Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०१ फेब्रुवरीमासः (हि.स.)। भारतीय–जनता–पक्षस्य प्रदेशाध्यक्षः तथा केन्द्रीय–वित्त–राज्यमन्त्री पंकज–चौधरी केन्द्रीयं व्ययविवरणं २०२६ समावेशी–विकासस्य, आर्थिक–सुदृढतायाः तथा आत्मनिर्भर–भारतस्य सङ्कल्पस्य दृढीकरणं करिष्यतीति अवदत्।
प्रदेश–भाजपा–अध्यक्षः स्वस्य सामाजिक–माध्यम–लेखागारे ‘एक्स’ इत्यस्मिन् अलिखत् यत्— एतत् व्ययविवरणं समावेशी–विकासं, आर्थिक–सुदृढतां तथा आत्मनिर्भर–भारतस्य सङ्कल्पं दृढं करिष्यति; समाजस्य सर्वेषां वर्गाणां कल्याणेन सह देशं विकासस्य नूतनं दिशं गतिं च प्रदास्यति। पंकज–चौधरी व्ययविवरणम्–२०२६–प्रस्तुत्याः पूर्वं वित्त–निगम–कार्य–मन्त्रिण्या निर्मला–सीतारमणया राष्ट्रपतिना द्रौपदी–मुर्मुना सह मिलितवति तस्याः छायाचित्रमपि सहभागं कृतवान्।
पंकज–चौधरी अलिखत् यत् आयुष–क्षेत्रस्य सुदृढीकरणाय त्रीणि नूतनानि अखिल–भारतीय–आयुर्वेद–संस्थानानि स्थाप्यन्ते। आयुर्वेद–उत्पादानां वर्धमानां याचनां पूरयितुं बहवः उपायाः स्वीकरिष्यन्ते। अस्मिन् व्ययविवरणे भारतदेशेन वैश्विक–जैव–फार्मा–निर्माण–केन्द्ररूपेण विकसितुं दिशि ऐतिहासिक: प्रयत्न: कृत:। अग्रिम–पञ्चवर्षेषु दश–सहस्र–कोटि–रूप्यकाणां परिव्ययेन ‘बायो–फार्मा–शक्ति–परियोजना’ प्रस्ताविता अस्ति, येन जैविक–जैव–सदृश–औषधानां देशीय–उत्पादनार्थं सुदृढस्य पारिस्थितिकी–तन्त्रस्य निर्माणं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता