Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 09 नवंबरमासः (हि.स.)। भारत-लेबनानयोः मध्ये सोमवासरे अत्र प्रथमवारं विदेशकार्यालयीयवार्ता अभवत्। अस्यां वार्तायां उभाभ्यां देशाभ्यां द्विपक्षीयसम्बन्धानां समीक्षा कृता तथा च राजनैतिक-सुरक्षासम्बद्धेषु, आर्थिकेषु, सामाजिक-सांस्कृतिकक्षेत्रेषु च सहकारितां वर्धयितुं चर्चा कृता। उभयपक्षौ व्यापारः, निवेशः, अङ्कीयलोकसंरचना तथा औषधिक्षेत्रे सहकारितायाः प्राथमिकतां निर्धारयितुं सहमतौ अभवताम्।
विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः सामाजिकसञ्चारमाध्यमस्य एक्स इत्यस्य सन्देशे सूचितवान् यत् अस्याः वार्तायाः सहाध्यक्षतां विदेशमन्त्रालयस्य सचिवा (सीपीवी तथा ओआईए) राजदूतश्रीप्रिया रंगनाथन् तथा लेबनानस्य विदेशप्रवासीमन्त्रालयस्य महासचिवः राजदूतः अब्देल सत्तार इस्सा च कृतवन्तौ।
वार्तायाः समये उभाभ्यां देशाभ्यां परस्परहितसम्बद्धेषु क्षेत्रीयेषु अन्ताराष्ट्रियेषु च विषयेषु विचारविनिमयः अपि कृतः। उपवेशने उभयपक्षैः भारत-लेबनानयोः मध्ये राजनैतिकसुरक्षासहयोगस्य, आर्थिकसम्बन्धानां तथा सामाजिकसांस्कृतिकादानप्रदानस्य सर्वेषाम् आयामानां समीक्षा कृता। एतदतिरिक्तं परस्परहितसम्बद्धेषु क्षेत्रीयेषु अन्ताराष्ट्रियेषु च विषयेषु अपि चर्चा कृता।
---------------
Hindusthan Samachar / Dheeraj Maithani