Enter your Email Address to subscribe to our newsletters

सुपौलम्, 08 नवंबरमासः (हि.स.)।
निर्मल्याः बृहद्दुर्गामन्दिरपरिसरे रविवासरात् सप्तदिवसीयः कालीपूजनोत्सवः प्रारब्धः। पूजनोत्सवस्य शुभारम्भावसरे २०१ कन्याभिः वाद्यघोषैः सह कलशयात्रा निष्कासिता।
कलशयात्रा पूजास्थलात् प्रारभ्य महावीरचौकम्, आलूगद्दीमार्गम्, भगतसिंहचौकं तथा स्टेशनमार्गं च अतिक्रम्य तिलयुङ्गानदीं प्राप्तवती। तिलयुङ्गानद्याः तटे प्राप्त्यनन्तरं कन्याभिः नदीजलम् कलशेषु पूरितम्। ततः सर्वाः कन्याः कलशान् धृत्वा पुनः पूजास्थलं प्रत्यागतवत्यः। पूजास्थले पण्डितैः विधिविधानपूर्वकं कलशानां पूजनार्चनं कारितम्। अनन्तरं कालीपूजनोत्सवस्य शुभारम्भः अभवत्। पूजनानन्तरं कन्याभ्यः भोजनं प्रदत्तम्।
पूजासमितेः अनुसारं कालीपूजनोत्सवस्य कृते मन्दिरपरिसरे आकर्षकः पण्डपः निर्मितः अस्ति। पण्डपे मातुः काल्याः सहितम् अन्येषां देवीदेवतानां प्रतिमाः स्थापिताः सन्ति। सप्तदिनानि यावत् अत्र धार्मिकानुष्ठानानि पूजनार्चनं च आयोजयिष्यन्ते। पूजनोत्सवं प्रति मन्दिरपरिसरे श्रद्धालूनां जनसमागमः वर्धमानः अस्ति।
Hindusthan Samachar / Dheeraj Maithani