गुरुग्रामनगरे दीपावल्याः रात्रौ प्रदूषणेन वायुः विषाक्तः, वायुगुणवत्ता-सूचकाङ्कः ९०० अतिक्रान्तः।
• रात्रौ अष्टवादनात् प्रदूषणस्य स्तरः वर्धितुम् आरब्धः। • सर्वोच्चन्यायालयस्य आदेशानां जनैः अवहेलना कृता, प्रचुरमात्रायां स्फोटकानि प्रज्वालितानि। गुरुग्रामम्, नवम्बरमास: ०९ दिनाङ्कः (हि.स.)। दीपावल्याः रात्रौ स्फोटकानां धूमेन गुरुग्रामनगरस्य वाय
गुरुग्राम में प्रदूषण का सूचकांक।


• रात्रौ अष्टवादनात् प्रदूषणस्य स्तरः वर्धितुम् आरब्धः।

• सर्वोच्चन्यायालयस्य आदेशानां जनैः अवहेलना कृता, प्रचुरमात्रायां स्फोटकानि प्रज्वालितानि।

गुरुग्रामम्, नवम्बरमास: ०९ दिनाङ्कः (हि.स.)। दीपावल्याः रात्रौ स्फोटकानां धूमेन गुरुग्रामनगरस्य वायुः अत्यन्तं दूषितः अभवत्। रात्रौ विलम्बपर्यन्तं सम्पूर्णं नगरं धूमस्य आवरणेन आच्छादितम् आसीत्। तेन रोगिणां, वृद्धानां, लघुबालकानां च श्वसनकाठिन्यम् अभवत्। यक्ष्मा-श्वासरोगेण पीडितानां जनानां सर्वाधिकं काठिन्यम् अभवत्। अनेकेषु आवासीयपरिसरेषु जनाः गवाक्षाणि पिधाय रात्रिम् अयापयन्। प्रातःकालपर्यन्तम् अपि नगरे प्रदूषणस्य स्तरः उच्चः एव आसीत्। पर्यावरणविशेषज्ञः डॉ. रामसिंहः कथयति यत् स्फोटकेभ्यः निर्गताः विषाक्तकणाः अनेकदिनानि यावत् वायुमण्डले स्थातुं शक्नुवन्ति।

गुरुग्रामनगरे जुलाईमासे २०२५ तमे वर्षे न्यूनतमः प्रदूषणस्तरः ८१ वायुगुणवत्ता-सूचकाङ्कः आसीत्, यः नवम्बरमासे २०२६ तमे वर्षे दीपावल्याः रात्रौ ९०० अतिक्रान्तवान्। दीपावल्याः रात्रौ पूजापाठं कृत्वा जनाः स्फोटकाणि प्रज्वालयितुम् आरब्धवन्तः। रात्रौ ०७:३० वादने वायुगुणवत्ता-सूचकाङ्कः २६१ आसीत्, यः अग्रिमासु अर्धहोरासु एव वर्धित्वा रात्रौ अष्टवादने ३०३ अभवत्। रात्रौ ०८:३१ वादने ३७४, ०९:०१ वादने ४६४, ०९:३१ वादने ६०८ तथा रात्रौ ११:०१ वादने प्रदूषणस्य स्तरः ९५५ वायुगुणवत्ता-सूचकाङ्कपर्यन्तं प्राप्तः, यः सर्वाधिकः आसीत्। अर्थात् अस्मिन् काले जनैः अत्यधिकमात्रायां स्फोटकानि विस्फोटितानि, येन प्रदूषणस्य स्तरः प्राणघातकः अभवत्। सोमवासरे प्रातः ०७:०१ वादने प्रदूषणस्य स्तरः न्यूनः भूत्वा ४०० वायुगुणवत्ता-सूचकाङ्कपर्यन्तं प्राप्तः।

सर्वोच्चन्यायालयेन दीपावल्यां स्फोटकप्रज्वलनार्थं समयः दिनानि च निर्धारितानि आसन्। नवम्बरमासस्य सप्तमे अष्टमे च दिनाङ्के प्रातः षड्वादनात् सप्तवादनपर्यन्तं तथा रात्रौ अष्टवादनात् दशवादनपर्यन्तं केवलं हरितस्फोटकानां प्रज्वलनाय समयः निर्धारितः आसीत्। जनाः कतिपयदिनानि पूर्वमेव भाण्डागारेभ्यः स्फोटकाणां क्रयणम् आरब्धवन्तः आसन्। अर्थात् हरितस्फोटकेभ्यः अधिकमात्रायां सामान्यस्फोटकानां विक्रयः पूर्वमेव जातः आसीत्। जनैः दीपावल्याः सम्पूर्णां रात्रिं स्फोटकानि प्रज्वालितानि। नवगुरुग्रामे पुरातने गुरुग्रामे च सर्वत्र जनैः सर्वोच्चन्यायालयस्य आदेशानाम् अवहेलनां कृत्वा प्रचुरमात्रायां स्फोटकानि प्रज्वालितानि। अतः दीपावल्याः अवसरे तदनन्तरं च गुरुग्रामनगरे प्रदूषणस्य स्तरः अत्यन्तं भयङ्करेण गम्भीरस्तरेण च प्राप्तः।

वायुमण्डले सूक्ष्मकणानां (पी.एम. २.५ तथा पी.एम. १०) मात्रा अत्यधिकरूपेण वर्धिता, येन जनानां श्वासग्रहणे काठिन्यं नेत्रयोः च दाहः इत्यादयः समस्याः उत्पन्नाः। पुरातनगुरुग्रामस्य आवासीयक्षेत्रेषु रात्रेः विलम्बपर्यन्तं स्फोटकाणां ध्वनयः प्रतिध्वनिताः। आकाशे विविधवर्णीयानां प्रकाशानां मध्ये धूमस्य विशालः समूहः प्रसृतः। मार्गेषु गृहेषु च परितः धूमस्य स्तरः आच्छादितः आसीत्। रात्रौ वातावरणे प्रदूषणस्य प्रभावः स्पष्टतया अनुभूतः। एकतः प्रशासनपक्षतः प्रदूषणनियन्त्रणार्थं विविधाः उपायाः जागरूकताभियानानि च सञ्चालितानि आसन्। अपरतः दीपावल्याः रात्रौ कृतं विस्फोटकम् एतेषां प्रयासानां विषये प्रश्नान् उत्पन्नवती। जनैः सर्वोच्चन्यायालयस्य आदेशाः अप्युपेक्षिताः।

Hindusthan Samachar / Divya Ranjan