Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०१ फेब्रुवरीमासः (हि.स.)। प्रदेशस्य व्यावसायिक–शिक्षा, कौशल–विकास: तथा उद्यमशीलता–राज्यमन्त्री (स्वतन्त्र–प्रभार) कपिल–देव–अग्रवालः नवमं व्ययविवरणं ‘विकसित–भारत’ इति सङ्कल्पस्य साकारकं भविष्यतीति अवदत्। मन्त्री स्वीय–वक्तव्ये अवोचत् यत् एतत् व्ययविवरणं भारतदेशं विश्वस्य तृतीयं विशालतमम् अर्थतन्त्रं कर्तुं, निर्यात–क्षेत्रे अग्रणीं स्थापयितुं, तथा यूनां, कृषकाणां, श्रमिकाणाम् उद्यमिनां च आत्मनिर्भरता–सिद्धये सुदृढां रूपरेखां प्रस्तुतं करोति।
व्ययविवरणे यूनां रोजगाराय, कृषकाणां सम्मानाय, विशेषतः एम–एस–एम–ई–क्षेत्रस्य सुदृढीकरणाय च दश–सहस्र–कोटि–रूप्यकाणां प्रावधानं कृतम् अस्ति। पञ्च–लक्ष–जनसंख्यापर्यन्तं नगरेषु विकासस्य मुख्य–प्रवाहे संयोजनस्य घोषणया उत्तरप्रदेशस्य अनेकानि नगराणि, मुजफ्फरनगरं च लाभान्वितं भविष्यति।कपिल–देव–अग्रवालः अवदत् यत् एतत् व्ययविवरणं “युवा–शक्ति–संचालित–व्ययविवरणम्” इति रूपेण उद्भूतम् अस्ति, यत् ‘विकसित–भारत–युवा–नेतृ–संवाद–२०२६’ तः प्राप्तैः विचारैः प्रेरितम् अस्ति। शिक्षातः रोजगारं, रोजगारात् उद्यमं च यावत् यात्रायाः सुदृढीकरणाय एकस्य उच्च–शक्ति–स्थायी–समितेः गठनस्य प्रस्तावः अपि कृतः अस्ति।
स्वास्थ्ये, पशुपालने, रूपकल्पनायाम् (डिज़ाइन), शिक्षायां, पर्यटनक्षेत्रे, क्रीडाक्षेत्रे च व्यावसायिक–मानव–संसाधन–निर्माणाय विशेषं बलं दत्तम् अस्ति। कृषकाणाम् आय–वृद्ध्यै तथा ग्रामीण–अर्थव्यवस्थायाः सशक्तीकरणाय पशुपालनम्, उच्च–मूल्य–कृषिः, ‘भारत–विस्तार’ इत्यादयः ए–आइ–आधारिताः प्रयत्ना:, तथा महिला–नेतृत्व–युक्त–उद्यमानां प्रोत्साहनाय ‘शे–मार्ट्स्’ (SHE–Marts) स्थापना च प्रस्ताविता अस्ति।सः अन्ते अवदत् यत् एतत् व्ययविवरणं भारतस्य प्रगते:, समृद्धे: आत्मनिर्भरतायाश्च नूतनां कथां लिखिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता