वैश्विक–पर्यटन–मानचित्रे उत्तरप्रदेशाय नूतनं परिचयं लप्स्यते — जयवीरसिंहः
लखनऊनगरम्, ०१ फेब्रुवरीमासः (हि.स.)। उत्तरप्रदेशस्य पर्यटन–संस्कृति–मन्त्री जयवीर–सिंहः केन्द्रीय–व्ययविवरणम् २०२६ विषये स्वां प्रतिक्रियां व्यक्तवान्। सः अवदत् यत् एतत् व्ययविवरणं देशस्य भविष्याय सुदृढां दिशं प्रददाति। अस्य दूरदर्शिनः व्ययविवरणस्य
जयवीर सिंह


लखनऊनगरम्, ०१ फेब्रुवरीमासः (हि.स.)। उत्तरप्रदेशस्य पर्यटन–संस्कृति–मन्त्री जयवीर–सिंहः केन्द्रीय–व्ययविवरणम् २०२६ विषये स्वां प्रतिक्रियां व्यक्तवान्। सः अवदत् यत् एतत् व्ययविवरणं देशस्य भविष्याय सुदृढां दिशं प्रददाति। अस्य दूरदर्शिनः व्ययविवरणस्य माध्यमेन आर्थिक–समृद्धेः दृढा आधारशिला स्थापिताऽस्ति। पर्यटन–संस्कृति–क्षेत्रयोः कृते एतत् व्ययविवरणम् उत्तरप्रदेशाय विशेषतया लाभप्रदम् अस्ति। सारनाथं हस्तिनापुरं च ‘अनुभवात्मक–सांस्कृतिक–पर्यटन–गन्तव्य’ (एक्सपीरिएंशियल–कल्चरल–डेस्टिनेशन) रूपेण विकसितुं योजना प्रदेशस्य वैश्विक–पर्यटन–मानचित्रे नूतनं परिचयं प्रदास्यति।

जयवीर–सिंहः अवदत् यत् व्ययविवरणे काशीनगराय विशेषं महत्त्वं दत्तम् अस्ति। दिल्ली–वाराणसी तथा वाराणसी–सिलीगुड़ी इति द्वौ उच्च–वेग–रेल–मार्गौ प्रदेशे पर्यटनस्य, निवेशस्य तथा रोजगारस्य नूतनान् अवसरान् सर्जिष्यतः। ‘सेमीकण्डक्टर–२.०’ योजना तथा नोएडा–सेमीकण्डक्टर–उद्यानात् उत्तरप्रदेशः औद्योगिक–विकासस्य नूतनाः उच्चताः स्पर्क्ष्यति। ‘महात्मा–गान्धी–हस्तकरघा–योजना’ तथा ‘एकः जनपदः, एकं उत्पादम्’ इति योजनाभ्यां श्रमिकेभ्य: तथा स्थानीय–अर्थव्यवस्थायै अपि नूतना दृढता लप्स्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता