Enter your Email Address to subscribe to our newsletters

जयपुरम्, नवम्बरमासस्य ०९ दिनाङ्कः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा दीपावलीपर्वणः अवसरे रविवासरे रात्रौ सपरिवारं जयपुरनगरस्य परकोटाक्षेत्रं प्राप्य सामान्यजनैः सह स्नेहपूर्णं मिलनं कृतवान्। मुख्यमन्त्रिणं स्वमध्ये प्राप्य बालकेषु, महिलासु, युवजनेषु वृद्धेषु च विशेषः उत्साहः प्रसन्नता च दृष्टा। मार्गे स्थाने स्थाने सामान्यजनैः हस्तौ संयोज्य मुख्यमन्त्रिणः स्वागतं कृतम्। मुख्यमन्त्री अपि स्नेहपूर्वकं बालकेभ्यः स्नेहं प्रदाय चाकलेहम् दत्तवान्, युवभिः सह हस्तमेलनं कृतवान् तथा सर्वेभ्यः दीपावल्याः शुभकामनाः प्रदत्तवान्।
अस्मिन् अवसरे मुख्यमन्त्री कस्यापि औपचारिकतायाः पालनं विना सामान्यजनैः सह स्थित्वा दीपावलीपर्वणः प्रसन्नतां सहभागीकृतवान्। सः सांगानेरीद्वारात् बडीचौपड्, त्रिपोलियामार्गेण न्यूद्वारपर्यन्तं सामान्यजनैः सह पद्भ्यां भ्रमणं कृत्वा विपण्याः सज्जां दृष्टवान्। अस्मिन् अवसरे जयपुरनगरनिगमस्य महापौरः सुनीलकोठारी, पार्षदः पुनीतकरनावटः अन्ये च जनप्रतिनिधयः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan