व्ययविवरणम् २०२६ हिमाचलप्रदेशाय विकासस्य नूतनां गतिं प्रदास्यति
शिमलानगरम्, ०१ फेब्रुवरीमासः (हि.स.)। भारतीय–जनता–पक्षस्य हिमाचल–प्रदेश–प्रदेशाध्यक्षः डॉ.राजीव–बिंदलः अवदत् यत् केन्द्रीयं सामान्य–व्ययविवरणम् २०२६ हिमाचलप्रदेशाय विकासस्य, निवेशस्य तथा रोजगारस्य नूतनान् अवसरान् आनयति। सः एतत् व्ययविवरणं हिमाचलस्य
राजीव बिंदल


शिमलानगरम्, ०१ फेब्रुवरीमासः (हि.स.)। भारतीय–जनता–पक्षस्य हिमाचल–प्रदेश–प्रदेशाध्यक्षः डॉ.राजीव–बिंदलः अवदत् यत् केन्द्रीयं सामान्य–व्ययविवरणम् २०२६ हिमाचलप्रदेशाय विकासस्य, निवेशस्य तथा रोजगारस्य नूतनान् अवसरान् आनयति। सः एतत् व्ययविवरणं हिमाचलस्य अर्थव्यवस्थां, पर्यटनक्षेत्रं तथा उद्योगक्षेत्रं च सुदृढं कर्तुं समर्थम् इति वर्णितवान्।

डॉ.बिंदलः रविवासरे अवदत् यत् प्रधानमन्त्री नरेन्द्र–मोदिन: नेतृत्वे प्रस्तुतं एतत् व्ययविवरणं पर्वतीय–राज्यस्य आवश्यकतानां विचारं कृत्वा एव निर्मितम् अस्ति।

डॉ.राजीव–बिंदलः अवदत् यत् व्ययविवरणम् २०२६–२७ अन्तर्गतं केन्द्रीय–कर–विभागे भागरूपेण हिमाचलप्रदेशाय प्रायः १३,९४९ कोटि–रूप्यकाणि प्राप्स्यन्ते। एतेन निधिना राज्ये मार्ग–निर्माणे, स्वास्थ्य–सेवायाम्, शिक्षायाम्, ग्रामीण–विकासे तथा आधारभूत–संरचनायां सम्बद्धाः योजनाः अग्रे नीयन्ते। अनेन राज्य–सर्वकाराय विकास–कार्येषु तीव्रतां दातुं सुदृढः आर्थिकः आधारः लप्स्यते।

सः अवदत् यत् व्ययविवरणे पर्वतीय–राज्येभ्यः विशेषाः प्रावधानाः कृताः सन्ति। हिमाचलप्रदेशे पर्यावरण–अनुकूल–पर्वतीय–मार्गाणां (ईको–फ्रेण्डली माउंटेन कॉरिडोर) विकासस्य घोषणया न केवलं पर्यावरण–संरक्षणं भविष्यति, अपि तु पर्यटनस्य तथा स्थानीय–रोजगारस्य अपि संवर्धनं भविष्यति। अनेन शिमला, मनाली, धर्मशाला तथा अन्येषां पर्यटन–केन्द्राणां गमनागमनं सुलभं भविष्यति, पर्यटकानां संख्या च वर्धिष्यते।

डॉ.बिंदलः अवदत् यत् चिकित्सा–पर्यटन–केन्द्राणां (मेडिकल–टूरिज्म–हब) योजना तथा आयुष–क्षेत्रस्य प्रोत्साहनम् हिमाचलप्रदेशाय विशेष–महत्त्वपूर्णम् अस्ति। प्रदेशः पूर्वमेव प्राकृतिक–पर्यावरणेन तथा औषधीय–वनस्पतिभिः प्रसिद्धः अस्ति। एताभ्यां योजनाभ्यां वेलनेस–पर्यटनस्य, आयुर्वेदस्य तथा पारम्परिक–चिकित्सायाः क्षेत्रे नूतनाः अवसराः सृज्यन्ते, येन स्थानीय–जनानां रोजगारः वर्धिष्यते।

सः अवदत् यत् दश–सहस्र–कोटि–रूप्यकाणां ‘बायो–फार्मा–शक्ति–परियोजना’ बद्दी–सोलन–प्रदेशे औषध–उद्योगस्य अधिकं सुदृढीकरणं करिष्यति। तेन सह एम–एस–एम–ई–क्षेत्राय व्यापक–वित्त–व्यवस्थया लघु–उद्योगिणां, स्थानीय–उद्यमिनां तथा नवोन्मेष–उद्यमानां (स्टार्टअप्स) उन्नत्यै अवसरः लप्स्यते।

डॉ.राजीव–बिंदलः अवदत् यत् व्ययविवरणे आधारभूत–संरचनायाः विकासे विशेषं बलं दत्तम् अस्ति। पूँजीगत–व्ययस्य वृद्ध्या शिमला, मण्डी, सोलन, काङ्गड़ा इत्यादिषु नगरेषु मार्ग–रेल–तथा अन्य–सुविधानां विकासः भविष्यति। सः अन्ते अवदत् यत् समग्रतया व्ययविवरणम् २०२६ हिमाचलप्रदेशं आत्मनिर्भरं कर्तुं, यूनां कृते रोजगारस्य अवसरान् वर्धयितुं, राज्यस्य विकासाय नूतनां दिशं प्रदातुं च समर्थं सिद्धं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता