Enter your Email Address to subscribe to our newsletters

गंगटोकम् (सिक्किमः), 08 नवंबरमासः (हि.स.)।
रक्षामन्त्री राजनाथसिंहः अद्य स्वकीयस्य क्षेत्रीयभ्रमणस्य अवसरे भारतचीनसीमाक्षेत्रे स्थितस्य सिक्किमराज्यस्य शेरेथाङ्गस्य भ्रमणं कृतवान्। सः सेनायाः उदग्रयानेन शेरेथाङ्गस्थिते विमानावतरणस्थले अवतीर्णवान्। अस्मिन्नवसरे गङ्गटोकस्य जिलाधिकारी रोहन अगवाने, वरिष्ठः आरक्षी अधीक्षकः डॉ. छिरिङ नामग्याल ग्यात्सो, गृहमन्त्रालयस्य संयुक्तसचिवः जॉन गुरुङ तथा भारतीयसेनायाः वरिष्ठाधिकारिणः तस्य स्वागतं कृतवन्तः।
भ्रमणस्य अवसरे रक्षामन्त्री सिंहः शेरेथाङ्गस्थिते युद्धस्मारके पुष्पाञ्जलिं समर्प्य राष्ट्रसेवायां स्वप्राणान् सर्वोच्चबलिदानरूपेण समर्पितवद्भ्यः वीरसैनिकेभ्यः श्रद्धाञ्जलिं समर्पितवान्। सः राष्ट्रस्य सार्वभौमत्वस्य क्षेत्रीयैकतायाश्च रक्षणार्थं सैनिकैः प्रदर्शितं साहसं शौर्यं च नतशिरसा अभिवन्दितवान्।
तदनन्तरं सः सीमावर्तिक्षेत्रे नियुक्तैः सुरक्षाकर्मिभिः सह संवादं कृतवान्। कठिनपरिस्थितिष्वपि राष्ट्रस्य सीमासुरक्षायै तेषां समर्पणस्य योगदानस्य च प्रशंसाम् अकरोत्। सः बाबा हरभजनसिंहमन्दिरस्य दर्शनं कृत्वा श्रद्धासुमनांसि अपि समर्पितवान्।
उल्लेखनीयम् अस्ति यत् रक्षामन्त्री सिंहः स्वकीयस्य भ्रमणस्य प्रथमदिने नवम्बरमासस्य सप्तमदिनाङ्के पश्चिमबङ्गालस्य बागडोगरावायुसैनिककेन्द्रे भारतीयवायुसेनायाः अधिकारिभिः सैनिकैः च सह मिलितवान् आसीत्। तदतिरिक्तं सः सिलीगुडीस्थे सुकनाक्षेत्रे भारतीयसेनायाः सैनिकैः सह संवादम् अपि कृतवान्। भ्रमणस्य द्वितीयदिने सः अद्य प्रातः सिक्किमराज्यम् आगतवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani