नलजलयोजनायाः जलस्तम्भसंयन्त्रनिर्माणे अनियमिततायाः आरोपः, जनपदाधिकारिणः उच्चस्तरीय-निरीक्षणस्य आग्रहः
सुपौलम्, ०९ नवम्बरमासः (हि.स.)। जनपदस्य सदरप्रखण्डान्तर्गतेषु विभिन्न-पञ्चायतेषु लोकस्वास्थ्याभियन्त्रण-विभागस्य माध्यमेन क्रियमाणेषु नलजलयोजनायाः जलस्तम्भसंयन्त्र-निर्माणकार्येषु कथिता अनियमितता तथा तकनीकीमानकानाम् उपेक्षायाः प्रकरणं प्रकाशम् आगत
Br


सुपौलम्, ०९ नवम्बरमासः (हि.स.)।

जनपदस्य सदरप्रखण्डान्तर्गतेषु विभिन्न-पञ्चायतेषु लोकस्वास्थ्याभियन्त्रण-विभागस्य माध्यमेन क्रियमाणेषु नलजलयोजनायाः जलस्तम्भसंयन्त्र-निर्माणकार्येषु कथिता अनियमितता तथा तकनीकीमानकानाम् उपेक्षायाः प्रकरणं प्रकाशम् आगतम्।

युवककाङ्ग्रेसस्य प्रदेशसचिवः लक्ष्मणझा निर्माणकार्याणां गुणवत्तायां प्रश्नान् उत्थाप्य जनपदाधिकारिणे सावनकुमाराय आवेदनपत्रं समर्पितवान्। तेन सम्पूर्ण-प्रकरणस्य निष्पक्षतया उच्चस्तरीय-तकनीकीनिरीक्षणं कारयितुम् आग्रहः कृतः।

आवेदनपत्रे आरोपितम् अस्ति यत् जलस्तम्भसंयन्त्रस्य निर्माणकाले निर्धारितप्राक्कलनस्य तकनीकीमान-कानां च समुचितं पालनं न क्रियते। परिवादानुसारं जलस्तम्भसंयन्त्रस्य आधारे अधः निर्धारितायाः त्रिइञ्चमितायाः पीसीसी-ढलाई, तदुपरि प्रस्तावितायाः एकपाद-मितायाः ढलाई तथा षड्इञ्चमितस्य आधारस्तम्भस्य निर्माणे निर्धारितमापस्य गुणवत्तायाश्च उपेक्षा क्रियमाणेति आशङ्का व्यक्ता अस्ति।

एतदतिरिक्तं भूमेः अधः नलिकां स्थापयितुं निर्धारितस्य ३९ इञ्चमितस्य गभीरतामानकस्य अपि अनेकस्थानेषु पालनं न क्रियमाणमिति शिकायत् कृता अस्ति। आवेदनपत्रे उक्तं यत् निर्माणकार्येषु एवं प्रकारेण प्रमादः क्रियते चेत् भविष्ये जलस्तम्भसंयन्त्रस्य दृढता सुरक्षा च प्रभाविता भवितुम् अर्हति। अपि च सर्वकारीयधनस्य दुरुपयोगस्य आशङ्का अपि भविष्यति।

प्रकरणं गम्भीरं मन्यमानः जनपदाधि-कारिणः सदरप्रखण्डे निर्माणा-धीनानां सर्वासां नलजलयोजनानां स्थलीय-निरीक्षणं कारयितुम् आग्रहः कृतः। ढलाईकार्यस्य आधारस्तम्भस्य च वास्तविकमापस्य स्वीकृतप्राक्कलनेन सह तुलनां कर्तुम्, नलिकानां निर्धारितगभीरतायाः स्थले मापनं कारयितुं च निवेदनं कृतम्। एतदतिरिक्तं स्वतन्त्र-तकनीकीविशेषज्ञानां दलं निर्माय निर्माणे प्रयुक्तसामग्रीणां कार्यगुणवत्तायाश्च परीक्षणं कारयितुम् आग्रहः कृतः।

आवेदनपत्रे इदमपि उक्तं यत् निरीक्षणे अनियमितता प्रमाणिता भवति चेत् सम्बन्धितसंविदाकारान्, ठेकेदारान्, दोषिणः विभागीयाधिकारिणश्च विरुद्धं नैयायिकी तथा विभागीयकार्यवाही क्रियेत। निरीक्षणसमाप्तिपर्यन्तं सम्ब-न्धितनिर्माणकार्याणां प्रदानं नियमानुसारं स्थगयितुं विचारः करणीयः इति अपि आग्रहः कृतः।

Hindusthan Samachar / Divya Ranjan