ऐषमः आर्थिकसर्वेक्षणे हिमाचलस्य पर्यटनाय, अधोसंरचनायै आपदारक्षणाय च लब्धा दिङ् : जयराम ठाकुरः
शिमला, 01 फ़रवरीमासः (हि.स.)। पूर्वमुख्यमन्त्री तथा नेता प्रतिपक्षः जयराम ठाकुरः केन्द्रीयबजटम् 2026–27 हिमाचलप्रदेशस्य दृष्ट्या महत्त्वपूर्णं इति निरूप्य अवदत् यत् अयं बजटः राज्यस्य पर्यटनम्, अधोसंरचनाविकासम् आपदाप्रबन्धनं च प्रति नूतनाः सम्भावन
जयराम ठाकुर


शिमला, 01 फ़रवरीमासः (हि.स.)।

पूर्वमुख्यमन्त्री तथा नेता प्रतिपक्षः जयराम ठाकुरः केन्द्रीयबजटम् 2026–27 हिमाचलप्रदेशस्य दृष्ट्या महत्त्वपूर्णं इति निरूप्य अवदत् यत् अयं बजटः राज्यस्य पर्यटनम्, अधोसंरचनाविकासम् आपदाप्रबन्धनं च प्रति नूतनाः सम्भावनाः आनयति। सः अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नेतृत्वे प्रस्तुतः अयं बजटः विकसितभारतस्य लक्ष्यस्य सह हिमाचलसदृशानां पर्वतीयराज्यानां आवश्यकतानाम् अपि सम्यक् विचारं करोति।

शिमलास्थिते दलकार्यालये वरिष्ठनेतृभिः कार्यकर्तृभिः सह बजटस्य प्रत्यक्षप्रसारणं श्रुत्वा जयराम ठाकुरः अवदत् यत् बजटे ईको-पर्यटनस्य प्रोत्साहनार्थं कृताः प्रावधानाः हिमाचलप्रदेशाय विशेषमहत्त्वपूर्णाः सन्ति। ‘माउन्टेन ट्रेल’ इति परियोजनाः तथा ईको-पर्यटनसम्बद्धाः उपक्रमाः राज्यस्य प्राकृतिकसंसाधनानां संरक्षणेन सह पर्यटनाय नूतनां दिशां प्रदास्यन्ति। अनेन नूतनपर्यटनस्थलानां विकासः भविष्यति तथा स्थानीययुवानां कृते रोजगारावसराः वर्धिष्यन्ति।

सः अवदत् यत् बजटे अधोसंरचनाविकासे प्रदत्तं विशेषबलं हिमाचलप्रदेशस्य सम्पर्कव्यवस्थां सुदृढां करिष्यति। मार्ग, रेलमार्ग तथा अन्येषां मूलभूतसंरचनापरियोजनानां निवेशवृद्ध्या दूरवर्तिनां सीमावर्तीक्षेत्राणां च पर्यन्तं विकासः प्राप्स्यति। ‘वाइब्रेन्ट विलेज प्रोग्राम’ अन्तर्गतं सीमावर्तीप्रदेशानां कृते कृतैः प्रावधानैः हिमाचलस्य ग्रामीणदुर्गमक्षेत्रेषु सुविधाः वर्धिष्यन्ति तथा पर्यटनगतिविधयः वेगं प्राप्स्यन्ति।

जयराम ठाकुरः अवदत् यत् गतवर्षे हिमाचलप्रदेशे जाताभिः प्राकृतिकआपदाभिः राज्यं महत् क्षतिं प्राप्तम्। एतादृशे सन्दर्भे बहुपक्षीयविकासबैंकानां सहाय्येन आपदाराहत्यै पुनर्निर्माणाय च वित्तीयसहयोगस्य सङ्केतः राज्याय आश्वासप्रदः अस्ति। अनेन आपदाप्रभावितक्षेत्राणां पुनर्निर्माणे तथा भविष्ये सुरक्षितविकासे साहाय्यं भविष्यति।

सः अपि अवदत् यत् बजटे एमएसएमई क्षेत्रस्य कृषेः बागवानीस्य च सुदृढीकरणार्थं कृतैः प्रावधानैः हिमाचलप्रदेशस्य ग्रामीणअर्थव्यवस्थायै नूतना ऊर्जा प्राप्स्यति। डिजिटल-कृषिढाञ्चस्य तथा प्राकृतिककृषेः प्रोत्साहनेन कृषकाणां बागवानां च आयः वर्धिष्यते। एवमेव सौरऊर्जासम्बद्धयोजनाभिः पर्वतीयक्षेत्रेषु जनानां विद्युत्व्यये राहतिः ऊर्जाआत्मनिर्भरता च सिध्येताम्।

नेता प्रतिपक्षः अवदत् यत् अयं बजटः हिमाचलप्रदेशं पर्यटनस्य वैश्विकमानचित्रे सुदृढां पहिचानं दातुं तथा राज्यस्य अर्थव्यवस्थां सशक्तीकर्तुं सहायकः सिद्धः भविष्यति। विकसितभारतस्य लक्ष्येन सह अयं बजटः हिमाचलप्रदेशस्य विकासाय अपि नूतनं मार्गम् उद्घाटयति।

---------------

हिन्दुस्थान समाचार