आईएनएस चिल्कातः नवम्बरमासस्य त्रयोदशदिनाङ्के प्रशिक्षणं समाप्य ३३०० अग्निवीराः भारतीयनौसेनायां समाविष्टाः भविष्यन्ति।
भारतीयनौसेनायै षोडशसप्ताहात्मकं कठिनं प्रशिक्षणं समापयन् एषः अद्यावधिः सर्वबृहत्तमः प्रशिक्षुगणः। नवदिल्ली, ०९ नवम्बरमासः (हि.स.)। भारतीयनौसेनायै प्रशिक्षितानाम् अग्निवीराणां अद्यावधिः सर्वबृहत्तमः बैचः नवम्बरमासस्य त्रयोदशदिनाङ्के प्रशिक्षणं समाप
नौसेना के लिए तैयार 3300 अग्निवीर 


भारतीयनौसेनायै षोडशसप्ताहात्मकं कठिनं प्रशिक्षणं समापयन् एषः अद्यावधिः सर्वबृहत्तमः प्रशिक्षुगणः।

नवदिल्ली, ०९ नवम्बरमासः (हि.स.)। भारतीयनौसेनायै प्रशिक्षितानाम् अग्निवीराणां अद्यावधिः सर्वबृहत्तमः बैचः नवम्बरमासस्य त्रयोदशदिनाङ्के प्रशिक्षणं समापयिष्यति। आईएनएस चिल्कातः प्रशिक्षणं समापयन्तः अस्मिन् प्रायः ३३०० अग्निवीराः सन्ति, ये षोडशसप्ताहात्मकं कठिनं प्रशिक्षणं समाप्य भारतीयनौसेनायाः भागाः भविष्यन्ति।

भारतीयनौसेना तथा भारतीयतटरक्षकबलं नाविकानां नवमबैचस्य दीक्षान्तपरेडस्य आयोजनं करिष्यतः। आईएनएस चिल्कातः निर्गच्छन् एषः अद्यावधिः सर्वबृहत्तमः बैचः भविष्यति। सुदृढां युवां युद्धसज्जां च समुद्रीसेनां निर्मातुं भारतस्य यात्रायाम् एषा महत्त्वपूर्णा उपलब्धिः अस्ति।

भारतीयनौसेनायाः सर्वबृहत्तमे प्रशिक्षणकेन्द्रे आईएनएस चिल्कायां आयोज्यमानायां प्रशिक्षणसमापनपरेडायां नौसेनाप्रमुखः एडमिरलः कृष्णा स्वामीनाथनः मुख्यातिथिः भविष्यति तथा च सः परेडस्य निरीक्षणमपि करिष्यति। एषा परेड ३३०० अधिकानां प्रशिक्षुणां षोडशसप्ताहात्मकस्य प्रशिक्षणस्य सफलसमाप्तेः प्रतीकं भविष्यति। अनेन आईएनएस चिल्कातः प्रशिक्षणं समापयतां प्रशिक्षुणां सर्वबृहत्तमः बैचः निर्मितः भविष्यति। एतत् प्रशिक्षणं युवा अभ्यर्थिनः अनुशासितान्, शारीरिकदृष्ट्या दक्षान्, मानसिकदृष्ट्या दृढान् तथा व्यावसायिकदृष्ट्या योग्यांश्च समुद्रीयोद्धॄन् निर्मातुं विनिर्मितम् अस्ति।

प्रशिक्षणकाले शैक्षणिकाध्ययनम्, शारीरिकक्षमतावर्धनम्, जलतरणम्, परेडप्रशिक्षणम्, बहिरङ्गक्रियाकलापाः तथा प्रशिक्षणशिविराणि च समाविष्टानि सन्ति। एतानि प्रशिक्षुणां व्यावसायिकजीवनस्य कृते सुदृढं आधारं निर्मान्ति। चरित्रनिर्माणम्, नेतृत्वम्, अनुशासनम्, भ्रातृत्वभावना तथा सामूहिककार्यकौशलम् इत्येतेषु समानरूपेण विशेषः बलः दीयते। एतदतिरिक्तं कर्तव्यनिष्ठा, गौरवम् तथा साहसम् इत्यादयः नौसेनायाः विशिष्टाः आदर्शाः अपि शिक्ष्यन्ते। प्रशिक्षणसमापनपरेड प्रशिक्षुणां कृते गौरवस्य उपलब्धेश्च क्षणः भविष्यति, यतः तेषां परिवारीयजनाः प्रशिक्षणयात्रायाः समाप्तेः तथा नवीनव्यावसायिकजीवनस्य प्रारम्भस्य च साक्षिणः भविष्यन्ति। अस्मिन् अवसरे नौसेनायाः पूर्वसैनिकाः विशिष्टातिथयश्च अपि उपस्थिताः भविष्यन्ति।

कार्यक्रमस्य अध्यक्षतां दक्षिणनौसेनाकमानस्य कमाण्डर-इन-चीफः फ्लैग ऑफिसरः वाइस एडमिरलः समीर सक्सेना करिष्यति। उत्कृष्टप्रदर्शनाय प्रशिक्षणक्षेत्रे योगदानाय च मेधाविप्रशिक्षुभ्यः, विजेतृविभागाय तथा सर्वश्रेष्ठप्रशिक्षकाय पुरस्काराः प्रदास्यन्ते। कार्यक्रमे प्रशिक्षुणां द्विभाषिकपत्रिकायाः अंकुर इत्यस्याः अपि विमोचनं भविष्यति। प्रशिक्षणसमापनपदप्रयाणस्य नौसेनायाः आधिकारिकेषु सामाजिकमाध्यममञ्चेषु सजीवं प्रसारणं भविष्यति, येन देशस्य विभिन्नभागेषु स्थिताः जनाः अपि अस्य गौरवपूर्णस्य अवसरस्य साक्षिणः भवितुं शक्नुवन्ति।

-----------

Hindusthan Samachar / Dheeraj Maithani