केंद्रीयम् आर्थिकसर्वेक्षणं सर्वसमावेशी, विकासोन्मुखं जीविकाभिमुखं च : आदित्य साहू
रांची, 01 फ़रवरीमासः (हि.स.)। झारखण्डप्रदेशस्य राजधानी रांची-नगरे स्थिते भारतीयजनतापक्षस्य प्रदेशकार्यालये रविवासरे आर्थिकप्रकोष्ठस्य तत्वावधाने बजटपरिचर्चा कार्यक्रमः आयोजितः अभवत्। अस्मिन् अवसरॆ नेता प्रतिपक्षस्य बाबूलाल मराण्डी इत्यस्य उपस्थितौ
भाजपा के प्रदेश अध्यक्ष, नेता प्रतिपक्ष और अन्य


कार्यक्रम में शामिल भाजपा नेता


रांची, 01 फ़रवरीमासः (हि.स.)। झारखण्डप्रदेशस्य राजधानी रांची-नगरे स्थिते भारतीयजनतापक्षस्य प्रदेशकार्यालये रविवासरे आर्थिकप्रकोष्ठस्य तत्वावधाने बजटपरिचर्चा कार्यक्रमः आयोजितः अभवत्। अस्मिन् अवसरॆ नेता प्रतिपक्षस्य बाबूलाल मराण्डी इत्यस्य उपस्थितौ केन्द्रीयवित्तमन्त्रिण्या निर्मला सीतारमणया निरन्तरं नवमीवारं प्रस्तुतस्य केन्द्रीयार्थिकसर्वेक्षणभाषणस्य श्रवणं कृतम्।

अस्मिन् प्रसङ्गे भारतीयजनतापक्षस्य प्रदेशाध्यक्षः सांसदश्च आदित्य साहू बजटविषये प्रतिक्रियां व्यक्त्वा अवदत् यत् एषः बजटः सर्वसमावेशी विकासोन्मुखः रोजगारोन्मुखश्च अस्ति। सः अवदत् यत् अयं बजटः निर्धनकिसानमहिलाकेंद्रितः अस्ति तथा देशस्य विकाससम्भावनानां बहवः मार्गाः अस्माद् बजटात् प्रशस्ताः भवन्ति। रेलमार्गसडकमार्गस्वास्थ्यलघुकुटीरउद्योगादीनां मूलभूतसुविधानां सुदृढीकरणं कुर्वन् अयं बजटः आत्मनिर्भरभारतदिशायां महत्त्वपूर्णं पदं भवति। आदित्यसाहू अपि अवदत् यत् अयं बजटः नूतनसंकल्पान् नूतनसुधारान् कर्तव्यनिष्ठां च सुनिश्चितं करोति।

विकसितभारतदिशायां निर्णायकः बजटः इति बाबूलाल मराण्डीप्रदेशकार्यालये बजटभाषणानन्तरं मीडियासु संवादं कुर्वन् नेता प्रतिपक्षः बाबूलाल मराण्डी अवदत् यत् अयं बजटः विकसितभारतस्य निर्माणाय उपकारकः अस्ति। अयं बजटः महात्मा गान्धिनः स्वप्नान् साकारयितुं अग्रसरः अस्ति तथा जीविकासृजने विशेषं बलं दत्तम् अस्ति।

प्रदेशसंगठनमहामन्त्री कर्मवीर सिंह अवदत् यत् अयं बजटः एकभारतश्रेष्ठभारत इति अवधारणां अधिकं सुदृढां करिष्यति।

अस्मिन् अवसरे प्रदेशमहामन्त्री सांसदश्च डा प्रदीप वर्मा, मनोज कुमार सिंह, प्रदेशोपाध्यक्षः राकेश प्रसाद इत्यादयः अनेके प्रदेशपदाधिकारीणः अपि बजटस्य प्रशंसां अकुर्वन्।

कार्यक्रमस्य संचालनं प्रदेशकोषाध्यक्षेन दीपक बङ्का इत्यनेन कृतम्। धन्यवादज्ञापनं जे पी शर्मा इत्यनेन कृतम्।

कार्यक्रमे प्रदेशोपाध्यक्षः राकेशप्रसादः प्रदेशकोषाध्यक्षः दीपकबङ्का कार्यालयमन्त्री हेमन्त दास, मीडियाप्रभारी शिवपूजन पाठक, सहमीडियाप्रभारी योगेन्द्र प्रताप सिंह, अशोक बड़ाइक, प्रवक्ता प्रतुल शाह देव, राफिया नाज, सोशलमीडियाप्रभारी राहुल अवस्थी, सहप्रभारी रजनीश पाण्डेय, आर्थिकप्रकोष्ठस्य संयोजकः सीए जे पी शर्मा तथा विभिन्नसंस्थाभ्यः आगताः चार्टर्ड अकाउंटेंटाः कम्पनीसेक्रेटरी इत्येते प्राध्यापकाः अधिवक्तारः चिकित्सकाः च उपस्थिताः आसन्।-----------------

हिन्दुस्थान समाचार