Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, १० फेब्रुवरीमासः (हि.स.)। उपमुख्यमन्त्री तथा वित्त-मन्त्री दीयाकुमारी मङ्गलवासरे वित्तीय-वर्षस्य २०२६–२७ राज्य-वित्तीयविवरणस्य अन्तिम-रूपं निश्चितवती। उपमुख्यमन्त्री बुधवासरे प्रातः ११ वादने राजस्थान-विधानसभायां वित्तविवरणं प्रस्तोष्यति।
मङ्गलवासरे उपमुख्यमन्त्री-कार्यालये आयोजितायां सभायां वित्तविवरणस्य अन्तिम-बिन्दुषु चर्चां कृत्वा तस्य अनुमोदनं कृतम्। अस्मिन् अवसरे प्रमुख-शासन-सचिवः (वित्त) वैभव-गालरिया, शासन-सचिवः वित्ते (व्यय) टीना-सोनी, शासन-सचिवः वित्ते (बजट) राजन-विशालः, शासन-सचिवः वित्ते (राजस्व) कुमारपाल-गौतमः तथा वित्त-निदेशकः (बजट) बृजेश-किशोर-शर्मा च उपस्थिताः आसन्।
राज्यस्य विकासं, वित्तीय-अनुशासनं तथा जनकल्याणकारी-योजनाः केन्द्रं कृत्वा निर्मितस्य अस्य वित्तविवरणस्य विषये राजनीतिक-आर्थिक-वृत्तेषु विशेषा रुचिः दृश्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता