पेराओलंपियन श्याम सुंदर स्वामी एकम्-एकं स्वर्ण-कांस्य पदकं जित्वा प्रदेशस्य नाम प्रकाशितवान्
बीकानेरम्, 01 फ़रवरीमासः (हि.स.)।पंजाबप्रदेशस्य पटियाला-नगरे आयोजितायां सप्तमायां पैरा नेशनल चैंपियनशिपप्रतियोगितायाम् पेराओलंपियनः श्यामसुन्दरः स्वामी उत्कृष्टं प्रदर्शनं कृत्वा एकं स्वर्णपदकं तथा एकं कांस्यपदकं च अर्जयित्वा प्रदेशस्य जनपदस्य च गौ
पेराओलंपियन श्याम सुंदर स्वामी ने एक-एक स्वर्ण-कांस्य पदक जीतकर प्रदेश का नाम रोशन किया


बीकानेरम्, 01 फ़रवरीमासः (हि.स.)।पंजाबप्रदेशस्य पटियाला-नगरे आयोजितायां सप्तमायां पैरा नेशनल चैंपियनशिपप्रतियोगितायाम् पेराओलंपियनः श्यामसुन्दरः स्वामी उत्कृष्टं प्रदर्शनं कृत्वा एकं स्वर्णपदकं तथा एकं कांस्यपदकं च अर्जयित्वा प्रदेशस्य जनपदस्य च गौरवं वर्धितवान्।

श्यामसुन्दरः क्वालिफिकेशन चरणे ७०२ अङ्कान् प्राप्त्वा उत्तमप्रदर्शनं कृत्वा स्वर्णपदकं स्वनाम्ना कृतवान्। तदनन्तरं एलिमिनेशन चरणे सः सेमीफाइनलपर्यन्तं गत्वा कठिनस्पर्धायां पराजितः अभवत्। तथापि कांस्यपदकाय आयोजिते स्पर्धायां सः अद्भुतां खेलभावनां दृढं आत्मविश्वासं च प्रदर्शयन् उत्कृष्टं प्रदर्शनं कृत्वा कांस्यपदकं जेतुं सफलः अभवत्।

श्यामसुन्दरस्य एषा उपलब्धिः क्रीडाप्रेमिषु महान् हर्षोल्लासं जनयति।

---------------

हिन्दुस्थान समाचार