मध्यप्रदेशः मुख्यमन्त्री डॉ. यादवः अद्य गोवर्धनपूजापर्वणि उत्कृष्टपशुपालकान् सम्मानयिष्यति
प्रदेशस्य सर्वेषु जनपदमुख्यालयेषु कार्यक्रमाः भविष्यन्ति, गोपाल-कृष्णग्रामपुरस्कारयोजनायाः विजेतारः सम्मानिताः भविष्यन्ति। भोपालम्, नवम्बरमासस्य ०९ दिनाङ्कः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य सोमवासरे गोवर्धनपूजापर्वणः अवसरे आय
सीएम मोहन यादव (फाइल फोटो)


प्रदेशस्य सर्वेषु जनपदमुख्यालयेषु कार्यक्रमाः भविष्यन्ति, गोपाल-कृष्णग्रामपुरस्कारयोजनायाः विजेतारः सम्मानिताः भविष्यन्ति।

भोपालम्, नवम्बरमासस्य ०९ दिनाङ्कः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य सोमवासरे गोवर्धनपूजापर्वणः अवसरे आयोज्यमाने पशुपालकसम्मानसमारोहे गोपाल-कृष्णग्रामपुरस्कारयोजनायाः विजेतॄन् पशुपालकान् सम्मानयिष्यति।

जनसम्पर्काधिकारी सुनीलवर्मा अवदत् यत् चयनितेषु २०८ वृन्दावनग्रामेषु २७ तः ३१ अक्टोबर, २०२६ पर्यन्तं दुग्धोत्पादनप्रतियोगितायाः आयोजनं कृतम् आसीत्।

भोपालनगरे नवम्बरमासस्य ०९ दिनाङ्के आयोज्यमाने राज्यस्तरीयकार्यक्रमे प्रतीकरूपेण १० पशुपालकाः पुरस्कृताः भविष्यन्ति। प्रदेशस्य सर्वेषु जनपदमुख्यालयेषु अपि गोपूजनस्य पशुपालकसम्मानस्य च कार्यक्रमाः भविष्यन्ति।

मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतं वैश्विकपटलस्य उपरि स्वकीयं नवीनं परिचयं स्थापयति। कृषकाणां पशुपालकानां च आयवर्धनार्थं प्रदेशे दुग्धोत्पादनं प्रोत्साह्यते। ग्रामपञ्चायतेषु दुग्धसङ्ग्रहणार्थं दुग्धसहकारीसमितयः निर्मीयन्ते, येन कृषकाः धान्योत्पादनेन सह पशुपालनात् दुग्धोत्पादनात् च स्वकीयाम् आयं वर्धयितुं शक्नुयुः। मध्यप्रदेशः दुग्धोत्पादने देशे तृतीयस्थाने अस्ति। अस्माकं लक्ष्यम् अग्रिमेषु द्विवर्षेषु प्रदेशं दुग्धोत्पादने देशस्य प्रथमस्थानप्राप्तं राज्यम् कर्तुम् अस्ति।

अस्य कृते राज्यसर्वकारः सुव्यवस्थितपशुपालननीतिनां गोसंवर्धननीतिनां च माध्यमेन निरन्तरं प्रयत्नं करोति।

जनसम्पर्काधिकारिणः अनुसारं प्रतियोगितायां सर्वाधिकं दुग्धोत्पादनं कुर्वतीनां गवां पालकानां प्रथमपुरस्काररूपेण एकलक्षं, द्वितीयपुरस्काररूपेण पञ्चाशत्सहस्रं, तृतीयपुरस्काररूपेण पञ्चविंशतिसहस्रं रूप्यकाणि प्रमाणपत्रं च प्रदास्यन्ते। सर्वेषां विजेतॄणां धनागारेषु पुरस्कारराशिः एकमुश्तरूपेण प्रत्यक्षलाभान्तरणमाध्यमेन प्रेषयिष्यते।

गिर-प्रजात्याः ‘राधा’ नाम्नी गौः प्रथमस्थानं प्राप्तवती

देशीयप्रजात्याः गवां पालनं पशुधनपरम्परायाः संस्कृतेश्च अभिन्नम् अङ्गम् अस्ति। ग्रामीणपरिवाराणाम् आर्थिकसमृद्धेः अपि एतत् सशक्तं माध्यमम् अस्ति। समुचितपरिचर्यया, सन्तुलिताहारेण उन्नतपशुपालनप्रबन्धनेन च देशीयप्रजात्याः गावः अपि उल्लेखनीयं दुग्धोत्पादनं कर्तुं शक्नुवन्ति। अस्य उदाहरणम् उज्जैनजनपदस्य तालोदग्रामस्य पशुपालकः गौरवः रघुवंशी प्रस्तुतवान्।

मुख्यमन्त्रिणा डॉ. यादवेन तालोदग्रामः वृन्दावनग्रामत्वेन घोषितः इति अनन्तरम् अत्र देशीयगोवंशस्य संरक्षणं संवर्धनं च प्रोत्साहनं प्राप्तम्। अनेन प्रेरितः श्रीरघुवंशी गिरप्रजात्याः गवां पालनम् आरब्धवान्। समुचितपरिचर्यायाः सन्तुलितपोषणस्य च परिणामस्वरूपं तस्य ‘राधा’ नाम्नी गौः प्रतिदिनं १९.७६० लीटर दुग्धोत्पादनं कृत्वा प्रदेशस्तरीयप्रतियोगितायां प्रथमस्थानं प्राप्तवती।

प्रदेशे सर्वाधिकं दुग्धोत्पादनं कुर्वत्यः पञ्च गावः

प्रतियोगितायाम् उज्जैनजनपदस्य तालोदग्रामस्य श्रीगौरवरघुवंशिनः गिर-प्रजात्याः गौः प्रतिदिनं १९.७६० लीटर दुग्धोत्पादनेन प्रथमस्थाने स्थिता। अन्याः प्रमुखाः उपलब्धयः एवं सन्ति—

• द्वितीयस्थानम् : रतलामजनपदस्य सुखेडाग्रामस्य श्रीमुकेशकुमारपरमारस्य गौः — प्रतिदिनं १७.२३० लीटर्।

• तृतीयस्थानम् : उमरियाजनपदस्य डोडकाग्रामस्य श्रीमतीसन्ध्यापाण्डेयायाः गिर-प्रजात्याः गौः — प्रतिदिनं १७.१६६ लीटर्।

• चतुर्थस्थानम् : रायसेनजनपदस्य मांगरोल-२ ग्रामस्य श्रीज्ञानेश्वरपटेलस्य गिरप्रजात्याः गौः — प्रतिदिनं १६.३५० लीटर।

• पञ्चमस्थानम् : राजगढजनपदस्य सलेहपुरग्रामस्य श्रीसुमेरसिंहपंवारस्य गौः — प्रतिदिनं १६.१४४ लीटर।

Hindusthan Samachar / Divya Ranjan