रक्षामन्त्रिणा राजनाथसिंहेन सिक्किमराज्यस्य शेरेथाङ्गे सैनिकैः सह आचरिता दीपावली, सैनिकानां बलिदानं च स्मृतम्
नवदिल्ली, ०८ नवम्बरमासः (हि.स.)। केन्द्रीय रक्षामन्त्री राजनाथसिंहः रविवासरे भारत-चीनसीमाक्षेत्रे सिक्किमराज्यस्य शेरेथाङ्गस्य भ्रमणं कृतवान् तथा तत्र नियोजितैः भारतीयसेनायाः सैनिकैः सह दीपावलीपर्व आचरितवान्। अस्मिन्नवसरे सैनिकान् सम्बोधयन् सः देशस
रक्षामन्त्री राजनाथ सिंहले शेरेथाङमा सैनिकहरूसँग मनाए दीपावली


नवदिल्ली, ०८ नवम्बरमासः (हि.स.)। केन्द्रीय रक्षामन्त्री राजनाथसिंहः रविवासरे भारत-चीनसीमाक्षेत्रे सिक्किमराज्यस्य शेरेथाङ्गस्य भ्रमणं कृतवान् तथा तत्र नियोजितैः भारतीयसेनायाः सैनिकैः सह दीपावलीपर्व आचरितवान्। अस्मिन्नवसरे सैनिकान् सम्बोधयन् सः देशस्य सुरक्षायाः सम्प्रभुतायाश्च रक्षणाय सैनिकैः कृतं सर्वोच्चं बलिदानं स्मृतवान्।

सः अवदत्, अद्य वयं दीपावल्याः दीपान् प्रज्वालयितुं शक्नुमः, तस्य पृष्ठे अस्माकं वीरसैनिकानां सर्वोच्चं बलिदानम् अस्ति। ते स्वप्राणान् समर्प्य देशस्य सुरक्षायाः सम्प्रभुतायाश्च रक्षणं कृतवन्तः। अहं सर्वेषां सैनिकानां परिवारजनानाम् अपि दीपावल्याः हार्दिक्यः शुभकामनाः ददामि।

शेरेथाङ्गस्य उच्चतायाः तीव्रशीतस्य च मध्ये सैनिकानां सान्निध्ये विशेषम् ऊर्जां प्राप्नोतीति कथयन् सः अवदत् यत् सैनिकानां मुखेषु प्रसन्नता, उत्साहः, साहसं च तस्य कृते दीपावल्याः सर्वोत्तमः प्रकाशः अस्ति। सैनिकान् एकैकं दीपकं तुलयन् सः अवदत् यत् तेषां प्रकाशः केवलं सीमाचौकीषु एव सीमितः नास्ति, अपितु देशस्य प्रत्येकस्मिन् गृहे प्राप्नोति।

रक्षामन्त्री अवदत् यत् प्रौद्योगिकी कियत् अपि उन्नता भवतु, अनुशासनं साहसं च विना तस्याः महत्त्वं नास्ति। सैनिकानाम् अनुशासनम्, तेषां व्यवहारः तथा स्थानीयजनानां प्रति सम्मानः एव सेनायाः परिचायकाः सन्ति। शेरेथाङ्गे सेनायाः प्रति स्थानीयजनानां यः स्नेहः विश्वासश्च अस्ति, तस्य संरक्षणं सर्वेषां दायित्वम् अस्ति इति सः अवदत्।

सः अवदत्, सेना कोलाहलं न करोति, किन्तु स्वस्य उपस्थितिमात्रेण देशाय सुरक्षायाः विश्वासस्य च अनुभूतिं कारयति। यदा देशवासिनः उत्सवान् आचरन्ति, तदा भवन्तः सीमासु सतर्काः भूत्वा स्वदायित्वं निर्वहन्ति। भवतां कारणादेव देशस्य नागरिकाः निश्चिन्ततया निद्रां कर्तुं शक्नुवन्ति तथा दीपावल्याः दीपाः अधिकं प्रकाशमानाः दृश्यन्ते।

अस्मिन्नवसरे शेरेथाङ्गस्थितस्य युद्ध-स्मारकस्य उल्लेखं कुर्वन् सः अवदत् यत् एतत् स्मारकं वीरसैनिकानां साहसं, शौर्यं पराक्रमं च इतिहासे अङ्कयिष्यति। अत्र वीरगतिं प्राप्तवन्तः सैनिकाः देशस्य विभिन्नराज्येभ्यः आसन्। ते स्थानीय-जनानां रक्षणाय स्वप्राणानां बलिदानं कृतवन्तः।

रक्षामन्त्री अवदत् यत् राष्ट्रियचेतनायाः जागरणे एतादृशानां स्मारकानां महत्त्वपूर्णा भूमिका भवति। स्मारकाणि जीवितानां जनानां कृते प्रेरणां दातुं निर्मीयन्ते। शेरेथाङ्गस्य युद्धस्मारकम् अपि युवजनानां भाविवंशानां च कृते प्रेरणास्थलं भविष्यतीति सः विश्वासं प्रकटितवान्। अस्मिन्नवसरे सः नवदिल्लीस्थस्य राष्ट्रियस्मारकस्य अपि उल्लेखं कृतवान्।

अन्ते सः राष्ट्रियसुरक्षायाः प्रति सैनिकानां समर्पणस्य प्रशंसां कुर्वन् सर्वेभ्यः सुखशान्तिसमृद्धिभिः परिपूर्णायाः दीपावल्याः शुभकामनाः प्रदत्तवान्। ‘भारतमातुः जयः’ इति उद्घोषेण सः स्वसम्बोधनं समाप्तवान्।

रक्षामन्त्री राजनाथसिंहः रविवासरे प्रातः शेरेथाङ्गम् आगतवान्। एतद्पूर्वं शनिवासरे सः बागडोगरायां सिलीगुड्यां च भारतीयसेनायाः सैनिकैः सह मिलितवान्।

Hindusthan Samachar / Divya Ranjan