कृतः अस्ति। अस्याः योजनायाः अन्तर्गतं ५०० उदयमानक्रीडकानां चयनं कृत्वा तेभ्यः द्विवर्षपर्यन्तं वार्षिकावाससुविधां प्रदातुं योजना अस्ति।

वार्डस्तरात् राज्यस्तरपर्यन्तं प्रतिभाप्रदर्शनस्य अवसरः

डॉ. कङ्कणा गोस्वामिना उक्तं यत् क्रीडामहासमरस्य विकेन्द्रीकृतस्पर्धाव्यवस्था क्रीडकेभ्यः वार्डस्तरात् ग्रामपञ्चायतस्तरं, निर्वाचनक्षेत्रं, जनपदं तथा राज्यस्तरं यावत् स्वप्रतिभाप्रदर्शनस्य सुव्यवस्थितम् अवसरं प्रददाति। अस्मिन् धावनक्रीडा, पादकन्दुकक्रीडा, वलयकन्दुकक्रीडा, जलतरणम्, मुष्टियुद्धम्, कबड्डी, योगासनम् तथा एक्वाथलॉन इत्यादयः विविधाः क्रीडाविधयः समाविष्टाः सन्ति।

तया सूचितं यत् द्वादशवर्षेभ्यः न्यूनवयस्कानां बालकानां कृते ‘शैशवक्रीडामहोत्सवः’ तथा द्वादशवर्षाणि अथवा ततोऽधिकवयस्कानां क्रीडकानां कृते ‘क्रीडामहासमरस्य’ स्पर्धाः आयोज्यन्ते। अस्य उद्देश्यं बाल्यावस्थायामेव क्रीडाप्रतिभानाम् अभिज्ञानं कृत्वा तेभ्यः समुचितप्रशिक्षणं प्रोत्साहनं च प्रदानम् अस्ति।

एतदतिरिक्तं छात्रवृत्त्या, विशेषप्रशिक्षणेन तथा उन्नतप्रशिक्षणकेन्द्रेषु अभ्याससुविधया च प्रतिभाशालिनः क्रीडकाः भविष्ये राष्ट्रिय-अन्ताराष्ट्रियस्तरीयासु क्रीडास्पर्धासु सहभागितायै सज्जीकर्तुं लक्ष्यं निर्धारितम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani