मध्यप्रदेशं द्विवर्षाभ्यन्तरे देशस्य दुग्धराजधानीं करिष्यामः इति मोहनयादवः।
भोपालनगरे उन्नतप्रजातीयगवां भ्रूणोत्पादनकेन्द्रं स्थापितं भविष्यति, अत्र प्रतिवर्षं एकलक्षं भ्रूणानाम् उत्पादनं करिष्यते। भोपालम्, ०९ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् प्रदेशे श्वेतक्रान्तिः २.० इत्यस्य माध्
समारोह को संबोधित करते मुख्यमंत्री डॉ. मोहन यादव


समारोह को संबोधित करते मुख्यमंत्री डॉ. मोहन यादव


अनुदान राशि का सिंगल क्लिक से अन्तरण करते मुख्यमंत्री डॉ. मोहन यादव


पशुपालकों को पुरस्कार वितरित करते मुख्यमंत्री डॉ. मोहन यादव


वर्धन पूजा करते मुख्यमंत्री डॉ. मोहन यादव


भोपालनगरे उन्नतप्रजातीयगवां भ्रूणोत्पादनकेन्द्रं स्थापितं भविष्यति, अत्र प्रतिवर्षं एकलक्षं भ्रूणानाम् उत्पादनं करिष्यते।

भोपालम्, ०९ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् प्रदेशे श्वेतक्रान्तिः २.० इत्यस्य माध्यमेन दुग्धोत्पादनसहकारिताव्यवस्था सुदृढा क्रियते। अस्माकं लक्ष्यं आगामीद्विवर्षाभ्यन्तरे मध्यप्रदेशं देशस्य दुग्धराजधानीं निर्मातुम् अस्ति। एतदर्थं दुग्धसङ्ग्रहणक्षमतां प्रतिदिनं १२ लक्षकिलोग्रामतः ५२ लक्षकिलोग्रामपर्यन्तं वर्धयितुं लक्ष्यं निर्धारितम् अस्ति। तेन उक्तं यत् गोसेवया सह पशुपालकानां आर्थिकसमृद्धिः अपि सर्वकारस्य प्राथमिकतासु अन्तर्भवति।

मुख्यमन्त्री डॉ. यादवः सोमवासरे राजधानी भोपालस्थे रवीन्द्रभवने आयोजिते राज्यस्तरीये गोपूजनपशुपालकसम्मानसमारोहे सम्बोधनं कुर्वन् आसीत्। तेन उक्तं यत् अस्माभिः सर्वैः प्रकृतेः प्रति कृतज्ञभावं धारयद्भिः तस्याः पूजनं संरक्षणं च कर्तव्यम्। गोवर्धनपूजा अस्माकम् आस्थायाः परम्परायाः प्रकृतेः प्रति कृतज्ञतायाः च अभिव्यक्तेः पर्व अस्ति। तेन उक्तं यत् सर्वकारः समाजात् पृथक् नास्ति। सामाजिकायोजनेषु सर्वकारस्य सहभागिता आवश्यकी अस्ति। अतः अधुना समाजस्य सर्वेषु प्रकारेषु आयोजनेषु सर्वकारः उत्साहपूर्वकं सहभागितां करिष्यति।

मुख्यमन्त्रिणा उक्तं यत् प्रदेशे गोसेवारुग्णवाहिकानां सङ्ख्या वर्धयिष्यते तथा आधुनिकानां स्वावलम्बिनीनां च गोशालानां विकासः क्रियते। मुख्यमन्त्री डॉ. यादवः सर्वान् प्रदेशवासिनः गोवंशसंरक्षणस्य, प्राकृतिकसंसाधनानां रक्षणस्य तथा ग्रामाणां समृद्धीकरणस्य सङ्कल्पं ग्रहीतुं आहूतवान्। तेन उक्तं यत् सर्वेषां सहकारितया सहभागितया च वयम् आत्मनिर्भरमध्यप्रदेशस्य निर्माणं करिष्यामः।

तेन उक्तं यत् दुग्धोत्पादनस्य वृद्ध्यर्थम् अस्माभिः उन्नतप्रजातीयानां पशूनां गोवंशस्य च पालनं करणीयम्। देशीगवां अतिरिक्तं गिर् तथा साहिवाल् प्रजातीयाभ्यां गोभ्यां अधिकं दुग्धोत्पादनं भवति। तेन सूचितं यत् केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः मध्यप्रदेशे गुजरातस्य आदर्शानुसारं दुग्धोत्पादनवर्धनाय भोपालनगरे उन्नतप्रजातीयानां गवां भ्रूणोत्पादनकेन्द्रस्य स्थापनायै अनुमतिं प्रदत्तवान् अस्ति। अस्मिन् केन्द्रे प्रतिवर्षम् एकलक्षं भ्रूणानाम् उत्पादनं भविष्यति। अनेन प्रदेशे उन्नतप्रजातीयानां गवां पालनस्य दुग्धोत्पादनस्य च वृद्धिः भविष्यति।

मुख्यमन्त्रिणा सूचितं यत् भोपालस्य बरखेडी डोब इत्यत्र दशसहस्रगोवंशस्य धारणक्षमतायुक्तायाः आधुनिकायाः गोशालायाः निर्माणकार्यमपि प्रचलति। तेन उक्तं यत् पशुपालनस्य बृहद्स्तरे प्रोत्साहनाय पशुपालकानां आर्थिकदृष्ट्या समर्थीकरणमपि आवश्यकम् अस्ति। डॉ. भीमराव अम्बेडकरकामधेनुयोजनायाः अन्तर्गतं पञ्चविंशतिदुग्धदायिनीगवां अथवा महिषीणाम् एककस्य स्थापनायै ४२ लक्षरूप्यकाणां यावत् ऋणसहायता तथा १३ लक्ष ८६ सहस्ररूप्यकाणां यावत् अनुदानं प्रदीयते। दुग्धक्षेत्रे पारदर्शितायाः कार्यकुशलतायाश्च वृद्ध्यर्थं सम्पूर्णं दुग्धमूल्यशृङ्खलाजालं शतप्रतिशतं अङ्कीयप्रौद्योगिक्या युक्तं क्रियते।

तेन दूरनियन्त्रणयन्त्रस्य बटन् इत्यस्य स्पर्शेन एकेनैव सङ्केतमाध्यमेन प्रदेशस्य त्रिसहस्राधिकासु पञ्जीकृतासु गोशालासु निवसतां पञ्चलक्षैकपञ्चाशत्सहस्राधिकानां गोवंशानां भरणपोषणाय ६५.६६ कोटिरूप्यकाणां अनुदानराशिः प्रेषिता। गोपालकृष्णग्रामपुरस्कारयोजनायाः अन्तर्गतं प्रदेशस्य ४६६ उत्कृष्टपशुपालकेभ्यः प्रथमद्वितीयतृतीयपुरस्काररूपेण क्रमशः एकलक्षं, पञ्चाशत्सहस्रं तथा पञ्चविंशतिसहस्ररूप्यकाणि पुरस्काररूपेण प्रदत्तानि। एतदर्थं समग्रतया २.९५ कोटिरूप्यकाणां राशिः तेषां बैंक् खातेषु प्रेषिता।

मुख्यमन्त्रिणा मञ्चात् प्रदेशस्य शीर्षदशपशुपालकाः दुग्धोत्पादकाश्च गौरव रघुवंशी, ज्ञानेश्वर पटेल, सुनील सिंह पंवार, कुशल सिंह दांगी, नर्मदा प्रसाद पटेल, विक्रम सिंह मीणा, रामबाबू, छतरसिंह धाकड़, राजेश पाटीदार, मुकेश वर्मा, मोहनलाल प्रसाद, हरगोविंद पटेल तथा संतोष कुमार इत्येते प्रशस्तिपत्रेण ५६ भोगस्य पात्रेण च सम्मानिताः। मुख्यमन्त्री डॉ. यादवः गोसेवकान् गोशालासञ्चालकांश्च प्रेमीचन्द्र जैन, सूरज परमार, ब्रिजेश व्यास तथा प्रहलाद दास मंगल इत्येतान् विगतेभ्यः अनेकवर्षेभ्यः गोसेवायां निरतान् इति कारणेन सम्मानितवान्। उल्लेखनीयम् अस्ति यत् उज्जयिनीमण्डलस्य तालोदग्रामस्य गौरव रघुवंशी इत्यस्य गिर् प्रजातीयया गवा प्रतिदिनं १९.७६० लीटरदुग्धोत्पादनेन प्रदेशे प्रथमस्थानं प्राप्तम् अस्ति। मुख्यमन्त्री पुरस्कारविजेतॄन् सर्वान् पशुपालकान् अभिनन्दितवान्।

मुख्यमन्त्रिणा सूचितं यत् प्राकृतिककृषेः क्षेत्रे मध्यप्रदेशः देशे प्रथमस्थाने अस्ति। मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् प्रदेशे अधुना बृहदाकाराणाम् अपि पशुमेलानाम् आयोजनं भविष्यति। एतेषु पशुमेलेषु कृषिपशुपालनविभागाभ्यां उन्नतानि आधुनिकानि कृषियन्त्राणि तथा उन्नतप्रजातीयाः गोवंशाः अपि प्रदर्शिताः भविष्यन्ति। अनेन कृषकाः दुग्धोत्पादनवर्धनाय उन्नतप्रजातीयानां पशूनां पालनस्य विषये सूचनां प्राप्स्यन्ति।

तेन उक्तं यत् नगरीयक्षेत्रेषु गीताभवनानि निर्मीयन्ते। प्रतिवर्षं गीताजयन्त्याः आयोजनमपि क्रियते। सहैव प्रदेशस्य त्रयोदशाधिकत्रिशतं विकासखण्डेषु वृन्दावनग्रामाः अपि विकसिताः क्रियन्ते, यत्र पशुपालकेभ्यः प्रोत्साहनं प्रदीयते। तेन उक्तं यत् ओरछायां श्रीरामराजासरकारलोकस्य अन्तर्गतं ४०० कोटिरूप्यकाणां निर्माणकार्याणि प्रचलन्ति, चित्रकूटे च २००० कोटिरूप्यकाणां कार्याणि सम्प्रति धरातले प्रचलन्ति।

कार्यक्रमे क्रीडायुवकल्याणसहकारितामन्त्री विश्वास कैलाश सारंगः, पिछडावर्ग-अल्पसंख्याककल्याणराज्यमन्त्री कृष्णा गौरः, विधायकाः रामेश्वर शर्मा, भगवानदास सबनानी, विष्णु खत्री तथा अन्ये जनप्रतिनिधयः बहुसङ्ख्याकाः पशुपालकाश्च उपस्थिताः आसन्। कार्यक्रमस्य प्रारम्भे मुख्यमन्त्री रवीन्द्रभवनपरिसरे निर्मितस्य श्रीगोवर्धनभगवतः पूजनम्, अर्चनम्, परिक्रमां तथा आरतिं च कृत्वा सर्वेभ्यः गोवर्धनपूजायाः शुभकामनाः प्रदत्तवान्। अत्र स्थापितानां प्रदर्शनीस्थानानाम् अपि अवलोकनं कृतवान्। अस्मिन्नवसरे समाजजनैः मुख्यमन्त्री डॉ. यादवः साफा इति शिरोवस्त्रेण उपहारप्रदानेन च स्वागतं सम्माननं च कृतम्।

मुख्यमन्त्रिनिवासे अपि अभवत् गोपूजनं गोवर्धनपूजनं च

मुख्यमन्त्री डॉ. यादवः मुख्यमन्त्रिनिवासस्थितायां गोशालायां विद्यमानानां गोवंशानां पूजनम् अकरोत्। तत्रैव निर्मितस्य श्रीगोवर्धनभगवतः विधिविधानपूर्वकं पूजनम् अर्चनं च कृत्वा श्रद्धाभावेन गिरिवरस्य परिक्रमाम् अकरोत् तथा सर्वेभ्यः गोवर्धनपूजायाः शुभकामनाः प्रदत्तवान्। अस्मिन्नवसरे गोशालायाः पुष्पैः आकर्षकरूपेण सज्जा कृता आसीत्।

Hindusthan Samachar / Dheeraj Maithani